कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

रक्ताक्ष

raktākṣaपुं · masc.

In 8 kośas: 7 synonym verses, 4 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.100 · p. 49
विट्चरः शूकरो ग्राम्ये महिषो यमवाहनः ॥ १२८१ ॥रजस्वलो वाहरिपुर्लुलायः सैरिभो महः ।धीरस्कन्धः कृष्णशृङ्गो जरन्तो दंशभीरुकः ॥ १२८२ ॥रक्ताक्षः कासरो हंसकालीतनयलालिकौ ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.227 · p. 28
महिषः सैरिभ उक्तो रक्ताक्षः कासरो लुलायश्च ।वाध्रीणसश्च खड्गी गण्डक इति कथ्यते सद्भिः ॥ २२७ ॥
आर्या
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.434 · p. 181
महो जरन्तो रक्ताक्षो धीरस्कन्धश्च सैरिभः ।यमार्थवाहनार्थोऽपि कृष्णशृङ्गश्च कासरः ॥ ४३४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.144 · p. 333
पीतपादा वङ्गकुला हट्टली प्रियवादिनी ।जीवंजीवस्तु रक्ताक्षश्चकोरो विषसूचकः ॥ १४४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.14 · p. 190
रजस्वलो जरन्तः स्यात्कासरः सैरिभो महः ।वाहारिर्हेरम्बो धीरस्कन्ध-रक्ताक्ष-लालिकाः ॥ १४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.187 · p. 75
रजस्वलजरन्तौ च रक्ताक्षो दंशभीरुकः ।महीषेऽरण्यजे चास्मन्गवलोऽपि विभाव्यते ॥ १८७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2314 · p. 375
महिषः स्कन्धशृङ्गश्च धीरस्कन्धश्च सैरिभः ।रक्ताक्षः कृष्णशृङ्गश्च कलुषः कासरः पुनः ॥ २३१४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शान्ताः Koṣakalpataru 6.30.63 · p. 376
आरक्षं गजमौलेर्मर्मणि तद्वच्च रक्षणीयेऽपि ।पारापते चकोरे महि[86b]षे क्रूरे च रक्ताक्षः ॥ ६३ ॥
आर्या
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1493 · p. 177
रसहीने पुनस्त्रि स्याद् रक्ताक्षस्तु द्वयोरयम् ।राक्षसे महिषे चापि रभसस्त्वाह शब्दवित् ॥ १४९३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1494 · p. 178
पारावते चकोरे च बहुव्रीहौ तु भेद्यवत् ।रक्ताङ्गस्तु पुमान् भौमे विद्रुमे तु नपुंसकम् ॥ १४९४ ॥
अनुष्टुप्
doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.63 · p. 244
युञ्जानः सारथौ विप्रे रभसो विषवेगयोः ।रक्ताक्षौ रक्षोमहिषौ रमती स्वर्गमन्मथौ ॥ ६३ ॥
अनुष्टुप्