पारावत
pārāvataपुं · masc.In 18 kośas: 18 synonym verses, 8 as a nānārtha head word, 14 as a meaning of another word.
कपोते पारावतोऽपि मत्स्ये मच्छोऽथ तन्तुणे ।स्मृतो वरुणपाशोऽपि नक्रे शङ्कुमुखोऽपि च ॥ १२१ ॥
अनुष्टुप्
genderपुंmasc.
पारावतः कलरवः कपोतोऽथ शशादनः ॥ १४ ॥पत्री श्येन उलूकस्तु वायसारातिपेचकौ ।दिवान्धः कौशिको घूको दिवाभीतो निशाटनः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
समा… च द्वौ कुवरः कूवरस्तथा ।पारावतः पारवतः पारापत इमे समाः ॥ १५३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
पारावतः कुक्कुटाण्डो जालशालजदर्दुराः ।कुरुविन्दो नन्दिमुखो हालो वरकराधनौ ॥ २४ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 न (wrong syllable)
genderपुंmasc.
वतः पतः परापारापारेभ्यश्चातिमानवान् ।स्यान्मदनमोहनवाग्विलासी रक्तनेत्रवान् ॥ १३२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.doubtful
पारावतो मृदुफलो चत्वनच्छद इत्यपि ।अल्पास्थि-कण्टकिफल-दग्धवृद्धि-परूंषि च ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
इन्द्रनीले मसारं स्यान्महानीलं महोपलम् ।तद्भेदे तु तृणग्राही तत्पारावतमुच्यते ॥ २५ ॥
अनुष्टुप्
genderक्लीneut.
स्यात्पत्रवृश्चिके शूककीटः स्याद्वृश्चिके त्वलिः ।पारावत्स्यात्कलरवे पत्री श्येने प्रकीर्तितः ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
कृष्णचूडः कृमिरिपुर्वुल्वुलो नीलपिङ्गलः ।सारिका स्मारिका सारी पारावतकपोतकौ ॥ ३७६ ॥
अनुष्टुप्
genderपुंmasc.
महेन्द्रनीलरत्नं तु पारावत इतीर्यते ।पक्षिकं पेशलं गाढं गारुत्मतमितीर्यते ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
आल्यालिनौ द्रुणाद्रोणौ स्यादलिः क्षुद्रवृश्चिके ।स्यात् कपोतः कलरवः पारावतपरावतौ ॥
अनुष्टुप्
genderपुंmasc.
पारापतः पारावतः पारपतः कपोतवत् ।कपोटः, गुन्द्राले जीवञ्जीवः स्याज्जीवजीववत् ॥ ३६४ ॥
metre not recognised
genderपुंmasc.
पारावतः कलरवः कपोतो बालवत्सकः ।मणिकण्ठः पूर्णकूटश्चाषो राजविहंगमः ॥ ७९७ ॥
अनुष्टुप्
genderपुंmasc.
बालकः कृष्णशालिः स्यात् प्रवरः शालिषष्टिकः ।कलमसुगन्धिकहायनपारावतगौरलोहितपतंगाः ॥ १४१५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
पारावतोऽथ शक्राख्यो दिवान्धो वक्रनासिकः ।हरिनेत्रो दिवाभीतो नखाशी पीयुघर्घरौ ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
मयूरश्चटकः शौण्डः पादायुधनखायुधौ ।पारावतः कलरवो रक्तदृष्टिर्मदोत्कटः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
रथकारी रथाश्मानमावृती तु खरुञ्चकम् ।सूता पारावतं सूते श्वपाकी पालुखंजनम् ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
पारावती तु गोपानां गीते पारावतः खगः ।समुद्रान्ता तु कार्पासी पृक्का चापि दुरालभा ॥
अनुष्टुप्
meaningsखग
पारावतः कलरवे शैले कपितिन्दुके तद्वत् ।स्त्री गोपगीतिर्लवलीफलयोरथ काचमक्षीर्याम् ॥ ७९ ॥
उपगीतिःmetre not read in every line
तद्युक्तार्थे च नीचे च क्ली तु (वर्मेऽपि ?) शाखिनः ।अत्रोक्तस्य फले द्वे तु कपोते गृहवर्तिनि ॥ ३७३ ॥
अनुष्टुप्metre not read in every line
doubtful
पारावती श्यामले ना जम्भीले कपितिन्दुके ।अथ पीतरक्त उदितो बाल्हीके पद्मके कुसुम्भे च ॥ २०६ ॥
metre not recognised
पारावती नदीगोपगीत्योश्च लवलीफले ।पारावतः कलरवे पुमान् मर्कटतिन्दुके ॥पुष्पदन्तो भवेद्विद्याधरे दिग्वारणान्तरे ।भगवान् त्रिषु पूज्ये स्याद् गौर्यां स्त्री तु जिने पुमान् ॥स्त्रियां भोगवती गङ्गा सर्पपुर्योरहौ पुमान् ।रङ्गमाता च कुट्टन्यां रोगवृक्षभिदोः(?) स्त्रियाम् ॥लक्ष्मीपतिर्नरपतौ वासुदेवे भवेत्पुमान् ।व्यतिपातो योगभेदे महोत्पातापमानयोः ॥
अनुष्टुप्
आरक्षे व्रणशुद्धौ च नियोज्ये त्वभिधेयवत् ।पारावतः खगातस्योरीषत्पाण्डौ च पारदे ॥ १५ ॥
अनुष्टुप्
नीचे व्रीहाविन्द्रनीले प्राणनाथो यमे प्रिये ।पुण्डरीकं सितच्छत्रे कुष्ठभेदे सितांबुजे ॥ १६ ॥
अनुष्टुप्
doubtful
पारावत as a meaning in nānārtha verses
- धरणिकोश कपोतकपोतः कवकः प्रोक्तः सर्ज्यां ? पारावतेऽपि[40]च । परेतो भूतभेदः स्यात्परेतो मृत उच्यते ॥ Dharaṇikośa 15.2.52
- कोषकल्पतरु कलकण्ठपारावताख्ये कलकण्ठ उक्तो जम्बीरके दन्तशठः कपित्थे । स्यात्कर्मरङ्गेऽपि च नागरङ्गे चाङ्गेरिकायां [कथिता] बुधैः स्त्री ॥ ६५ ॥ Koṣakalpataru 6.11.65
- कोषकल्पतरु कामिन्स्याद्ब्रह्मचारिण्यपि चित्रकारे वर्णी तथा लेखकवाचकश्च । शिल्पी तु कारौ नरि कासु( ? )तु स्त्री कामी तु पारावतकोकयोर्ना ॥ ८० ॥ Koṣakalpataru 6.21.80
- कोषकल्पतरु कलध्वनिपारावते कामुककामयोस्तु जल्पाकमद्ये मदयित्नुरुक्तः । स्याद्धर्षयित्नुस्तनये सुवर्णे- ऽथो घोषयित्नुः पिकविप्रयोश्च ॥ ४७ ॥ Koṣakalpataru 6.21.47
- नानार्थार्णवसंक्षेप कपोतकितवेऽथ कपोतो ना वर्णभेदे त्रि तद्वति । द्वे तु पारावताभिख्यखगेऽन्यस्मिन्नपि क्वचित् ॥ ३६७ ॥ Nānārthārṇavasaṃkṣepa 4.367
- नानार्थार्णवसंक्षेप रक्ताक्षपारावते चकोरे च बहुव्रीहौ तु भेद्यवत् । रक्ताङ्गस्तु पुमान् भौमे विद्रुमे तु नपुंसकम् ॥ १४९४ ॥ Nānārthārṇavasaṃkṣepa 4.1494
- नानार्थार्णवसंक्षेप कलरवपारावते कलरवो द्वे समासादि पूर्ववत् । कलहंसस्तु कादम्बसंज्ञके विहगे द्वयोः ॥ १३६ ॥ Nānārthārṇavasaṃkṣepa 6.136
- नानार्थार्णवसंक्षेप मदोत्कटमनोहरा तु पिप्पल्यां स्त्री मनोहारिणि त्रिषु । मदोत्कटस्तु द्वे पारावतसंज्ञविहङ्गमे ॥ ४८७ ॥ Nānārthārṇavasaṃkṣepa 6.487
- नानार्थार्णवसंक्षेप रक्तदृष्टिसुरस्यां पूर्ववत् सादि रक्तदृष्टिः पुनर्द्वयोः । पारावते समासादि पूर्ववन्नृनपोः पुनः ॥ ५२३ ॥ Nānārthārṇavasaṃkṣepa 6.523
- शब्दरत्नावली कलकण्ठकलकण्ठः कलरावे स्यात्पारावतहंसयोः ॥ Śabdaratnāvalī 7.12.15
- शब्दरत्नावली कपोतकपोतश्चित्रकण्ठाङ्गपारावतविहङ्गयोः । क्रन्दितं रुदिताह्वानयोधचित्करणेषु च ॥ Śabdaratnāvalī 7.16.96
- शब्दरत्नावली हारितहारितो मुनिभित्पक्षिभिदोः पारावतोऽपि च । हृषितः प्रहृतप्रीतरोमाञ्चयुतविस्मृते ॥ Śabdaratnāvalī 7.16.152
- शब्दरत्नावली कामिन्कामी पारावते चक्रवाके चटककामुके । कानीनः कन्यकाजातसुते च व्यासकर्णयोः ॥ Śabdaratnāvalī 7.20.44
- वैजयन्ती कपोतकुटीरस्तु कुलीरेऽपि कुंभीलस्तस्करेऽपि च । कपोतः पारावतेऽपि कोकिलस्तूल्मुकेऽपि च ॥ २० ॥ Vaijayantī 7.1.20