कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

जरन्त

jarantaपुं · masc.

In 9 kośas: 9 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.100 · p. 49
विट्चरः शूकरो ग्राम्ये महिषो यमवाहनः ॥ १२८१ ॥रजस्वलो वाहरिपुर्लुलायः सैरिभो महः ।धीरस्कन्धः कृष्णशृङ्गो जरन्तो दंशभीरुकः ॥ १२८२ ॥रक्ताक्षः कासरो हंसकालीतनयलालिकौ ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.434 · p. 181
महो जरन्तो रक्ताक्षो धीरस्कन्धश्च सैरिभः ।यमार्थवाहनार्थोऽपि कृष्णशृङ्गश्च कासरः ॥ ४३४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.14 · p. 190
रजस्वलो जरन्तः स्यात्कासरः सैरिभो महः ।वाहारिर्हेरम्बो धीरस्कन्ध-रक्ताक्ष-लालिकाः ॥ १४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.73 · p. 17
दीर्घरोमा च भल्लूको विकरालोऽच्छभल्लुकः ।माहिषः सैरिभोऽश्वारिर्जरन्तो गद्गदस्वनः ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.187 · p. 75
रजस्वलजरन्तौ च रक्ताक्षो दंशभीरुकः ।महीषेऽरण्यजे चास्मन्गवलोऽपि विभाव्यते ॥ १८७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.4 · p. 188
यौवनिकापि तारुण्ये स्थविरे तु जरन् जरी ।जरन्तश्च जीन-जीर्णावतिवृद्धे दश्म्ययम् ॥ ४ ॥
metre not recognised
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सिंहादिवर्गः Trikāṇḍaśeṣa 2.5.4 · p. 43
हिंसारुः श्वापदो व्याघ्रे महिषस्तु रजस्वलः ।दंशभीरुर्जरन्तश्च लालिको यमवाहनः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव मनुष्यवर्गः Trikāṇḍaśeṣa 2.6.9 · p. 50
श्वश्रुर्वृद्धः शतानीको जरन्तः स्यादथांशकः ।सगन्धाज्ञातिदायादा मातुलो मातुकेशटः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.9 · p. 65
लुलायः कासरः शृंगी हेरंबः कृष्णशृंगकः ।जरन्तः कलुषः पोत्री वीरस्कन्धो रजस्वलः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.773 · p. 114
स्थविरे भेद्यलिङ्गं स्यान्महिषे तु द्वयोरयम् ।जर्जरस्त्वस्त्रियामिन्द्रध्वजे वाद्यान्तरे तु ना ॥ ७७३ ॥
अनुष्टुप्
doubtful