लस्तक
lastakaपुं · masc.In 9 kośas: 9 synonym verses.
धनुश्चापोऽस्त्रमिष्वासः कोदण्डं धन्व कार्मुकम् ।द्रुणासौ लस्तकोऽस्यान्तरग्रं त्वर्तिरटन्यपि ॥ ७७५ ॥
अनुष्टुप्
genderपुंmasc.
लस्तकस्तु धनुर्मध्यं मोर्वी ज्या शिञ्जिनी गुणः ।
अनुष्टुप्
genderपुंmasc.
अटनी धनुषो मध्ये लस्तको ना गुणालयः ।मौर्वी ज्या सिञ्जिनी जीवा न ना गव्या गुणो द्वयोः ॥ २६३ ॥
अनुष्टुप्
genderपुंmasc.
शरासनं धनुश्चाप-कोदण्डाः स्युर्न योषिति ।दृढधन्वा दृढेष्वासोऽथाह्वये शतधन्ववत् ॥भवेच्छतधनुश्चायं भेद्यलिङ्गा अमी मताः ।कोटिरस्यार्तिरटनी मध्यभागस्तु लस्तकः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
धनुर्मध्ये लस्तकः स्यान्मौर्व्यां ज्या सिञ्जिनी गुणः ।गुणमध्ये तु जाणिश्च कीलकश्च किदालकः ॥ ३५९ ॥
अनुष्टुप्
genderपुंmasc.
लस्तकस्तु धनुर्मध्यभागो हस्तेन गृह्यते ।अटनिरटनी चैवमर्त्तिः स्याद्धनुरग्रभाक् ॥ १२६७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 नि (wrong syllable)
genderपुंmasc.
लस्तको ना धनुर्मध्यमस्त्रियां लस्तमित्यपि ।गुणः शिञ्जा शिञ्जिनी ज्या मौर्वी जीवा पतङ्गिका ॥
अनुष्टुप्
genderपुंmasc.
ज्याघातवारिणी गोधा धनुर्मध्ये तु लस्तकः ।जीवा ज्या शिञ्जिनी मौर्वी गुणः स्त्रीपुंसयोरिषुः ॥ १३२९ ॥
अनुष्टुप्
genderपुंmasc.
पलानां पंचभिस्त्वेषां शतैः स्यात्सहितोत्तरम् ।लस्तको धनुषो मध्यमग्रं लुस्तमटन्यपि ॥ १७७ ॥
अनुष्टुप्
genderपुंmasc.