कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शरासन

śarāsanaक्ली · neut.

In 11 kośas: 11 synonym verses, 2 as a meaning of another word.

अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर मर्त्यकाण्डः Abhidhānacintāmaśiloñcha 3.67 · p. 3
चापे धनूधनुशरासनान्यपि विदुर्बुधाः ॥ ६७ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.141
धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् ।इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम् ॥ ८३ ॥कपिध्वजस्य गाण्डीवगाण्डिवौ पुन्नपुंसकौ ।
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.260 · p. 117
मन्त्रप्रयोगजं शस्त्रमथ धन्व तु कार्मुकम् ।शरासनं च कोदण्डं सरासनममूनि षण् ॥ २६० ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.16 · p. 264
शरासनं धनुश्चाप-कोदण्डाः स्युर्न योषिति ।दृढधन्वा दृढेष्वासोऽथाह्वये शतधन्ववत् ॥भवेच्छतधनुश्चायं भेद्यलिङ्गा अमी मताः ।कोटिरस्यार्तिरटनी मध्यभागस्तु लस्तकः ॥ १६ ॥
अनुष्टुप्
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.198 · p. 33
कार्मुकं धन्व कोदण्डं धर्ममस्त्रं शरासनम् ।कार्मुकं तु चतुर्हस्तं कोदण्डं त्र्यङ्गुलं विना ॥ १९८ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.222 · p. 16
शस्त्रमस्त्रं प्रहरणं हननं हेतिरायुधम् ।धनुः शरासनं चापः कोदण्डः कार्मुकेषुमुक् ॥ २२२ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.27 · p. 37
धनुः कोदण्डमिष्वासश्चापो धन्व शरासनम् ।कार्मुकं जीवा प्रत्यञ्चा ज्यामौर्वीसिञ्जिनीगुणाः ॥ २७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1266 · p. 199
धनु धनुर्धनूर्धन्व कोदण्डं कार्मुकं द्रुणम् ।इष्वासोऽस्त्रं तथाऽऽसश्च चापः स्याच्च शरासनम् ॥ १२६६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ध (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.324 · p. 132
धनुर्ना तावरं क्लीबे स्यादिष्वासः शरासनम् ।तृणता काण्डमित्येवं क्वचित् केचित् प्रचक्षते ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1327 · p. 161
अस्त्रशरासनकार्मुककोदण्डद्रोणधन्वधर्माणि ।वा पुंसि चापधनुषी स्त्री तृणताऽस्याग्रमटनिरार्त्निश्च ॥ १३२७ ॥
गीतिः
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.172 · p. 118
अस्त्रियौ चापधनुषावासेष्वासौ धनुर्द्रुणम् ।कार्मुकं धन्व कोदण्डमायुधाग्र्यं शरासनम् ॥ १७२ ॥
अनुष्टुप्
genderक्लीneut.

शरासन as a meaning in nānārtha verses

  • कोषकल्पतरु धनुस्धनुः पियाले नरि राशिभेदे- शरासनेऽसावपि शस्त्रमात्रे । धनुर्धरे तु त्रितये तनुस्तु त्वक्काययोः स्त्री विरले कृशेऽल्पे ॥ १ ॥ Koṣakalpataru 6.21.1
  • शब्दरत्नावली तृणतात्रिगर्ता स्याद्घुर्घुरिका कामुकाङ्गनयोरपि । तृणता स्यात्तृणत्वेऽपि स्त्रियामेव शरासने ॥ Śabdaratnāvalī 7.16.106