कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

चाप

cāpaपुं · masc.

In 21 kośas: 26 synonym verses, 42 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.775 · p. 32
धनुश्चापोऽस्त्रमिष्वासः कोदण्डं धन्व कार्मुकम् ।द्रुणासौ लस्तकोऽस्यान्तरग्रं त्वर्तिरटन्यपि ॥ ७७५ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर मर्त्यकाण्डः Abhidhānacintāmaśiloñcha 3.67 · p. 3
चापे धनूधनुशरासनान्यपि विदुर्बुधाः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.141
धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् ।इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम् ॥ ८३ ॥कपिध्वजस्य गाण्डीवगाण्डिवौ पुन्नपुंसकौ ।
अनुष्टुप्
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.26 · p. 4
चक्रं सुदर्शनं चापं शार्ङ्गं कौमोदकी गदा ।खड्गोऽस्य नन्दकः शङ्खः पाञ्चजन्यः प्रकीर्तितः ॥ २६ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.464 · p. 53
अस्त्रं धनुरिष्वासं कोदण्डं धन्व कार्मुकं चापम् ।बाणासनं द्रुणा स्यान्मौर्वी ज्या सिञ्जिनी गुणो जीवा ॥ ४६४ ॥
metre not recognised
genderक्लीneut.
गणितनाममाला Gaṇitanāmamālā · हरदत्त राशिसञ्ज्ञा Gaṇitanāmamālā 4.38 · p. 2
वणिक् तुला वाणिजश्च वृश्चिकोऽलिसरीसृपः ।चापो धनुश्च धनुषो कोदण्डकार्मुकोऽपि च ॥ ३८ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ण्ड (wrong syllable)
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त चरस्थिरद्विस्वभावसंज्ञा Gaṇitanāmamālā 25.107 · p. 6
कुंभालिवृषसिंहाश्च कीर्त्तिता स्थिरराशयः ।चापयुग्मझषा प्रोक्ता कन्या च द्विस्वभावका ॥ १०७ ॥
अनुष्टुप्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त सूर्यादीनां मूलविकोणसंज्ञा Gaṇitanāmamālā 36.2 · p. 8
सिंहो वृषो मेषकन्याचापतौलिघटेष्वपि ।
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त स्वगृहोच्चमूलत्रिकोणसंज्ञा Gaṇitanāmamālā 37.127 · p. 8
चापस्त्रिकोणपञ्चांशाः स्वक्षेत्रं चापरं गुरोः ।शुक्रस्त्रिकोणतिथ्यंशास्तुलायां स्वालयं ततः ॥ १२७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.261 · p. 117
स्यादस्त्रियां धनुः षान्तं धनुः पुंसि धनूः स्त्रियाम् ।तृणता त्रिणता चापो न स्त्री गाण्डीवगाण्डिवौ ॥ २६१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.169 · p. 480
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.16 · p. 264
शरासनं धनुश्चाप-कोदण्डाः स्युर्न योषिति ।दृढधन्वा दृढेष्वासोऽथाह्वये शतधन्ववत् ॥भवेच्छतधनुश्चायं भेद्यलिङ्गा अमी मताः ।कोटिरस्यार्तिरटनी मध्यभागस्तु लस्तकः ॥ १६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.53 · p. 113
genderपुंक्लीm. n.
एते शब्दा नपुंसके भवन्ति । इदं धान्यं सस्यम् । द्विदलं मुद्गादीनाम् । अंशुकं वस्त्रम् । वितानं वस्त्रमयमावरणम् । वलयं सुवर्णादीनाम् । रत्नं मणिः । मिथुनं स्त्रीपुंसद्वन्द्वम् । श्मशानं मृतस्थानम् । बिसं पद्ममूलम् । तिमिरं तमः । अग्रं शिखरं श्रेष्ठं वा । खमाकाशम् ।पुञ्जाद्रिकोणकरीषकषायतरत्नपिण्याकगर्भदर्भार्भकश्च पुंसि स्युः ।पतनशुल्बताम्रचापनाम्नां नपुंसकता ॥ ६५ ॥
metre not recognised
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 79 · p. 40
कार्मुकं धन्व चापं च धर्म कोदण्डकं धनुः ।शिलीमुखादेरसनं तत्कोटिमटनीं विदुः ॥ ७९ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.382 · p. 149
कोदण्डं कार्मुकं चाप इष्वासोऽस्त्रं धनुस्तथा ।जीवा मौर्वी गुणो गव्या ज्या शिञ्जा शिञ्जिनी द्रुणा ॥ ३८२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.148 · p. 229
आवापचापसूर्पाणि दीपस्तूपोडुपाः शफः ।कुतपोऽथ डिम्बबिम्बकलभाः ककुभो निभः ॥ १४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 थ (wrong syllable)
genderपुंक्लीm. n.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.356 · p. 70
आयुधेऽस्त्रं च शस्त्रं च हरं प्रहरणं तथा ।धनुर्धनुश्च चापश्च कथितौ पुंनपुंसकौ ॥ ३५६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.222 · p. 16
शस्त्रमस्त्रं प्रहरणं हननं हेतिरायुधम् ।धनुः शरासनं चापः कोदण्डः कार्मुकेषुमुक् ॥ २२२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.27 · p. 37
धनुः कोदण्डमिष्वासश्चापो धन्व शरासनम् ।कार्मुकं जीवा प्रत्यञ्चा ज्यामौर्वीसिञ्जिनीगुणाः ॥ २७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1266 · p. 199
धनु धनुर्धनूर्धन्व कोदण्डं कार्मुकं द्रुणम् ।इष्वासोऽस्त्रं तथाऽऽसश्च चापः स्याच्च शरासनम् ॥ १२६६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ध (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.323 · p. 132
अस्त्रे शस्त्रं प्रहरणमुद्घातो हेतिरायुधम् ।अस्त्रियौ तु धनुश्चापौ धनुकोदण्डकार्मुकम् ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.53 · p. 7
नवैताः शक्तयः शंभोर्जटाजूटः कपर्दकः ।चापः पिनाकोऽजगवमजगावमजीगवम् ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1327 · p. 161
अस्त्रशरासनकार्मुककोदण्डद्रोणधन्वधर्माणि ।वा पुंसि चापधनुषी स्त्री तृणताऽस्याग्रमटनिरार्त्निश्च ॥ १३२७ ॥
गीतिः
genderपुंक्लीm. n.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.8 · p. 35
अर्घीशो दीपिका वामश्रवणो मधुसूदनः ।इन्द्रश्चापः षण्मुखश्च ऊ-कारो रक्षणाभिधः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.172 · p. 118
अस्त्रियौ चापधनुषावासेष्वासौ धनुर्द्रुणम् ।कार्मुकं धन्व कोदण्डमायुधाग्र्यं शरासनम् ॥ १७२ ॥
अनुष्टुप्
genderपुंक्लीm. n.

चाप as a meaning in nānārtha verses

  • धरणिकोश धन्वन्पक्ष्म सूत्रादिसूक्ष्मांशे किञ्जल्के नेत्रलोमनि । धन्वा स्थाने च चापे च धन्वा मरुरपि स्मृतः ॥ Dharaṇikośa 19.2.9
  • धरणिकोश धनुस्धनुश्चापे राशिभेदे धामिन्याख्यद्रुमेऽपि च । उकारान्तो धनुशब्दो यश्च सान्तो भविष्यति ॥ Dharaṇikośa 19.3.5
  • धरणिकोश धर्मधर्माः पुण्ययमन्यायस्वभावाचारसो[70]मपाः । विदुश्चापे धर्मशब्दमहिंसोपमयोरपि ॥ Dharaṇikośa 24.3.5
  • धरणिकोश धनुस्नासा च नासिका ज्ञेया नासा द्वारोर्ध्वदारु च । धनुश्चापे राशिभेदे प्रियालाख्यद्रुमो धनुः ॥ Dharaṇikośa 31.2.4
  • कोषकल्पतरु कार्मुकचापे च वेणावपि कार्मुकं स्यात् ॥ १०० ॥ Koṣakalpataru 6.1.100
  • कोषकल्पतरु शार्ङ्गखड्गस्तु बुद्धासिषु खड्गिशृङ्गे स्याद्गण्डकेऽथ त्रिषु दुर्गमे स्यात् । दुर्गः शिवानीलिकयोः स्त्रियां स्या- च्चापेऽपि शार्ङ्गं समुदीरयन्ति ॥ ६ ॥ Koṣakalpataru 6.3.6
  • कोषकल्पतरु कालपृष्ठसहारकण्ठे मधुरस्वरे च स्यात्पूतिकाष्ठं सरले सुरद्रौ । स्यात्कालपृष्ठं रविपुत्रचापे चापेऽपि सारङ्ग उदीरितो ना ॥ ६७ ॥ Koṣakalpataru 6.11.67
  • कोषकल्पतरु कोदण्डउक्तश्चूडाबर्हयोर्ना शिखण्डः कोदण्डोऽस्त्री भ्रूलतायां [च] देशे । चापेऽथ स्यादस्त्रियां शाखिनः स्या- न्मध्ये मूलस्क[277a]न्धयोश्च प्रकाण्डः ॥ ८५ ॥ Koṣakalpataru 6.12.85
  • कोषकल्पतरु द्रुणप्रायो भूम्न्यसुषु त्रिषु त्वयमिह स्यात्पूरितेऽथ द्रुणं चापेऽसौ च पुमांस्तु वृश्चिकगतो भृङ्गेऽथ कूर्म्यां द्रुणी । वार्द्रोण्यां च कृपीपतौ तु गदितः पुंस्याढके तच्चतु- ष्के द्रोणः करटेऽसिते द्रुणिरिव द्रोणी च नीवृद्भिदि ॥ ५ ॥ Koṣakalpataru 6.15.5
  • कोषकल्पतरु तृणताचापे स्यात्तृणताथ गोपतिरपि क्ष्मापे च शण्डे शिवे सूर्ये[296b]श्रीपतिरच्युते स्मरहरेऽथो शिल्पिभेदे नरि । जीवेऽथ स्थपतिश्च यष्टरि भवेत् सूते तथा सौविदे । कालेन्द्वोरमतिः स्मरे तु रमतिः कान्तेऽपि काले दिवि ॥ २९ ॥ Koṣakalpataru 6.16.29
  • कोषकल्पतरु ऐरावतनरि नारङ्गे सुरमातङ्गे चैरावत ऐन्द्रे त्वतिदीर्घे । चापे चरमे लकुचे त्वस्त्री विद्युद्भेदे विद्युति च स्त्री ॥ ५६ ॥ Koṣakalpataru 6.17.56
  • कोषकल्पतरु धन्वन्स्कन्धे च कालेऽथ गिरौ घने च ग्रावोपले धन्व तु चापवाचि । स्थले तथा जाङ्गलदेशवा[ची] ब्रह्मा तु ना धातरि भूसुरे च ॥ ८६ ॥ Koṣakalpataru 6.21.86
  • कोषकल्पतरु अस्त्रस्याद्वृत्तमानेऽथ युगे न शस्त्रं लोहास्त्रयोः स्याच्छुरिकासु योषित् । अस्त्रं तु चापे प्रहृतौ च खड्गे वक्त्रं मुखे वृत्तविशेषकं स्त्री ॥ ३३ ॥ Koṣakalpataru 6.27.33
  • नानार्थार्णवसंक्षेप अस्त्रअभ्रकाह्वयधातावप्यस्त्रमायुधचापयोः । अघं तु व्यसने पापे दुःखेऽथ स्यादलध्वनिः ॥ ३ ॥ Nānārthārṇavasaṃkṣepa 2.3.3
  • नानार्थार्णवसंक्षेप धर्मराशौ तु नवमे प्राहुर्मौहूर्ता ना तु सोमपे । न्यायाचारयमाहिंसाखड्गचापेषु राज्ञि च ॥ ६२९ ॥ Nānārthārṇavasaṃkṣepa 2.5.629
  • नानार्थार्णवसंक्षेप धन्वन्ना तु धर्मे धन्व तु क्ली चापे व्योम्न्यथ शाश्वतः । स्थलेऽप्याह मरौ पुंसि ध्वजी तु ध्वजसंयुते ॥ ६३७ ॥ Nānārthārṇavasaṃkṣepa 2.5.637
  • नानार्थार्णवसंक्षेप धनुस्धन्वी तु ना धनूराशौ धानुष्के तु भवेत् त्रिषु । धनुर्नृशण्डश्चापे क्ली चतुर्हस्तप्रमाणके ॥ ६३९ ॥ Nānārthārṇavasaṃkṣepa 2.5.639
  • नानार्थार्णवसंक्षेप केतनकेतनं स्यादकार्ये च चापे कृत्येऽथ कैतवम् । द्यूते च कपटे चाथ कैवल्यं मोक्ष एव च ॥ २५ ॥ Nānārthārṇavasaṃkṣepa 3.3.25
  • नानार्थार्णवसंक्षेप अवसउमासंज्ञे धान्यभेदे वने तु स्यान्नपुंसकम् । अवसं क्ली भवेच्चापे ना पाथेयाशनीयके ॥ १२२ ॥ Nānārthārṇavasaṃkṣepa 4.122
  • नानार्थार्णवसंक्षेप इष्वासइल्वलाः स्त्रिय इत्येवमभाषिषत तन्मृषा । इष्वासो न स्त्रियां चापे नप् त्विषोरसने त्रि तु ॥ २२४ ॥ Nānārthārṇavasaṃkṣepa 4.224
  • नानार्थार्णवसंक्षेप गाण्डीवअनादिसम्प्रदायस्तु गाण्डीवो न स्त्रियामयम् । पार्थचापे चापमात्रेऽप्यथैकोऽप्याह गाण्डिवम् ॥ ६६४ ॥ Nānārthārṇavasaṃkṣepa 4.664
  • नानार्थार्णवसंक्षेप गाण्डिवपार्थचापे च चापे च न स्त्रीत्येके व्यवस्थिताः । असाधुमेनमाचष्टे दोषज्ञो भागवृत्तिकृत् ॥ ६६५ ॥ Nānārthārṇavasaṃkṣepa 4.665
  • नानार्थार्णवसंक्षेप शरठआयुधे चैव चापे च क्रीडाशीले तु भेद्यवत् । शकलस्त्वृषिभेदे ना खण्डे तु नरशण्डयोः ॥ १७८२ ॥ Nānārthārṇavasaṃkṣepa 4.1782
  • नानार्थार्णवसंक्षेप किकिदीविउत्तरेऽनन्तरे वर्षे हेमकूटापराह्वये । किकिदीविस्तु ना वर्णे द्वे तु चापाह्वये खगे ॥ १७४ ॥ Nānārthārṇavasaṃkṣepa 6.174
  • नानार्थार्णवसंक्षेप पूर्णकूटपूर्णकूटो द्वयोः कूटपूरिसंज्ञे विहङ्गमे । चापसंज्ञे च लिङ्गार्थसमासाः पूर्ववत् स्मृताः ॥ ४०७ ॥ Nānārthārṇavasaṃkṣepa 6.407
  • परमानन्दीयनाममाला इष्वासइष्वासो विशिखक्षेपेऽथेष्वासो धन्विचापयोः । इन्द्रियं करणे शुक्रेऽथेरिणं शून्य ऊषरे ॥ ६० ॥ Paramānandīyanāmamālā 5.2.60
  • परमानन्दीयनाममाला द्रुणभृङ्गे कीटे द्रुणं चापे कच्छपान्तरखड्गयोः । द्रोणी बेडान्तरे भूध्रसंधावथ दिवं जले ॥ २३६ ॥ Paramānandīyanāmamālā 5.16.236
  • शारदीयाख्यनाममाला सारङ्गवीणावारणवाजिसिंहहरिणानङ्गप्रवालाचलाः चन्द्रश्चातकचञ्चरीकजलमुक्चापासिवज्राहयः । हंसः कोकिलकेकिकीरगरुडः स्वर्णानिलार्कास्तमो गुञ्जा श्रीफलपद्मदीपखटीकाः सारङ्गशब्दा इमे ॥ १२७ ॥ Śāradīyākhyanāmamālā 3.5.127
  • शब्दरत्नावली कार्मुककामुकोऽशोकवृक्षे च कामनेऽप्यतिमुक्तके । कार्मुकं स्यात्तु चापे ना वंशे कर्मक्षमेऽन्यवत् ॥ Śabdaratnāvalī 7.1.48
  • शब्दरत्नावली शार्ङ्गशार्ङ्गं तु चापमात्रे स्यात् तथा कृष्णशरासने ॥ Śabdaratnāvalī 7.3.26
  • शब्दरत्नावली धनुस्धनुर्ना राशिभेदे स्यात्पियालद्रुमचापयोः । धनं वित्ते गोधने च स्नेहपात्रेऽपि न द्वयोः ॥ Śabdaratnāvalī 7.20.12
  • शब्दरत्नावली धन्वन्तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
  • शब्दरत्नावली अस्त्रअराऽन्यवत् शीघ्रगे स्यात्क्लीबं चक्राङ्गशीघ्रयोः । अग्रमालम्बने वृन्दे परिमाणे पलस्य च ॥ पुरस्तादुपरिप्रान्ते एकाग्रे च नपुंसकम् । अतिरिक्ते प्रधाने च प्रमाणे चाभिधेयवत् ॥ अस्त्रं चापे प्रहरणे कृपाणे च नपुंसकम् । अभ्रं धातुभिदि स्वर्णे गगने स्याद्घनेऽपि च ॥ Śabdaratnāvalī 7.27.3
  • शब्दरत्नावली गाण्डीवकुटुम्बोऽस्त्री जनज्ञातिबान्धवेषु च सन्ततौ । कैरवं कुमुदे धूर्ते चन्द्रिकायान्तु कैरवी ॥ गाण्डीवगाण्डिवौ चापे पार्थचापेऽपि न स्त्रियौ । गालवो मुनिभेदे स्यात्तथा लोध्रमहीरुहे ॥ ताण्डवोऽस्त्री तृणभिदि ख्याते नृत्ये समुद्धते । त्रिदिवा तु नदीभेदे स्वर्लोके तु भवेत्पुमान् ॥ Śabdaratnāvalī 7.29.29
  • शब्दरत्नावली धनुस्तेजः क्लीबं पराक्रान्तिप्रभाववीर्यदीप्तिषु । धनुः पियाले राशौ ना चापेऽस्त्री धन्वनि त्रिषु ॥ Śabdaratnāvalī 7.32.24
  • त्रिकाण्डशेष कार्मुकवेणौ ना कार्मुकं चापे गुणवृक्षेऽपि कूपकः । कल्को विभीतके तैलादिशेषे चाथ कञ्चुकः ॥ १३ ॥ Trikāṇḍaśeṣa 3.3.13
  • त्रिकाण्डशेष तृणताव्याप्तविस्तृतवाद्येषु ततं तिक्तं सुगन्ध्यपि । चापे तृणत्वे तृणता तातः पित्रनुकम्पयोः ॥ १५८ ॥ Trikāṇḍaśeṣa 3.3.158
  • त्रिकाण्डशेष धन्वन्धन्वा मरौ धन्वचापे धावनं गतिशौचयोः । निर्भर्त्सनं खलीकारालक्तयोरथ नन्दनम् ॥ २४४ ॥ Trikāṇḍaśeṣa 3.3.244
  • वैजयन्ती शार्ङ्गशस्त्राण्यस्त्रमयः शंसा शास्त्रं ग्रन्थनिदेशयोः । शार्ङ्गं चापे हरेश्चापे शीलं वृत्तस्वभावयोः ॥ ३३ ॥ Vaijayantī 6.3.33
  • वैजयन्ती तृणताचापे तृणत्वे तृणता दारिद्येऽपि च दुर्गतिः । पद्माकरेऽब्जे नलिनी स्वास्थ्ये नाशे च निर्वृतिः ॥ १० ॥ Vaijayantī 7.2.10
  • वैजयन्ती कार्मुककटीरं कन्दरे कट्यां कलत्रं श्रोणिभार्ययोः । क्रन्दनं रुदिते ध्वाने कार्मुकं शस्त्रचापयोः ॥ ६ ॥ Vaijayantī 7.3.6
  • वैजयन्ती केतनकोदण्डं तु चतुर्हस्तं धनुर्वेणुर्धनुर्धरः । केतौ तु केतनं चापे कृत्यार्थोपनिमन्त्रणे ॥ १२ ॥ Vaijayantī 7.3.12