कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

धन्वन्

dhanvanक्ली · neut.

In 19 kośas: 28 synonym verses, 8 as a nānārtha head word, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.775 · p. 32
धनुश्चापोऽस्त्रमिष्वासः कोदण्डं धन्व कार्मुकम् ।द्रुणासौ लस्तकोऽस्यान्तरग्रं त्वर्तिरटन्यपि ॥ ७७५ ॥
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.4 · p. 37
स्थलं स्थली मरुर्धन्वा क्षेत्राद्यप्रहतं खिलम् ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह भूमिवर्गः Amarakośa 2.1.5
समानौ मरुधन्वानौ द्वे खिलाप्रहते समे ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.141
धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् ।इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम् ॥ ८३ ॥कपिध्वजस्य गाण्डीवगाण्डिवौ पुन्नपुंसकौ ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.158 · p. 20
उर्वरा सर्वसस्या भूर्भवेदिरिणमूषरम् ।खिलमप्रहतं स्थानं मरुर्धन्वा स्थलं स्थली ॥ १५८ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.464 · p. 53
अस्त्रं धनुरिष्वासं कोदण्डं धन्व कार्मुकं चापम् ।बाणासनं द्रुणा स्यान्मौर्वी ज्या सिञ्जिनी गुणो जीवा ॥ ४६४ ॥
metre not recognised
genderक्लीneut.
धनुः सान्तमुषन्तोऽपि धनुरेवं धनूर्मता ।घनु(?)र्धन्व च तुल्य(ल्ये?) द्वे रिष्टिरृष्टिरुभे समे ॥ २१३ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव देशप्रकाण्डः Kalpadrukośa 1.2.38 · p. 8
तथा चाप्रहतं क्लीबे मरुर्धन्वानुभौ नरि ।गोष्ठं गोस्थानकं क्लीबे गौष्ठीनं भूतपूर्वकम् ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.260 · p. 117
मन्त्रप्रयोगजं शस्त्रमथ धन्व तु कार्मुकम् ।शरासनं च कोदण्डं सरासनममूनि षण् ॥ २६० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.79 · p. 470
अपूर्वदैवकार्यादौ युगं दृष्टं तथा कटु ।असेद्वृद्धः स्थले धन्वारिष्टमद्रुमपक्षिणोः ॥ ७९ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ भूकाण्डः Koṣakalpataru 2.10 · p. 114
मरुर्धन्वा जाङ्गलोऽथ जगती वैष्ट्रकं जगत् ।भुवनं विष्टपं चास्त्री पिष्टपं विश्वमन्तिमे ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.15 · p. 264
अमुक्तं तु कृपाणादि यष्ट्याद्यं स्याद्द्वयात्मकम् ।धन्विष्वासौ द्रुणं चासो धन्व कार्मुकमस्त्रकम् ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.81 · p. 104
शैलेय-सृक्कत्त्वचभेषजानांस्थानाञ्जन-द्वार-शुकच्छदानाम् ।ह्रीबेर-पुष्पान्तिक धन्व-वल्क-कुसुम्भ-कल्कौमक-पद्मकानाम् ॥ ८१ ॥
उपजातिः
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.2 · p. 106
कुक्षौ कृत्स्नं वाद्यभेदे घनं स्याद्द्युम्नं चिह्नं निम्नमह्ना ललाम ।कुनं(?) रोम स्याद्दृशानं च पर्ववर्त्म प्रोक्तं सक्थि धन्व स्थले च ॥ २ ॥
शालिनीmetre not read in every linenearly शालिनी: pāda 1, syllable 1 कु (wrong syllable)
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.198 · p. 33
कार्मुकं धन्व कोदण्डं धर्ममस्त्रं शरासनम् ।कार्मुकं तु चतुर्हस्तं कोदण्डं त्र्यङ्गुलं विना ॥ १९८ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 79 · p. 40
कार्मुकं धन्व चापं च धर्म कोदण्डकं धनुः ।शिलीमुखादेरसनं तत्कोटिमटनीं विदुः ॥ ७९ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.230 · p. 33
सर्वसस्या मही च स्यादुर्वरा मृत्तु मृत्तिका ।इरिणं तूषरं धन्वा स्थलं प्रोक्ता स्थली पुनः ॥ २३० ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.3 · p. 25
प्रशस्ताथाप्रशस्ता स्यादूषरश्चोषकः खिलः ।जलराहित्यभूमौ स्यान्मरुर्धन्वा च धन्व च ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.357 · p. 70
धन्व धन्वा धन्वमपि चपं चापि चपोऽपि च ।इष्वासोऽप्यषुक(?)श्चैव चापे धाटनिरिष्यते ॥ ३५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ध (wrong syllable)
genderपुंक्लीm. n.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.27 · p. 37
धनुः कोदण्डमिष्वासश्चापो धन्व शरासनम् ।कार्मुकं जीवा प्रत्यञ्चा ज्यामौर्वीसिञ्जिनीगुणाः ॥ २७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1266 · p. 199
धनु धनुर्धनूर्धन्व कोदण्डं कार्मुकं द्रुणम् ।इष्वासोऽस्त्रं तथाऽऽसश्च चापः स्याच्च शरासनम् ॥ १२६६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ध (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1595 · p. 256
स्थला कृत्रिमभूमिः स्यात् मरुर्धन्वा जलं विना ।अप्रहतं खिलं क्षेत्रं कृतं यत्र न कर्षणम् ॥ १५९५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ह (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.8 · p. 46
स्थली दैवकर्तृकेऽन्यत्स्थलं क्लीबे स्थलेत्यपि ।निर्जले मरुधन्वानौ खिलमप्रहतं समम् ।त्रिषु स्याज्जगती लोको जगद्भुवनपिष्टपम् ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.272 · p. 210
शस्त्रं, चापे धन्व धन्वं पुंक्लीबो धनुवद्धनुः ।धनूः स्त्रियां त्रिणतावत् तृणता धनुषोऽग्रके ॥ २७२ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 ण (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वसुंधराध्यायः Śabdaratnākara 2.1.369 · p. 49
मरुर्धन्वा च पुंसि द्वौ खिलं चाप्रहतं त्रिषु ।द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी ॥ ३६९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1327 · p. 161
अस्त्रशरासनकार्मुककोदण्डद्रोणधन्वधर्माणि ।वा पुंसि चापधनुषी स्त्री तृणताऽस्याग्रमटनिरार्त्निश्च ॥ १३२७ ॥
गीतिः
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश देशाध्यायः Vaijayantī 3.1.42 · p. 38
मरवः पुंसि धन्वान आसारी तु स्थली स्थलम् ।कचंगला तु नीलिंगी भूर्नानाजंतुसंयुता ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.172 · p. 118
अस्त्रियौ चापधनुषावासेष्वासौ धनुर्द्रुणम् ।कार्मुकं धन्व कोदण्डमायुधाग्र्यं शरासनम् ॥ १७२ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास नार्धश्लोकः Dharaṇikośa 19.2.9 · p. 110
पक्ष्म सूत्रादिसूक्ष्मांशे किञ्जल्के नेत्रलोमनि ।धन्वा स्थाने च चापे च धन्वा मरुरपि स्मृतः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.86 · p. 259
स्कन्धे च कालेऽथ गिरौ घने चग्रावोपले धन्व तु चापवाचि ।स्थले तथा जाङ्गलदेशवा[ची]ब्रह्मा तु ना धातरि भूसुरे च ॥ ८६ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.637 · p. 97
ना तु धर्मे धन्व तु क्ली चापे व्योम्न्यथ शाश्वतः ।स्थलेऽप्याह मरौ पुंसि ध्वजी तु ध्वजसंयुते ॥ ६३७ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास धकारादयः Paramānandīyanāmamālā 5.17.255 · p. 194
धृतिः सुखेऽध्वरे धैर्ये संतोषे धारणेऽपि च ।कोदण्डस्थलयोर्धन्व धन्वा स्यान्मरुमण्डले ॥ २५५ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.77 · p. 220
दैवे दिष्टमकार्यादौ कट्वयूपे युगं स्मुतम् ।असमासे मतं द्वन्द्वं नन्तं धन्व स्थलेऽपि च ॥ ७७ ॥
अनुष्टुप्
meaningsस्थल
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.57 · p. 238
तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः ।दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् ।दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च ।दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः ।अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ध्वजी रथे च भूदेवे भये सर्पे धराधरे ।धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके ।धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् ।धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः ।नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥नन्दी हरद्वारपाले कन्दवाले वटद्रुमे ।नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे ।अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥निदानं वत्सदामादिकारणे क्षयकारणे ।निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् ।स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु ।एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे ।प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् ।पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः ।स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु ।पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥
metre not recognisednearly अनुष्टुप्nearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)nearly अनुष्टुप्: pāda 4, syllable 3 न (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 ल्क (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1944 · p. 237
मरुर्धन्वा धनुर्धन्व धवः पत्यौ द्रुमान्तरे ।धृतिः सौख्ये धारणे च धाता ब्रह्मणि पोषके ॥ १९४४ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.244 · p. 175
धन्वा मरौ धन्वचापे धावनं गतिशौचयोः ।निर्भर्त्सनं खलीकारालक्तयोरथ नन्दनम् ॥ २४४ ॥
अनुष्टुप्

धन्वन् as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् मरुकिंशारू सस्यशूकेषु मरू धन्वधराधरौ ॥ १६३ ॥ Amarakośa 3.3.163
  • धरणिकोश मरुमरू पर्वतधन्वानौ शारौ शबलमारु[77]तौ । खरः स्याद्गर्दभे तीक्ष्णे चौरश्चोरसुगन्धयोः ॥ Dharaṇikośa 26.1.3
  • कोषकल्पतरु युध्मकर्पूरे सलिले तथा स्मरहरे स्याद्यज्ञनेत्र्योषधा- विष्मः कामवसन्तयोर्नरि मतो युध्मः शरे योद्धरि । युद्धे धन्वनि चाथ भीम उदितः शम्भौ बकद्वेषिणि स्यादम्लेऽपि च वेतसे त्रिषु पुनर्घोरेऽथ भामो रवौ ॥ ६५ ॥ Koṣakalpataru 6.25.65
  • कोषकल्पतरु धनुस्[90b]धनुः पियालद्रुमधन्विनोर्ना न स्त्री भवेद्धन्वनि राशिभेदे । तपुः पुमानग्निविपक्षसूर्ये चाशीः स्त्रियां स्याद्धितशंसनेऽपि ॥ १३ ॥ Koṣakalpataru 6.31.13
  • शब्दरत्नावली धनुस्तेजः क्लीबं पराक्रान्तिप्रभाववीर्यदीप्तिषु । धनुः पियाले राशौ ना चापेऽस्त्री धन्वनि त्रिषु ॥ Śabdaratnāvalī 7.32.24
  • शब्दरत्नाकर मरुस्याद्राश्येलकयोर्मेषो मोहो वैचित्र्यमौर्ख्ययोः । मरुर्धन्वनि देशे च मारस्तु मरणे स्मरे ॥ १९७८ ॥ Śabdaratnākara 4.1.1978