वाचस्पति
vācaspatiपुं · masc.In 11 kośas: 11 synonym verses, 2 as a meaning of another word.
बृहस्पतिः सुराचार्यो जीवश्चित्रशिखण्डिजः ।वाचस्पतिर्द्वादशार्चिर्धिषणः फाल्गुनीभवः ॥ ११८ ॥गीर्बृहत्योः पतिरुतथ्यानुजाङ्गिरसौ गुरुः ।
अनुष्टुप्
genderपुंmasc.
बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः ।जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
वाचस्पतिराङ्गिरसो वृहस्पतिः कथ्यते गुरुर्जीवः ।धिषणस्त्रिदशाचार्यश्चित्रशिखण्डिप्रसूतश्च ॥ ४७ ॥
आर्या
genderपुंmasc.
त्रिदशेज्यो वासवेज्यो देवेज्यः सचिवो गुरुः ।वाचस्पतिश्चाङ्गिरसो वाक्पतिश्वांगिरासुतः ॥ ६९ ॥
अनुष्टुप्
genderपुंmasc.
वाचस्पतिः सुरगुरुर्गुरुरङ्गिरोजोजीवो बृहस्पतिरुतथ्यकनिष्ठ इज्यः ।स द्वादशार्चिरपि चित्रशिखण्डिजन्मास्याद्दीदिविर्धिषण-गीर्पति-फल्गुनीजाः ॥ १०४ ॥
वसन्ततिलका
genderपुंmasc.
सप्तर्षिजः सुराचार्यो गीष्पतिः फल्गुनीभवः ।वाचस्पतिरुतथ्यानुजोऽङ्गिरा बृहतीपतिः ॥ ११५ ॥
अनुष्टुप्
genderपुंmasc.
बुधस्तु सौम्यो ज्ञश्चान्द्रिर्गुरुर्जीवो बृहस्पतिः ।वाचस्पतिः सुराचार्यो गीष्पतिर्धिषणोऽङ्गिराः ॥ ७४ ॥
अनुष्टुप्
genderपुंmasc.
आङ्गिरसो गुरुर्वाग्मी गीःपतिर्बृहतीपतिः ।द्वादशार्चिः सुराचार्यो वाचस्पतिर्बृहस्पतिः ॥ १०८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable); pāda 4, syllable 3 स्प (wrong syllable)
genderपुंmasc.
वाचस्पतिः सुराचार्यो वाक्पतिर्वचसाम्पतिः ।उतथ्यानुज इन्द्रेज्यो देवेज्यो बृहतीपतिः ॥
अनुष्टुप्
genderपुंmasc.
धिषणस्त्रिदशाचार्यो जीवश्चित्रशिखण्डिजः ।गुरुराङ्गिरसो वाचस्पतिर्गीष्पतिरित्यपि ॥ १८५ ॥
अनुष्टुप्
genderपुंmasc.
वाचस्पतिरनिर्वापः सुराचार्यो बृहस्पतिः ।गीष्पत्यांगिरसौ चक्षाश्चारुश्चित्रशिखण्डिजः ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
वाचस्पति as a meaning in nānārtha verses
- कोषकल्पतरु धिषणयाम्यायां दिशि यज्ञदानविधिषु स्त्री तत्प्रतिष्ठास्वथ स्निग्धाकर्कशयोस्त्रये च मसृणोऽथ स्यात्क्षुमायां स्त्रियाम् । पुंसि द्वावुषणोषणौ रसभिदि स्त्रीत्वे कणायामिमौ क्लीबे स्तो मरिचेऽथ पुंसि धिषणो वाचस्पतौ स्त्री धियि । रतपरिभवयोः स्याद्धर्षणं स्त्रीत्वसत्यां नयनरुजि यमे स्याद्धर्षणो योगभेदे । हरणमपि विवाहस्वे भुजे स्याद्धृतौ च श्रवणमपि हृतस्त्रि श्रोत्रतत्कर्मणोश्च ॥ २६ ॥ Koṣakalpataru 6.15.26
- कोषकल्पतरु वाग्मिन्कम्रेऽन्यवद्भृङ्गिरिटौ तु सूर्ये चर्मी तथा चर्मलसत्करेऽपि । वाग्ग्मी तु वाचस्पतिवक्तृवाची स्वामी भवेदीश्वरषण्मुखार्थः ॥ ८१ ॥ Koṣakalpataru 6.21.81