विचकिल
vicakilaपुं · masc.In 9 kośas: 9 synonym verses, 2 as a nānārtha head word.
genderपुंmasc.
हेमपुष्पमिह नागकेसरं,केसरं च वकुलं प्रचक्षते ।कोविदारमपि काञ्चनारकं,मल्लिकां विचकिलं विचक्षणाः ॥ २०६ ॥
रथोद्धता
genderक्लीneut.
मालती राजपुत्री स्यात्सुगन्धा नवमालिका ।मल्लिकायां विचकिलो मङ्गलं तस्य सौरभम् ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
अति[40a]मुक्तो मुद्गु(द्ग?)रः स्यान्मण्डको भ्रमरोत्सवः ।पुण्ड्रकः स्याद्विचकिलः सुगन्धश्चापि कामुकः ॥ ९८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
मल्लिकायां विचकिलो मङ्गलं तस्य सौरभः ।माङ्गल्यं तु वरारोहा कथ्यते नवमल्लिका ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
मल्लिका तृणशून्यं च विचकिलश्च भूपदी ।शतभीरुस्तथा शीतभीरुर्नामानि सन्ति वै ॥ २०४३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कि (wrong syllable)
genderपुंmasc.
तृणशूल्यं विचकिलं सितपुष्पा सितेत्यपि ।आस्फोता वनमल्ली स्यात् आस्फाटा सुभगा च सा ॥
अनुष्टुप्
genderक्लीneut.
गणिका यूथिकाम्बष्ठा शीतभीरुस्तु मल्लिका ।भूपदी ना विचकिलस्तृणशूल्यं नपुंसकम् ॥ ५४४ ॥
अनुष्टुप्
genderपुंmasc.
मल्लिकायां विचकिलो भूपदी मुक्तबन्धना ।शतभीरुर्मदयन्ती गवाक्षी तृणशून्यकम् ॥ १८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 द (wrong syllable)
genderपुंmasc.
रतकेलिः कलालापे षिङ्गे दन्तक्षतेऽपि च ।भवेद्वायुफलं शक्रकार्मुके करकेऽपि च ॥तथा विचकिलो मल्लीप्रभेदे मदनेऽपि च ।बृहन्नलो बृहत्पोटगले दीर्घेऽर्जुनेऽपि च ॥सदाफलं स्कन्धफले नारिकेलेऽप्युडूम्बरे ।सिनीवाली दृष्टचन्द्रकलामान्दुर्गयोरपि ॥सौवर्चलं लवणभित्सर्जिकाक्षारयोरपि ।हस्तिमल्लः शङ्खनागे ऐरावतगणेशयोः ॥हरितालं धातुभेदे स्त्री दूर्वाकाशयोरपि ।हालाहलो ब्रह्मसर्प त्वञ्जनाखुभिदि स्त्रियाम् ॥
अनुष्टुप्