कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नवमल्लिका

navamallikāस्त्री · fem.

In 4 kośas: 4 synonym verses.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.26
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ।कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ २५ ॥शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ।पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥अरविन्दमशोकं च चूतं च नवमल्लिका ।नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा ।सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥ २६ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.45 · p. 456
अरविन्दमशोकाख्यं चूतं च नवमल्लिका ।नीलोत्पलं तथा चान्ये प्राहुरुन्मादनः पुनः ॥ ४५ ॥
अनुष्टुप्
genderस्त्रीfem.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.50 · p. 14
मल्लिकायां विचकिलो मङ्गलं तस्य सौरभः ।माङ्गल्यं तु वरारोहा कथ्यते नवमल्लिका ॥ ५० ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.210 · p. 15
मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसाऽमृता ।मालतीसुमना जातिर्मुनिला नवमल्लिका ॥ २१० ॥
अनुष्टुप्
genderस्त्रीfem.