कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दमन

damanaपुं · masc.

In 5 kośas: 2 synonym verses, 2 as a nānārtha head word, 9 as a meaning of another word.

कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.284 · p. 280
गन्धोत्कटोऽपि दमनो दान्तो जटिलदण्डिनौ ।पाण्डुरागो ब्रह्मजटा विनीतो देवशेखरः ॥ २८४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ब्र (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.96 · p. 183
उपकुञ्ची च कुञ्ची च पृथ्वीका सुषवी पृथुः ।स्यात्स्थूलकं भूमि * * दमनं माधवं च तत् ।सहस्रवेधि जतुकं बाह्लीकं हिङ्गुरस्त्रियाम् ।रामठं सूपधूपि स्याज्जरणं गूढगन्धि च ।तथा शूलघ्नमुदितं हरिद्रा तु निशाह्वया ॥ ९६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.10 · p. 249
वीरे प्रसूने दमनोऽथ वान्तौतथार्दने स्याद्वमनं यमे तु ।प्रदिष्ट आद्ये यमनोऽथ बन्धो-परामनाम्नोश्चरमे हृतौ च ॥ १० ॥
उपजातिः
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.57 · p. 238
तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः ।दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् ।दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च ।दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः ।अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ध्वजी रथे च भूदेवे भये सर्पे धराधरे ।धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके ।धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् ।धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः ।नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥नन्दी हरद्वारपाले कन्दवाले वटद्रुमे ।नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे ।अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥निदानं वत्सदामादिकारणे क्षयकारणे ।निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् ।स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु ।एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे ।प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् ।पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः ।स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु ।पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥
metre not recognisednearly अनुष्टुप्nearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)nearly अनुष्टुप्: pāda 4, syllable 3 न (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 ल्क (wrong syllable); pāda 4, syllable 3 च (wrong syllable)

दमन as a meaning in nānārtha verses

  • हलायुधकोशः (अभिधानरत्नमाला) दण्डसङ्केते चैतन्ये च सूरिभिः कथ्यते तथा संज्ञा । दण्डो दमने सैन्ये कुतपो दर्भेऽपराह्णे च ॥ ८२२ ॥ Abhidhānaratnamālā (Halāyudha) 5.822
  • कोषकल्पतरु बीजपुष्पज्ञैर्बीजपुष्पमुक्तं मरुबकपुष्पे तथा दमने । पुंनागनागकेसरचम्पकसंज्ञं तु नागपुष्पं स्यात् ॥ २२ ॥ Koṣakalpataru 6.22.22
  • कोषकल्पतरु विचकिलमत्ते गजे मदकलो मदतोऽस्फुटौक्तौ कोलाहले कलकलो नरि[74b]सर्जवृक्षे । मल्ल्यां पुनर्विचकिलो दमनेऽतिमुक्ते- ऽथामर्दके परिमलोऽपि मनोज्ञगन्धे ॥ ७० ॥ Koṣakalpataru 6.28.70
  • शिवकोष पुण्डरीकपुण्डरीकं सिताम्भोजे बालुकाख्यविषान्तरे । सहकारफले ना तु दमने शालिभिद्यपि ॥ ६४ ॥ Śivakoṣa 1.4.64
  • शिवकोष मुनिधाना वितुन्नके भृष्टयवाद्यन्ने च सक्तुषु । मुनिः पियालदमनागस्त्यकोरककिंशुके ॥ २४४ ॥ Śivakoṣa 16.244
  • शिवकोष दलामलफणिज्जके च दमने दीर्घमूलो यवासके । दीर्घमूला स्थिरागोप्योः क्लीबं वेल्लन्तरे शरे ॥ ४८४ ॥ Śivakoṣa 23.3.484
  • शब्दरत्नावली दमदमो दन्ते च दमथे दमने कर्दमे पुमान् । दस्मो ना यजमाने स्यात्खले चौरहुताशयोः ॥ Śabdaratnāvalī 7.25.11
  • शब्दरत्नावली ध्यामहिंसोपमाक्रतुन्याये ना धनुर्यमसोमपे । ध्यानं श्यामे त्रिषु क्लीबं दमने गन्धखटके । नेमिः कूपत्रिकाचक्रान्तयोः स्त्री तिनिशे पुमान् ॥ Śabdaratnāvalī 7.25.13
  • शब्दरत्नावली दलामलगन्धफली तु गुन्द्रायां स्त्रियां चम्पककोरके । चक्रवालो मण्डले स्याद्गिरिभेदे भवेत्पुमान् ॥ जलाञ्चलं शैवले स्यात्स्वतोवारिविनिर्गमे । जयपालो विधौ विष्णौ भूपाले वृक्षभिद्यपि ॥ जम्बूमालाऽप्सरोभेदे कपिभूधरयोः पुमान् । दलामलो मरुवके दमने मदनद्रुमे ॥ Śabdaratnāvalī 7.28.107