कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गर्जित

garjitaक्ली · neut.

In 19 kośas: 26 synonym verses, 8 as a nānārtha head word, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1220 · p. 47
यूथनाथो यूथपतिर्मत्ते प्रभिन्नगर्जितौ ॥ १२२० ॥
अनुष्टुप्metre not read in every line
genderविadj.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1406 · p. 53
विस्फारो धनुषां हंभारम्भे गोर्जलदस्य च ।स्तनितं गर्जितं गर्जिः स्वनितं रसितादि च ॥ १४०६ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.8
स्तनितं गर्जितं मेघनिर्घोषे रसितादि च ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.59
प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ ।
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर तृतीयोपदेशः Bālaprabodhikā 3.55 · p. 70
सौदामिन्यैरावती च तद्भेदेऽप्यन्तिमत्रयम् ।गर्जितं स्तनितं जीर्णं निर्घोषः पातपातकौ ॥ ५५ ॥
अनुष्टुप्
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.92 · p. 16
गर्जितं स्तनितं जीर्णं गर्जा गर्जनमित्यपि ।निर्घोषो घनघातः स्यान्महाघात इतीर्यते ॥ ९२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.159 · p. 106
यूथपर्यायनाथार्थः प्रभिन्ने मत्तगर्जितौ ।मदोत्कटो मदकलः समावुद्वान्तविर्मदौ ॥ १५९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.161 · p. 397
अभ्रियाद्यं च तद्घोषे गर्जितं स्तनितं च षण् ।रसितं मेघपर्यायाज्ज्योतिषोऽर्थ इरंमदः ॥ १६१ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.10 · p. 26
वार्द्दलं च द्वयोर्गर्जः परिघोषो घनध्वनिः ।स्तनितं रसितं क्लीबे समे गर्जितगर्जने ॥ १० ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.90 · p. 252
[112a]राजहस्ती च सुग्रीवः प्रभिन्नो गर्जितोऽपि च ।मत्तोऽथ निर्मदोद्वान्तौ विस्तारो मदकारि यत् ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.5 · p. 253
दन्तावलानां संनाहे गुडा स्त्रीपुंसयोर्मता ।कल्पना सज्जना चाथ कुमारा गजपालकाः ॥भद्रो मन्दो मृगो मिश्रश्चतस्रो गजजातयः ।बृंहितं गर्जितं क्लीबे गजस्यान्नं विधा स्त्रियाम् ॥ ५ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.137 · p. 69
विंशत्यब्दगजो विक्कः कलभस्त्रिंशदब्दकः ।प्रभिन्नो गर्जितो मत्तो यूथनाथोऽथ यूथपः ॥ १३७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.298 · p. 89
शब्दे धनुर्भवेऽथ स्याद्विस्फारोऽथाब्दनिस्वने ।गर्जिस्तु गर्जितं चैव स्वनितं स्तनितं समम् ॥ २९८ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.80 · p. 11
ऐरावती स्वर्णशाखा क्षणज्योतिः शतह्रदा ।तद्ध्वनौ रसितं छन्नं स्तनितं गर्जितं मतम् ॥ ८० ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.286 · p. 61
ततस्तु तुण्डी कलमस्तत इत्युच्यते बुधैः ।प्रभिन्नगर्जितौ मत्ते उद्वान्तो निर्मदोऽमदे ॥ २८६ ॥
अनुष्टुप्
genderविadj.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त शब्दमरीचिः Pañcatattvaprakāśa 6.2.359 · p. 25
स्तनितं मेघनिनदो गर्जितं वारिदारवः ।बिब्बोकः क्रीडनरवो भणितं रतजल्पितम् ॥ ३५९ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.89 · p. 10
ऐरावती क्षणरुचिर्ह्रादिनी च शतह्रदा ।गर्जितं स्तनितं गर्जा रसितं मेघनिस्वनः ॥ ८९ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2207 · p. 362
यूथनाथस्तथा यूथपतिः स्याद्यूथनायकः ।प्रभिन्नो गर्जितो मत्तो मदोन्मत्तोऽपि मन्यते ॥ २२०७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2553 · p. 413
रम्भा हम्भा च गोशब्दे स्तनितं स्वनितं द्वयम् ।ध्वनितं गर्जितं गर्जिः रसितं मेघगर्जने ॥ २५५३ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.182 · p. 13
मेघशब्दे तु रसितं स्तनितं गर्जितादि च ।विद्युत् क्षणप्रभा शम्पा चपला चञ्चला तडित् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.226 · p. 126
प्रभिन्नो गर्जितो मत्तः स्यान्मतङ्गे क्षरन्मदे ।अथ निर्मद उद्वान्तो मदहीने मतङ्गजे ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.23 · p. 251
हस्तिशब्दे, विस्फारश्च विस्फोरोऽपि धनूरवे ।मेघशब्दे गर्जितं स्यात् गर्जिवन्ना, खरारवे ॥ २३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मेघाध्यायः Śabdaratnākara 1.6.220 · p. 30
गर्जितं मेघनिर्घोषो रसितस्तनितादि च ।अह्नि घनस्थगिते स्याद्दुर्दिनमन्तर्धिनिह्नवौ व्यवधा ॥ २२० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शब्दाध्यायः Śabdaratnākara 1.7.224 · p. 30
मेर्या नादष्टट्टरो बर्हिणानां केका हम्भा स्याद्गवां रम्भणं च ।हेषा ह्रेषा वाजिनां वारणानां शब्दे गर्जा गर्जितं बृंहितं च ॥ २२४ ॥
शालिनी
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.715 · p. 91
उद्वान्तो निर्मदो मत्तः प्रभिन्नो गर्जितो गजः ।व्यालो दुष्टोऽथ गम्भीरवेदी शिक्षापराङ्मुखः ॥ ७१५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश मेघाध्यायः Vaijayantī 2.2.5 · p. 25
सौदामन्यैरावती च तद्भेदेऽप्यन्तिमत्रयम् ।गर्जितं स्तनितं शीर्णवज्रे ह्रादुनयः स्त्रियः ॥ ५ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास तार्धश्लोकः Dharaṇikośa 15.2.50 · p. 74
गर्जितो मत्तमातङ्गे गर्जितं घननिःस्वने ।व्यायतो व्यापृते दीर्घे व्यायतश्च दृढे भृशे ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.86 · p. 217
गर्जित इभेऽतिमत्ते क्लीबे त्वम्भोधरध्वाने ।वर्धितमुक्तं प्रसृते छिन्ने संपूरिते तद्वत् ॥ ८६ ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.652 · p. 103
मत्तहस्तिनि तन्नादे पुनः क्ली स्तनितेऽपि च ।अम्बुदस्याथ पुंसि स्याद् गर्जनो गृञ्जनाह्वये ॥ ६५२ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास गकारादयः Paramānandīyanāmamālā 5.9.165 · p. 182
गोपुरं नगरद्वारे मुस्तकद्वारयोः पुनः ।ग्रामणीः स्वामिनि श्रेष्ठे गर्जितो वारणान्तरे ॥ १६५ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास गकारादयः Paramānandīyanāmamālā 5.9.166 · p. 183
गर्जितं मेघजे शब्दे गह्वरं दम्भरन्ध्रयोः ।[21] गैरिकं धातुभेदेऽपि स्वर्णे स्पाद्गालवो मुनौ ॥ १६६ ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2086 · p. 253
मत्तेभे गर्जितः पुंसि क्लीबे मेघेभनादयोः ।गण्डपूर्तौ तु गण्डूषः प्रसृते करिपुष्करे ॥ २०८६ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.156 · p. 145
गर्जितं स्तनिते नेभे ग्रस्तं वाग्भेदभुक्तयोः ।चर्मण्वत्यौ नदीरम्भे जातं व्यक्तौघजन्मसु ॥ १५६ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.34 · p. 259
गर्जितो मत्तमातङ्गे क्ली तन्नादेंऽबुदध्वनौ ।गण्डूषोऽस्त्री गण्डपूर्तौ प्रसृते गजपुष्करे ॥ ३४ ॥
अनुष्टुप्

गर्जित as a meaning in nānārtha verses