कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

स्तनित

stanitaक्ली · neut.

In 18 kośas: 18 synonym verses, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.90 · p. 7
असुरा नागास्तडितः सुपर्णका वह्नयोऽनिलाः स्तनिताः ।उदधिद्वीपदिशो दश भवनाधीशाः कुमारान्ताः ॥ ९० ॥
आर्या
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1406 · p. 53
विस्फारो धनुषां हंभारम्भे गोर्जलदस्य च ।स्तनितं गर्जितं गर्जिः स्वनितं रसितादि च ॥ १४०६ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.8
स्तनितं गर्जितं मेघनिर्घोषे रसितादि च ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
बालप्रबोधिका Bālaprabodhikā · नत्कीर तृतीयोपदेशः Bālaprabodhikā 3.55 · p. 70
सौदामिन्यैरावती च तद्भेदेऽप्यन्तिमत्रयम् ।गर्जितं स्तनितं जीर्णं निर्घोषः पातपातकौ ॥ ५५ ॥
अनुष्टुप्
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.92 · p. 16
गर्जितं स्तनितं जीर्णं गर्जा गर्जनमित्यपि ।निर्घोषो घनघातः स्यान्महाघात इतीर्यते ॥ ९२ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.161 · p. 397
अभ्रियाद्यं च तद्घोषे गर्जितं स्तनितं च षण् ।रसितं मेघपर्यायाज्ज्योतिषोऽर्थ इरंमदः ॥ १६१ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.10 · p. 26
वार्द्दलं च द्वयोर्गर्जः परिघोषो घनध्वनिः ।स्तनितं रसितं क्लीबे समे गर्जितगर्जने ॥ १० ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 105 · p. 52
सिंहद्विपघने गर्जः हेषाऽश्वे बृंहितं गजे ।स्फीत्कृतं धेनुकलभे स्तनितं जलदे तथा ॥ १०५ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.298 · p. 89
शब्दे धनुर्भवेऽथ स्याद्विस्फारोऽथाब्दनिस्वने ।गर्जिस्तु गर्जितं चैव स्वनितं स्तनितं समम् ॥ २९८ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.80 · p. 11
ऐरावती स्वर्णशाखा क्षणज्योतिः शतह्रदा ।तद्ध्वनौ रसितं छन्नं स्तनितं गर्जितं मतम् ॥ ८० ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त शब्दमरीचिः Pañcatattvaprakāśa 6.2.359 · p. 25
स्तनितं मेघनिनदो गर्जितं वारिदारवः ।बिब्बोकः क्रीडनरवो भणितं रतजल्पितम् ॥ ३५९ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.89 · p. 10
ऐरावती क्षणरुचिर्ह्रादिनी च शतह्रदा ।गर्जितं स्तनितं गर्जा रसितं मेघनिस्वनः ॥ ८९ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.71 · p. 11
असुराश्चैव नागाश्च विद्युतोऽनु सुपर्णकाः ।अग्नयो वायवश्चैव स्तनिता श्वोदधीश्वराः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2553 · p. 413
रम्भा हम्भा च गोशब्दे स्तनितं स्वनितं द्वयम् ।ध्वनितं गर्जितं गर्जिः रसितं मेघगर्जने ॥ २५५३ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.182 · p. 13
मेघशब्दे तु रसितं स्तनितं गर्जितादि च ।विद्युत् क्षणप्रभा शम्पा चपला चञ्चला तडित् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मेघाध्यायः Śabdaratnākara 1.6.220 · p. 30
गर्जितं मेघनिर्घोषो रसितस्तनितादि च ।अह्नि घनस्थगिते स्याद्दुर्दिनमन्तर्धिनिह्नवौ व्यवधा ॥ २२० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1640 · p. 197
स्तनितं नदितमधिश्रितमधिगतमासादितं प्राप्तम् ।सर्वमशेषमखण्डं सकलाखिलसमग्रविश्वनिखिलानि ॥ १६४० ॥
उद्गीतिःmetre not read in every line
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश मेघाध्यायः Vaijayantī 2.2.5 · p. 25
सौदामन्यैरावती च तद्भेदेऽप्यन्तिमत्रयम् ।गर्जितं स्तनितं शीर्णवज्रे ह्रादुनयः स्त्रियः ॥ ५ ॥
अनुष्टुप्
genderक्लीneut.

स्तनित as a meaning in nānārtha verses

  • धरणिकोश स्तनयित्नुस्तनयित्नुः स्मृतो मेघे घनस्य स्तनितेऽपि च । सनातनो ध्रुवो विष्णुः पितॄणामतिथावपि ॥ Dharaṇikośa 19.2.66
  • नानार्थार्णवसंक्षेप स्तननसदनं तु गृहे तोये सीदत्यर्थे च कीर्तितम् । स्तननं स्तनिते ध्वाने स्तरणं छादने वधे ॥ ८२ ॥ Nānārthārṇavasaṃkṣepa 3.3.82
  • नानार्थार्णवसंक्षेप गर्जितमत्तहस्तिनि तन्नादे पुनः क्ली स्तनितेऽपि च । अम्बुदस्याथ पुंसि स्याद् गर्जनो गृञ्जनाह्वये ॥ ६५२ ॥ Nānārthārṇavasaṃkṣepa 4.652
  • शब्दरत्नावली स्तनयित्नुसदादानो गन्धहस्तिन्यैरावतगणेशयोः । सम्बदनं वशीकारे क्लीबमालोचनेऽपि च ॥ समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च । सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने ॥ समापनं परिच्छेदप्रमापनसमाप्तिषु । सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि ॥ सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् । स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् ॥ सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥ संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् । भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) ॥ सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् । सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये ॥ क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् । सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः ॥ सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः । सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि ॥ सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥ Śabdaratnāvalī 7.20.127
  • त्रिकाण्डशेष गर्जितगर्जितं स्तनिते नेभे ग्रस्तं वाग्भेदभुक्तयोः । चर्मण्वत्यौ नदीरम्भे जातं व्यक्तौघजन्मसु ॥ १५६ ॥ Trikāṇḍaśeṣa 3.3.156