पिधान
pidhānaक्ली · neut.In 10 kośas: 17 synonym verses, 6 as a meaning of another word.
genderक्लीneut.
अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम् ॥ १२ ॥अपिधानतिरोधानपिधानाच्छादनानि च ।
अनुष्टुप्
genderक्लीneut.
कोशिका मल्लिका प्रोक्ता पिधानं स्यादुदञ्चनम् ।घटः करीरः कलशः कुटः कुम्भो निपः स्मृतः ॥ ३१६ ॥
अनुष्टुप्
genderक्लीneut.
गन्धवहो गन्धवाहः सततं सन्ततं भवेत् ।अपिधानं पिधानं च चन्द्रश्चन्दश्च कथ्यते ॥ २५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
genderक्लीneut.
अपिधानपिधाने च व्यवधानं ततोऽप्यथ ।अभ्रादिधूममहिषीसंवृतेऽहनि दुर्दिनम् ॥ १६६ ॥
अनुष्टुप्
genderक्लीneut.
यौवनालग्ननलिनप्रस्फोटनपिधानयोः ।पुलिनाशनयोस्तद्वदुदपानसमानयोः ॥ १६४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
अपिधानं पिधानोऽस्त्री तिरोधानापवारणे ।स्थगनं व्यवधानं च छादनं स्त्री तिरोहितिः ॥ १६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
मल्लिका कोशिका पारी कंसस्तु चषकोऽस्त्रियाम् ।स्यात्पानभाजनं न स्त्री पिधानं स्यादुदञ्चनम् ॥ ६८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
गन्धमादनपिधानचन्दन-द्वीपिनाशनवितानयौवनम् ।वर्धमानशतमानहायन-स्तेनवस्नशयनानि गृञ्जनम् ॥ ५१ ॥
रथोद्धता
genderपुंक्लीm. n.
तदल्पं कुतपः पात्रममत्रं भाजनं समे ।स्थालं तत्र विशालं स्यात्पिधानं स्यादुदञ्चनम् ॥ ३०३ ॥
अनुष्टुप्
genderक्लीneut.
स्थगितं तिरोहितं च पिधानस्थगने समे ।छदनं च तिरोधानं व्यवधा दर्शिऽतेप्यथ ॥ ३५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ति (wrong syllable)
genderक्लीneut.
श्राद्धौषधकबन्धानि गन्धमादनचन्दनौ ।प्रस्फोटनपिधाने च लग्नराजादनाशनाः ॥ १४३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
पात्राऽमत्रे च भाजनं त्रिण्यपि भाण्डनामनि ।स्थालं विशालभाण्डं स्थात् तत् पिधानमुदञ्चनम् ॥ १७६७ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
अन्तर्द्धा च तिरोधानमन्तर्द्धिश्च पिधानमिति ॥ २६८४ ॥
metre not recognised
genderक्लीneut.
करकः करका चेति सप्तवृष्टिशिलाह्वये ।मेघच्छन्नदिनं यत्तु दुदिनं वार्दलञ्च तत् ।आच्छादनञ्च च्छदनमन्तर्धानं पिधानवत् ॥
अनुष्टुप्
genderक्लीneut.
अपिधानतिरोधानपिधानाच्छादनानि च ।दिनादौ प्राह्णपूर्वाह्णौ ततः संगतसंगवौ ॥ ६४ ॥
अनुष्टुप्
genderक्लीneut.
हसन्त्यङ्गारशकटी हसन्यङ्गारधान्यपि ।पिठरः स्थाल्युखा कुंभिः पिधानं स्यादुदञ्चनम् ॥ ५५ ॥
अनुष्टुप्
genderक्लीneut.
पिधान as a meaning in nānārtha verses
- कल्पद्रुकोशः कोशस्वतस्थिलिञ्जेः सरकोऽनुतर्षे शललः शले । करकोऽब्दोपले कोशः शिम्बा खड्गपिधानयोः ॥ १९६ ॥ Kalpadrukośa 3.5.196
- कोषकल्पतरु संव्याननौसेकपात्रेऽप्यवनेऽभिषेके स्यात्सेचनं सेवनमन्यलिङ्गम् । उपासने सीवनके पिधाने संव्यानमाच्छादनवाससोश्च ॥ २१ ॥ Koṣakalpataru 6.21.21
- परमानन्दीयनाममाला आछादनआवेशनं शिल्पिशालाच्छादनं वसने मतम् । अपवारणे पिधाने चाक्षेपको निन्दको मतः ॥ ४९ ॥ Paramānandīyanāmamālā 5.1.49
- शब्दरत्नावली छदनग्रावा स्यात्पुंसि पाषाणे दृढे पृथ्वीधरेऽपि च । गृञ्जनो ना रसोने स्त्री निषाक्तपशुमांसके ॥ गोस्तनो ना हारभेदे द्राक्षायां स्त्री च गोस्तनी । गोमी पुंसि जम्बुके स्याद्गोमत्युपासके त्रिषु ॥ चलनं भ्रमणे कम्पे क्लीबं कम्पयुते त्रिषु । चलनी वस्त्रविधिन्यां वारीभेदे च कुत्रचित् ॥ चक्री काककुलालाजग्रामजालिकसूचके । सर्पे तैलिकभेदे स्याद्वासुदेवे च पुंस्ययम् ॥ चर्मी भृङ्गरिटौ भूर्जे मोचाफलकहस्तयोः । चर्म क्लीबन्तु फलके कृत्तौ त्वचि तु कुत्रचित् ॥ चेतनो वाच्यवत् प्राणयुक्ते च संविदि स्त्रियाम् । छर्दनं वमने क्लीबं पुंसि निम्बेऽप्यलम्बुषे ॥ छदनं चलने पक्षे पिधानेऽपि नपुंसकम् । छेदनन्तु द्विधा कार्ये कर्त्रनेऽपि च न द्वयोः ॥ जवनस्तु रये वेगिहये वेगवति त्रिषु ॥ Śabdaratnāvalī 7.20.55
- शब्दरत्नावली आच्छादनअथर्वनो द्वयोर्वेदे भूमिदेवे च पुंस्यपि । अभिजनं कुले ख्यातौ जन्मभूमौ कुलध्वजे ॥ आयोधनं क्लीबलिङ्गं भवेद्युद्धे वधेऽपि च । भवेदाकलनं काङ्क्षा परिसंख्यानबन्धने ॥ आतञ्चनं प्रतीवायाप्यायनजीवनेष्वपि । आराधनं तोषणे स्यात्संप्राप्तो पचनेऽपि च ॥ आच्छादनं पिधाने स्याद्वस्त्रेऽपि वृतिमात्रके । आक्रन्दनं शोचने च तिरस्कारणे(?)पि च ॥ आवेशनं शिल्पिगृहे भूतावेशप्रवेशयोः ॥ Śabdaratnāvalī 7.20.104
- वैजयन्ती कोशगुह्येऽण्डे वेष्टके पेश्यां पुस्तकासिपिधानयोः । कोलं बदरतक्कोलशुण्ठीव्योषेऽर्धकर्षके ॥ १६ ॥ Vaijayantī 6.5.16