कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

रसित

rasitaक्ली · neut.

In 11 kośas: 10 synonym verses, 5 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1406 · p. 53
विस्फारो धनुषां हंभारम्भे गोर्जलदस्य च ।स्तनितं गर्जितं गर्जिः स्वनितं रसितादि च ॥ १४०६ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.8
स्तनितं गर्जितं मेघनिर्घोषे रसितादि च ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.161 · p. 397
अभ्रियाद्यं च तद्घोषे गर्जितं स्तनितं च षण् ।रसितं मेघपर्यायाज्ज्योतिषोऽर्थ इरंमदः ॥ १६१ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.10 · p. 26
वार्द्दलं च द्वयोर्गर्जः परिघोषो घनध्वनिः ।स्तनितं रसितं क्लीबे समे गर्जितगर्जने ॥ १० ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.80 · p. 11
ऐरावती स्वर्णशाखा क्षणज्योतिः शतह्रदा ।तद्ध्वनौ रसितं छन्नं स्तनितं गर्जितं मतम् ॥ ८० ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.89 · p. 10
ऐरावती क्षणरुचिर्ह्रादिनी च शतह्रदा ।गर्जितं स्तनितं गर्जा रसितं मेघनिस्वनः ॥ ८९ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2553 · p. 413
रम्भा हम्भा च गोशब्दे स्तनितं स्वनितं द्वयम् ।ध्वनितं गर्जितं गर्जिः रसितं मेघगर्जने ॥ २५५३ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.182 · p. 13
मेघशब्दे तु रसितं स्तनितं गर्जितादि च ।विद्युत् क्षणप्रभा शम्पा चपला चञ्चला तडित् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मेघाध्यायः Śabdaratnākara 1.6.220 · p. 30
गर्जितं मेघनिर्घोषो रसितस्तनितादि च ।अह्नि घनस्थगिते स्याद्दुर्दिनमन्तर्धिनिह्नवौ व्यवधा ॥ २२० ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1639 · p. 197
मन्दवैधेयविकला धर्महीनस्त्वधार्मिकः ।स्वनितध्वनितविरावितशब्दितसंघुष्टरसितमारणितम् ॥ १६३९ ॥
अनुष्टुप्metre not read in every line
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.82 · p. 216
रसितं सुवर्णखचिते रुते तथा गर्जिते प्रोक्तम् ।पलितं त्वस्त्री तापे शैलजकर्दमविपक्वकेशेषु ॥ ८२ ॥
उद्गीतिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1483 · p. 177
ना तु मद्यविशेषे स्यादपक्वेक्षुरसैः कृते ।रसितं मेघनिर्वोषे रुते च स्यान्नपुंसकम् ॥ १४८३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1484 · p. 177
त्रिषु त्वास्वादिते चैव स्वर्णादिखचितेऽपि च ।वस्त्रनिर्णेजके तु द्वे शुके च रजकस्त्रि तु ॥ १४८४ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.128 · p. 221
रसितं क्लीबलिङ्गं स्याद् रुते जलदगर्जिते ।त्रिषु स्वर्णादिखचिते रसयुक्ते च कुत्रचित् ॥रेवती तारकामातृभिदोश्च रामयोषिति ।रैवतः स्यात्सुवर्णालुवृक्षे शैलान्तरे शिवे ॥रोहितो मीनमृगभिद् रोहितकद्रुमेषु च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.181 · p. 153
शैलभेदे सुवर्णालौ शङ्करेऽपि च रैवतः ।स्वर्णाद्यक्तेऽपि रसितं कस्तूरीपृक्कयोर्लता ॥ १८१ ॥
अनुष्टुप्