कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

आच्छादन

ācchādanaक्ली · neut.

In 13 kośas: 10 synonym verses, 4 as a nānārtha head word, 11 as a meaning of another word.

अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर मर्त्यकाण्डः Abhidhānacintāmaśiloñcha 3.54 · p. 3
किङ्कणी कङ्कणी तुल्ये आच्छादाच्छादने समे ॥ ५४ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह दिग्वर्गः Amarakośa 1.3.15
अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम् ॥ १२ ॥अपिधानतिरोधानपिधानाच्छादनानि च ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.115
वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम् ॥ ११५ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.548 · p. 62
चेलं चीरं वासः कर्पटमाच्छादनं निवसनं च ।अम्बरमंशुकमुक्तं वस्त्रं सिचयः पटः पोटः ॥ ५४८ ॥
आर्या
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.271 · p. 50
पटः सिचय आच्छादचीवराः पुंसि न स्त्रियाम् ।चेलमाच्छादनं वासो वसनं चापि न स्त्रियाम् ॥ २७१ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.171 · p. 47
शैथिल्यतन्तुसंयोगवस्त्रे नक्तककर्पटौ ।आच्छादनं तु वस्त्रे स्यान्निचोलः शयनांशुके ॥ १७१ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1083 · p. 167
अम्बरमंशुकं वस्त्रं वासश्च वसनं पटः ।आच्छादनं च सिक् सत्रं चीरं चेलं च कर्पटम् ॥ १०८३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.219 · p. 206
पटः पट्याच्छादनं च छादः सिक्-सिचयौ तथा ।वस्त्राञ्चले वर्ति-वस्ती दुकूलमतसीपटे ॥ २१९ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.874 · p. 110
वस्त्रं निवसनमंशुकमम्बरमाच्छादनं वासः ।वसनं चेलं सिचयः पुंसि सुचेलो द्वयोस्तु पटशाटौ ॥ ८७४ ॥
उद्गीतिः
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.116 · p. 168
सिक् स्त्री पटोऽस्त्री सिचयो वासो वसनमंशुकम् ।आच्छादनं निवसनं वसितं वस्त्रमंबरम् ॥ ११६ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.388 · p. 74
अपादाच्छादने वृञ् स्यादपाङस्त्वनधीनके ।निरः सुखे च सौस्थ्ये चास्तं गतावाङ्परो वृतौ ॥
अनुष्टुप्
meaningsअपवृ
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.13 · p. 263
गदनिर्णय उद्योगेऽपि समुत्थानं च संपिधा[21a]ने तु ।अन्तर्धावपि वस्त्रे विबुधैराच्छादनं गदितम् ॥ १३ ॥
आर्या
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.104 · p. 243
अथर्वनो द्वयोर्वेदे भूमिदेवे च पुंस्यपि ।अभिजनं कुले ख्यातौ जन्मभूमौ कुलध्वजे ॥आयोधनं क्लीबलिङ्गं भवेद्युद्धे वधेऽपि च ।भवेदाकलनं काङ्क्षा परिसंख्यानबन्धने ॥आतञ्चनं प्रतीवायाप्यायनजीवनेष्वपि ।आराधनं तोषणे स्यात्संप्राप्तो पचनेऽपि च ॥आच्छादनं पिधाने स्याद्वस्त्रेऽपि वृतिमात्रके ।आक्रन्दनं शोचने च तिरस्कारणे(?)पि च ॥आवेशनं शिल्पिगृहे भूतावेशप्रवेशयोः ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ज (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 शो (syllables merged)
वैजयन्ती Vaijayantī · यादवप्रकाश नपुंसकलिङ्गाध्यायः Vaijayantī 8.3.3 · p. 273
समूहे स्यादाकलनं कलनज्ञानयोरपि ।आच्छादनं संविधाने स्यादावरणवाससोः ॥ ३ ॥
अनुष्टुप्

आच्छादन as a meaning in nānārtha verses