शालाजिर
śālājiraपुं · masc.In 7 kośas: 7 synonym verses.
कटाहः कर्परो ज्ञेयो भृङ्गारः कनकालुका ।शालाजिरो वर्धमानः शरावः स्मर्यते बुधैः ॥ ३१५ ॥
अनुष्टुप्
genderपुंmasc.
करङ्को नारिकेलस्य कटाहः कुठरो द्वयोः ।वर्द्धमानः शरावेऽस्त्री पुमाञ्शालाजिरोप्यथ ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
मन्था मन्थस्य विष्कम्भे मञ्जीरकुटरावपि ।शरावे वर्धमानोऽपि तथा शालाजिरोऽप्यसौ ॥ ३०१ ॥
अनुष्टुप्
genderपुंmasc.
मार्तिकं स्यात् शरावोऽस्त्री सरावो वर्धमानकः ।शालाजिरं पार्थिवञ्च मृत्कांस्यमपि कीर्त्यते ।लोहिका खरपालञ्च पिण्डानं काष्टभाजनम् ॥
अनुष्टुप्
genderक्लीneut.
समौ करङ्ककरकौ विधानं स्यादुदञ्चनम् ।शालाजिरो वर्धमानः शरावं पुंनपुंसकम् ॥ ८९९ ॥
अनुष्टुप्
genderपुंmasc.
कलशी गर्गरी तुल्या स्याच्छरावस्तु मार्त्तिकः ।शालाजिरः पार्थिवश्च मृत्कांस्यमथ लोहिका ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
घटी पारी कपाली तु त्रयी घोलश्च कर्परः ।शालाजिरो वर्धमानः शरावोऽस्त्री दृतिस्तु ना ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.