शाव
śāvaपुं · masc.In 9 kośas: 9 synonym verses.
बालः पाकः शिशुर्डिम्भः पोतः शावः स्तनंधयः ।पृथुकार्भोत्तानशयाः क्षीरकण्ठः कुमारकः ॥ ३३८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्ता (wrong syllable)
genderपुंmasc.
बालः पाकोऽर्भको गर्भः पोतश्च पृथुकः शिशुः ।शावो डिम्भश्च विज्ञेयो वटुर्माणवको मतः ॥ ५०२ ॥
अनुष्टुप्
genderपुंmasc.
त्रोटिस्त्रोटी च पेशिः स्यात् पेशी शावश्च शावकः ।उर्णनाभोऽप्यूर्णनाभिर्मूषली मुसली भवेत् ॥ १५८ ॥
अनुष्टुप्
genderपुंmasc.
अस्थ्नस्त्वक्स्नायुशैथिल्यमथोत्तानशयास्त्रिषु ।पाकोऽर्भकः शिशुः शावः पृथुको डिम्भ इत्यपि ॥ ९० ॥
अनुष्टुप्
genderविadj.
शिशौ शावः कुमारोऽर्भोऽर्भकः पा[72b]कः स्तनंधयः ।बाल-डिम्भोत्तानशय-क्षीरकण्ठ-मृडंकणाः ॥ १७ ॥
metre not recognised
genderपुंmasc.
बालस्तनंधयौ पोतः पाको डिम्भः कुमारकः ।शिशुः शावोऽर्भकः क्षीरकण्ठोत्तानशयावपि ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
बालः स्तनंधयः पोतः पाको डिम्भोऽर्भकः शिशुः ।कुमारः पृथुकः शावः क्षीरकण्ठः किशोरकः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
बालो डिम्भः शिशुः शावः पोतः पाकः स्तनन्धयः ।अर्भोत्तानशयौ चैव क्षीरकण्ठः कुमारकः ॥ ४९७ ॥
अनुष्टुप्
genderपुंmasc.
शावशावकपोतार्भडिभ्भाश्च पृथुकार्भकौ ।शिशुः पाकश्च शिशुकः पोतको डिभ्भकोऽपि च ॥
अनुष्टुप्
genderपुंmasc.