बाल
bālaपुं · masc.In 21 kośas: 45 synonym verses, 12 as a nānārtha head word, 27 as a meaning of another word.
बालः पाकः शिशुर्डिम्भः पोतः शावः स्तनंधयः ।पृथुकार्भोत्तानशयाः क्षीरकण्ठः कुमारकः ॥ ३३८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्ता (wrong syllable)
genderपुंmasc.
दानशीलः स वदान्यो वदन्योऽप्यथ बालिशः ॥ ३५१ ॥मूढो मन्दो यथाजातो बालो मातृमुखो जडः ।मूर्खोऽमेधो विवर्णाज्ञौ वैधेयो मातृशासितः ॥ ३५२ ॥देवानांप्रियजाल्मौ च दीर्घसूत्रश्चिरक्रियः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
पञ्चवर्षो गजो बालः स्यात्पोतो दशवार्षिकः ॥ १२१९ ॥विक्को विंशतिवर्षः स्यात्कलभस्त्रिंशदब्दकः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
बालं ह्रीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च ।
अनुष्टुप्
genderक्लीneut.
genderपुंmasc.
बालः किशोरो वाम्यश्वा वडवा वाडवं गणे ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
वैधेयो बालिशो बालो जडो जाल्मो यथोद्गतः ।मूढो मन्दो विवर्णश्च मूर्खः स्यान्मातृशासितः ॥ ३३६ ॥
अनुष्टुप्
genderविadj.
बालः पाकोऽर्भको गर्भः पोतश्च पृथुकः शिशुः ।शावो डिम्भश्च विज्ञेयो वटुर्माणवको मतः ॥ ५०२ ॥
अनुष्टुप्
genderपुंmasc.
हिन्तालस्तृणराजश्च नालिकेरे तु लाङ्गली ।दाक्षिणात्यो फले बालः सुतङ्गः कृच्छ्रकेसरः ॥ २५४ ॥
अनुष्टुप्
genderपुंmasc.
स्यात्पोतो हितपर्यायो गर्भोऽपि गरभः पुनः ।बालो वटुर्माणवकः क्षीरकण्ठः स्तनंधयः ॥ ९१ ॥
अनुष्टुप्
genderविadj.
पञ्चवर्षो गजो बालः पोतस्तु दशवार्षिकः ।विक्को दिक्कोपि विंशाब्दस्त्रिंशाब्दः कलभोऽस्त्रियाम् ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
शिशौ शावः कुमारोऽर्भोऽर्भकः पा[72b]कः स्तनंधयः ।बाल-डिम्भोत्तानशय-क्षीरकण्ठ-मृडंकणाः ॥ १७ ॥
metre not recognised
genderपुंmasc.
शिशुत्वं शैशवं बाल्यं बालता शिशु[81a]ता स्त्रियौ ।बालस्तु स्यान्माणवको माणवीनं तु तद्धितम् ॥ १३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कालेऽपि योऽजातदन्तो गजो लघुवपुश्च यः ।तौ मत्कुणौ पञ्चवर्षस्त्विभो बालः प्रकीर्तितः ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
मन्दो लिगुरमेधाश्च मुहिरो वठरो जडः ।बालो मातृमुखो मातृशासितो मुग्ध-हस्तकौ ॥ १६ ॥
अनुष्टुप्
genderविadj.
शीवल-शीतल-शैवल-बालंनिर्मल-संकुल-पिञ्जल-मालम् ।दायुफलं सकुतूहल-फालंवार्दलपाकल-भास्मनतूलम् ॥ १२ ॥
दोधकम्
genderक्लीneut.
कमलं कललं शकलंजम्बालं स्याच्च नील-लाङ्गूले ।कवलो निगलो बालोह्रीबेरे कुन्तले विद[234a]लम् ॥ ६८ ॥
metre not recognised
genderपुंक्लीm. n.
हिन्तालस्तृणराजश्च नारिकेले तु लाङ्गली ।दाक्षिणात्योऽफले बालः सुतङ्गः कृच्छ्रकेसरः ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
मिश्रो मन्दो मृगो भद्रश्चतुर्धा गज उच्यते ।बालः स्यात्पञ्चवर्षोऽसौ स्यात्पोतो दशहायनः ॥ १३६ ॥
अनुष्टुप्
genderपुंmasc.
बालस्तनंधयौ पोतः पाको डिम्भः कुमारकः ।शिशुः शावोऽर्भकः क्षीरकण्ठोत्तानशयावपि ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
वदन्यो दानशीले स्याद्वदान्योऽपि च दृश्यते ।मूर्खो बालो जडोऽमेधो विवर्णो मातृशासितः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
कालः पोटगलावेलबालाः फालगलौ तथा ।वातूलबहुलौ पत्रपालो भृमलकामलौ ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
ह्रीबेरकेशयोर्बालस्तरोरन्यत्र विष्टरः ।द्वापरः संशये बर्हिः कुशः छेदे तु पिप्पलः ॥ १२० ॥
अनुष्टुप्
genderपुंक्लीm. n.
पञ्चवर्षगजो बालः पोतस्तु दशवर्षकः ।त्रिंशद्वर्षस्तु कलभश्चतुर्दश इभेरमः ॥ २८४ ॥
अनुष्टुप्
genderपुंmasc.
जार उपपतिः कुण्डो जारजो गोलकोऽन्यजः ।गर्भो दोहदकं भ्रूणः पोतो बालोऽर्भकः शिशुः ॥ ५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 उ (wrong syllable)
genderपुंmasc.
बालः केशस्तनुरुहो रोम लोमाङ्गजात्मजाः ।कूर्चं वक्त्रा शिखाश्मश्रु गुम्फः पुंस्त्वद्रुमाङ्कुरः ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
बालः स्तनंधयः पोतः पाको डिम्भोऽर्भकः शिशुः ।कुमारः पृथुकः शावः क्षीरकण्ठः किशोरकः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
केशा बालाश्च चिकुरा अलकाः कुन्तलाः कचाः ।शिरोरुहास्तीर्थवाका मूर्धजास्तत्समुच्चये ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
मूर्खो मन्दो जडो मूढो बालोऽज्ञो जाल्मबालिशौ ।शठः कुण्ठश्च वठरो निर्बुद्धिश्च निरक्षरः ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.
बालो डिम्भः शिशुः शावः पोतः पाकः स्तनन्धयः ।अर्भोत्तानशयौ चैव क्षीरकण्ठः कुमारकः ॥ ४९७ ॥
अनुष्टुप्
genderपुंmasc.
मातृमुखश्च मूढोऽज्ञो मन्दश्च नामवर्जितः ।बालोऽमेधाः विवर्णश्च वैधेयश्च यथोद्गतः ॥ ५२१ ॥
अनुष्टुप्metre not read in every line
genderविadj.
कालेऽप्यजातदन्तश्च स्वल्पाङ्गः स्यात् च मत्कुणौ ।पञ्चवर्षो द्विपो बालः पोतः स्याद्दशवर्षकः ॥ २२०५ ॥
अनुष्टुप्
genderपुंmasc.
हालाहलधरो ब्रह्मसर्पो बाल (?) इत्यपि ।द्विमुखाहिश्च राजा हिरहीवानाविमे समाः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
पालङ्की कुन्दुरुः कुन्दुः मुकुन्दुः कुन्द इत्यपि ।बाल-बालक-ह्रीवेर-वहिष्टं केशनामकम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
genderक्लीneut.
बालको मानवो बालः किशोरो वटुरित्यपि ।मुष्टिन्धयो मानवको वटुकोऽपि किशोरकः ॥
अनुष्टुप्
genderपुंmasc.
हयपुच्छाग्रपर्यायः पुच्छमात्रे च कुत्रचित् ।बालहस्तो वालधिः स्याद् दनामा (?) बाल इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
बालः क्षीरात् कण्ठः पश्च स्तनयः स स्तनन्धयः ।कुमार-कुमरौ दह्र-दहरावथ शैशवे ॥ २ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
genderपुंmasc.
यूथपो यूथनाथः स्यादीषादन्तो महारदः ।मदोत्कटो मदकलः स्याद्बालः पञ्चहायनः ॥ ७१६ ॥
अनुष्टुप्
genderपुंmasc.
कुकरः कर्करः केकी कृकवाकुः कपिञ्जलः ।वर्तिका वर्तको बालो गोनर्दो गिरिनर्तिका ॥ ८१२ ॥
अनुष्टुप्
genderपुंmasc.
वटुर्बालो माणवको माणव्यं तत्कदम्बके ।तारुण्यं यौवनं बाल्यं शिशुत्वं शैशवं समम् ॥ ११४१ ॥
अनुष्टुप्
genderपुंmasc.
बालो वामांश-खड्गीशावुत्कारी वरुणो जलम् ।लान्तश्च वारिदो मेदः सुधा धेनुर्व-कारकः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
बालो मुष्टिन्धयश्चाथ श्यालिका केलिकुञ्चिका ।नागरो देवलः श्यालो वारकीरोऽथ साश्रुधीः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चवर्षो गजो बालः पोतस्तु दशवर्षकः ।त्रिंशद्वर्षस्तु कलभो विक्को विंशतिवर्षकः ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
तुषारः शिशिरः स्फीतः सेभ्यः सीमो हिमोऽपि च ।उष्णं ज्वलः खरः क्रूरो बालस्तिग्मः कृशश्चुपः ॥ ७ ॥
अनुष्टुप्
genderविadj.
बालो डिंभोऽर्भकः शाबः कुमारो दारकः शिशुः ।अप्युत्तानशयो वत्सः स्तनपस्तु स्तनन्धयः ॥ २ ॥
अनुष्टुप्
genderविadj.
मूर्खे पुमान्वारणवाजिपुच्छेकरेऽप्युदीच्ये गदितः स्त्रियां न ।वाली तु मेधावपि कर्णभूषा-न्तरेऽथ बाला त्रिपुटास्त्रियोः स्यात् ॥ ६४ ॥
उपजातिः
त्रिर्ना तु नालिकेरेऽथ पञ्चवर्षगजे द्वयोः ।बाला तु मल्लिकाभेदे हरिद्रायां च सा स्त्रियाम् ॥ ८५१ ॥
अनुष्टुप्
बालोऽस्त्रियामाचमने यूथीबालैलयोः स्त्रियाम् ।भल्ली भल्लातके भल्लोऽरलौ शालोक्षिपीलुके ॥ ४४६ ॥
अनुष्टुप्
meaningsआचमन
बोधिरर्थे सुविज्ञाने कुक्कुटाश्वत्थयोस्तु ना ।बालोऽक्ली नीलझिण्ट्यां च भेलौ तूडुपभीरूकौ ॥ ५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 रू (wrong syllable)
meaningsनीलझिण्टी
बाल as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् दारककरिण्यां चापि गणिका दारकौ बालभेदकौ । Amarakośa 3.3.34
- हलायुधकोशः (अभिधानरत्नमाला) बालिशकुञ्जरकरेऽपि शुण्डा ग्रावा शैले भवश्च संसारे । बालेऽपि बालिशः स्यात्कलधौतं शातकुम्भेऽपि ॥ ८०६ ॥ Abhidhānaratnamālā (Halāyudha) 5.806
- कोषकल्पतरु अनुबन्धअनुबन्धो दोषभवे प्रक्रान्तस्यानुवृत्तौ च । मुख्यानुगे च बालेऽपीत्संज्ञे च प्रकृत्यादौ ॥ ८४ ॥ Koṣakalpataru 6.20.84
- कोषकल्पतरु शष्पबाष्पोऽस्त्रियामूष्मणि नेत्रतोये चुपो लये मन्दगतौ पराभः । स्त्रियां न बाले यवसेऽस्ति शष्पं पुंसि त्विदं स्यात्प्रतिभावहानौ ॥ ७ ॥ Koṣakalpataru 6.22.7
- कोषकल्पतरु बालिशबाले च मूर्खेऽथ मुनौ सलोम्नि स्याल्लोमशो मद्रकवाचकश्च । कासीसकेऽन्त्ये जटिलाशृगाल्योः स्त्री शूकशिम्ब्यामपि मर्कटीषु ॥ १६ ॥ Koṣakalpataru 6.30.16
- कोषकल्पतरु अम्बरीषतृष्णायामभिलाषेऽथ वातरूषस्तथोत्कोचे । ऐन्द्रे चापे परवद्वातूलेऽथाम्बरीषोऽस्त्री । भ्राष्ट्रे रणेऽथ पुंसि क्ष्मापतिभेदे रवौ बाले ॥ ६७ ॥ Koṣakalpataru 6.30.67
- नानार्थार्णवसंक्षेप अर्भअथाभिधेयलिङ्गः स्यादर्भो बाले तथाल्पके । अन्यस्त्वसदृशे भिन्नेऽप्यन्त्योऽन्तभवनीचयोः ॥ १ ॥ Nānārthārṇavasaṃkṣepa 2.4.1
- नानार्थार्णवसंक्षेप वत्सफले तु कुटजस्य क्ली द्वे तु तर्णकसंज्ञके । गोपोते बालमात्रेऽन्ये तनयादौ त्रिषु त्वयम् ॥ ११६८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1168
- नानार्थार्णवसंक्षेप बालिशप्रोक्षितं निहते सिक्ते बहुलं त्वपि पुष्कले । सान्द्रे च बालिशस्तु स्याद् बाले मूर्खेऽथ बेटकः ॥ ४३ ॥ Nānārthārṇavasaṃkṣepa 3.4.43
- नानार्थार्णवसंक्षेप कुमारअश्वानुचारके चापि युवराजे मृतावपि । कुत्सितायां द्वयोस्तु स्याद् बाले स्त्रीपुंसयोः पुनः ॥ ५१४ ॥ Nānārthārṇavasaṃkṣepa 4.514
- नानार्थार्णवसंक्षेप दारकदारकस्तु द्वयोर्बाले कश्चित्तु तरुणेऽवदत् । धनञ्जयस्तु ब्रूते स्म पत्त्रे शब्दविदां वरः ॥ ९२२ ॥ Nānārthārṇavasaṃkṣepa 4.922
- नानार्थार्णवसंक्षेप पृथुकइत्येव पृथुकस्तु स्यात् पुमांश्चिपिटसंज्ञके । भक्षभेदे द्वे तु बाले पृदाकुस्तु पुमानयम् ॥ १२११ ॥ Nānārthārṇavasaṃkṣepa 4.1211
- नानार्थार्णवसंक्षेप मानसपूजके तु त्रिषु ज्ञेयो माहिरस्तु नृलिङ्गकः । इन्द्रे क्लीबं तु शयने बाले च क्ली तु मानसम् ॥ १४१३ ॥ Nānārthārṇavasaṃkṣepa 4.1413
- नानार्थार्णवसंक्षेप माणवद्वे तु बाले कुपुरुषेऽप्यथ पुम्भूम्नि मालवाः । अवन्त्याख्ये जनपदे तन्निवासजने द्वयोः ॥ १४१७ ॥ Nānārthārṇavasaṃkṣepa 4.1417
- नानार्थार्णवसंक्षेप शिशुकबुधैः शिखरशब्दोऽयमित्यसत् तदमूलकम् । शिशुकस्तु द्वयोर्बाले शिंशुमारे तथैव च ॥ १८२९ ॥ Nānārthārṇavasaṃkṣepa 4.1829
- नानार्थार्णवसंक्षेप माणवकभवेन्माणवको द्वे तु बाले तत्र यदा स्त्रियाम् । तदा माणविका गर्ह्यपुरुषेऽथ नृलिङ्गकः ॥ ४९७ ॥ Nānārthārṇavasaṃkṣepa 6.497
- परमानन्दीयनाममाला डिम्भडिम्भो बाले जडेऽप्युक्तो डिम्बोऽथ डमरे भये । Paramānandīyanāmamālā 5.14.3
- शब्दरत्नाकर कुमारअस्त्री कशिपु वस्त्रेऽन्ने शय्यायां तद्द्वयेऽपि च । कुमारः षण्मुखे बाले युवराजे सितद्रुमे ॥ २०७४ ॥ Śabdaratnākara 4.1.2074
- तन्त्राभिधान वल-कारश्च पिनाकीश इन्द्रांशौ स्वर्बलानुजः । व-कारो वरुणो बालो मेदः खड्गीश्वरोऽजरः ॥ २६ ॥ Tantrābhidhāna 1.26
- तन्त्राभिधान यशङ्खा भ्रमो जटी लोला वायुवेगी यशस्करः । सङ्कर्षणः क्षपा बालो हृदयं कपिला प्रभा ॥ १४० ॥ Tantrābhidhāna 2.43.140
- तन्त्राभिधान ववो बालो वारुणी सूक्ष्मा वरुणो मेदसंज्ञकः । खड्गीशो ज्वालिनी वक्षः कलसं ध्वनिवाचकः ॥ १५१ ॥ Tantrābhidhāna 2.46.151
- त्रिकाण्डशेष माणवकहारभेदे माणवको बाले कुपुरुषे वटौ । मयूरकोऽपामार्गे च हंसभेदेपि मल्लिकः ॥ ३७ ॥ Trikāṇḍaśeṣa 3.3.37
- वैजयन्ती डिंभज्यायान् ज्येष्ठश्चाग्रजन्मन्यतिवृद्धातिशस्तयोः । जात्यःश्रेष्ठे कुलीने च डिंभो बालिशबालयोः ॥ ७ ॥ Vaijayantī 6.4.7
- वैजयन्ती वत्सवत्सो ना कुटजे वर्षे तर्णके तनयादिके । बाले च वक्षसि त्वस्त्री वज्रोऽस्त्री हीरकास्त्रयोः ॥ ७३ ॥ Vaijayantī 6.5.73
- वैजयन्ती पृथुकपृथुकश्चिपिटे बाले पृदाकुर्व्याघ्रसर्पयोः । भासन्तावर्कनक्षत्रे सूर्यश्चाग्निश्च भास्करौ ॥ ५८ ॥ Vaijayantī 7.1.58
- वैजयन्ती बालिशमिश्रास्निग्धौ च परुषौ प्रगाढो गहने दृढे । पामरोऽपशदेऽज्ञे च बालिशो बालमूर्खयोः ॥ २० ॥ Vaijayantī 7.4.20
- वैजयन्ती कुमारतथा मध्वाज्यसंसिक्तयवलाजजतर्पणे । कुमारः स्याद्गुहे बाले वरणेऽश्वानुचारके ॥ २८ ॥ Vaijayantī 7.5.28