शैलज
śailajaपुं · masc.In 5 kośas: 2 synonym verses, 11 as a meaning of another word.
कुशिकः स्यात्स्नेहकरोऽश्वकर्णस्त्वेष शैलजः ।सस्यसंवरणः शूरश्चीरिपत्रो गुरुच्छदः ॥[31b]तार्क्ष्यहृद्दीर्घपत्रः स्यात्पीतसालस्तु बीजकः ।जीवकः प्रियकः काम्यो भवेद्बन्धूकपुष्पकः ॥ ७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्स्ने (wrong syllable)
genderपुंmasc.
ह्रीवेरोदीच्यपानीयनाम वारिदमित्यपि ।शैलजं स्यात् शीतशिवं शैलेयञ्च शिलासनम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शी (wrong syllable)
genderक्लीneut.
शैलज as a meaning in nānārtha verses
- धरणिकोश शीतशिवआदीनवः परिक्लिष्टो दोषश्चादीनवो मतः । शीतशिवं मधुरिका शमी सैन्धवशैलजम् । आशितंभवमन्नाद्यं तृप्तिरप्याशितंभवः ॥ Dharaṇikośa 28.2.24
- कोषकल्पतरु पलितरसितं सुवर्णखचिते रुते तथा गर्जिते प्रोक्तम् । पलितं त्वस्त्री तापे शैलजकर्दमविपक्वकेशेषु ॥ ८२ ॥ Koṣakalpataru 6.16.82
- कोषकल्पतरु शीतलशैलेयशैवालगतं तु शीवलं स्याच्छैवलं पद्मककाष्ठवाचकम् । जलाञ्चले ना मलयोद्भवे पुनः स्याच्छीतलं शैलजवाचकं तथा ॥ ३५ ॥ Koṣakalpataru 6.28.35
- नानार्थार्णवसंक्षेप तार्क्ष्यताम्रा तु स्त्री कृष्णलाख्यवल्ल्यां तार्क्ष्यस्तु ना रथे । गरुडे शैलजे विष्णौ विष्णोर्वामनविग्रहे ॥ ५२७ ॥ Nānārthārṇavasaṃkṣepa 2.5.527
- शिवकोष शैलेयशैलेयं गिरिमृत्तालपर्णीशैलजसिन्धुजे । स्त्रीप्रियः सहकारस्य फले शोभाञ्जनद्रुमे ॥ ३६० ॥ Śivakoṣa 21.2.360
- शिवकोष शीतलशैलजे च पुमान्हेमपुष्पे मरिचपत्रके । श्रीफली नीलिकाधात्र्योर्ना बिल्वे चिक्कणे द्वयोः ॥ ४७६ ॥ Śivakoṣa 23.2.476
- शब्दरत्नावली गिरिजकुटजः स्यादगस्त्ये तु द्रोणे वृक्षविशेषके । गिरिजं शैलजे चाभ्रे शिलाजतुनि लोहके ॥ Śabdaratnāvalī 7.8.23
- शब्दरत्नावली पलितपलितं शैलजे तापे केशपाके च कर्दमे । प्रसृतोऽर्द्धाञ्जलौ स्त्री तु जङ्घायां वेगिते त्रिषु ॥ Śabdaratnāvalī 7.16.114
- शब्दरत्नावली वृद्धवृद्धः प्रवृद्धे जीर्णे ज्ञे त्रिषु क्लीबञ्च शैलजे । वृद्धिर्योगे वर्द्धने स्यादष्टवर्गौषधिभिदि ॥ Śabdaratnāvalī 7.19.14
- शब्दरत्नावली शैलेयशीर्षण्यं शीर्षके क्लीबं सुकेशे तु भवेत्पुमान् । शैलेयं तालपर्ण्यान्तु सैन्धवे शैलजेऽपि च ॥ Śabdaratnāvalī 7.26.49
- शब्दरत्नावली शीतलशाल्मली तरुभेदे स्याद् द्वीपभेदे च पुंस्ययम् । श्रीफलः पुंसि बिल्वे स्याद्धात्रीनीलिकयोः स्त्रियाम् ॥ शीतलं चन्दने शैत्ये शैलजे ना द्रुमान्तरे । शीवलं शैवले क्लीबं शैलेयेऽपि निगद्यते ॥ Śabdaratnāvalī 7.28.97