कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

वान्ताः · वार्धश्लोकः

॥ वार्धश्लोकः ॥

वशब्दो वरुणं प्राह इवार्थं च तदव्ययम् ।लवो रामसुते प्रोक्तो लवश्छेदनलेशयोः ॥
28.2.1 · p. 204
अनुष्टुप्
वो दावश्च विज्ञेयो वनाग्निवनयोरपि ।भवः संसारसत्ताप्तिश्रेयःशंकरजन्मसु ॥
28.2.2 · p. 204
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 वो (syllables merged)
धवो नरे धवो वृक्षे धवो भर्ता च योषिताम् ।हव आह्वानमाख्यातं हव आज्ञा हवः क्रतुः ॥
28.2.3 · p. 205
अनुष्टुप्
द्रवो [97] नर्मणि निर्यासे गतौ पलायनेऽपि च ।सवो यज्ञे च संधाने सवं तोयं सवं मृतम् ॥
28.2.4 · p. 205
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
अविर्मेषे गिरौ सूर्ये ऋतुमत्यङ्गनाप्यविः ।पार्श्वोऽवयवभेदः स्याच्चक्रोपायसमीपयोः ॥
28.2.5 · p. 205
अनुष्टुप्
प्राध्वोऽतिमात्रं प्रणतः प्राध्वं बन्धनमुच्यते ।तत्त्वं ब्रह्मणि तद्भावे वाद्यभेदे च चेतसि ॥
28.2.6 · p. 205
अनुष्टुप्
पक्वं विनाशाभिमुखं पक्वं परिणतार्थकम् ।द्वन्द्वं रहसि चार्थे च वैरे मिथुनयुग्मयोः ॥
28.2.7 · p. 205
अनुष्टुप्
विश्वं सर्वं जगच्छुण्ठी विश्वा चातिविषा स्मृता ।देवी दुर्गा च पूजा च देवौ सुरमहीभुजौ ॥
28.2.8 · p. 205
अनुष्टुप्
पृथ्वी भूमौ त्वक्पत्र्यां च महत्यां कृष्णजीरके ।लट्वा च कथिता धीरैः करञ्जपक्षिभेदयोः ॥
28.2.9 · p. 206
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 त्व (wrong syllable); pāda 4, syllable 3 ञ्ज (wrong syllable)
दिवं च त्रिदिवं चैव स्वर्गान्तरिक्षयोः स्मृतम् ।कैरवी चन्द्रिका प्रोक्ता कैरवं कुमुदद्विषोः ॥
28.2.10 · p. 206
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)
उत्सवो मह उत्सेके क्रोधाभीष्टप्रसारयोः ।उद्धव उत्सवः प्रोक्त उद्धवो मातुलो हरेः ॥
28.2.11 · p. 206
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
निह्नवश्चाप्यविश्वासे निकृतावपलापने ।आहवस्तु निपानं स्यात्संग्रामाध्वरयोपि ॥
28.2.12 · p. 206
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पल्लवः स्यात्किसलये षिङ्गाशृङ्गरयोरपि ।सैन्धवो लवणेऽप्यश्वे सैन्धवः सिन्धुदेशजे ॥
28.2.13 · p. 206
अनुष्टुप्
आर्तवमृतुसंभूते स्त्रीणां रजसि चार्तवम् ।भार्गवः कथितः शुक्रे चापिपरशुरामयोः ॥
28.2.14 · p. 206
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable); pāda 4, syllable 2 पि (wrong syllable)
बल्लवो भीमसेने स्याद्बल्लवो गोपसूदयोः ।भैरवः कथितः शम्भौ भैरवं भीषणं स्मृतम् ॥
28.2.15 · p. 207
अनुष्टुप्
पार्थिवः स्यात्पृथिव्यास्तु विकार ईश्वरेऽपि च ।शात्रवः शत्रुराख्यातः शत्रुभावे च शात्रवम् ॥
28.2.16 · p. 207
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
आश्रवः स्यात्प्रति[98]श्रावे क्लेशे च वचनस्थिते ।राजीवो हरिणे मत्स्ये राजीवं सरसीरुहम् ॥
28.2.17 · p. 207
अनुष्टुप्
अभावः स्यादसत्तायामभावो निधनार्थकः ।गाण्डीवं गाण्डिवं चैव धनुष्यर्जुनधन्वनि ॥
28.2.18 · p. 207
अनुष्टुप्
पञ्चत्वं मरणे भावे पञ्चानामपि च स्मृतम् ।सुग्रीवः शोभनग्रीवः सुग्रीवो वानरान्तरम् ॥
28.2.19 · p. 207
अनुष्टुप्
वडवा स्त्र्यन्तरे कुम्भदास्यामश्वस्त्रियामपि ।कोटवी चण्डिका ख्याता नग्निका चापि कोटवी ॥
28.2.20 · p. 207
अनुष्टुप्
अनुभावः प्रभावे स्यान्निश्चये भावबोधके ।अपह्नवोऽपलापः स्यात्स्नेहश्चापह्नवो मतः ॥
28.2.21 · p. 208
अनुष्टुप्
सहदेवौषधिः काचित्सहदेवश्च पाण्डवः ।कुशीलवश्च वाल्मीकिर्नटाश्चापि कुशीलवाः ॥
28.2.22 · p. 208
अनुष्टुप्
अभिषवः स्मृतः स्नाने मद्यसंधानयज्ञयोः ।पारसवः शस्त्रभेदे शूद्रापुत्रे द्विजोद्भवे ॥
28.2.23 · p. 208
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ष (wrong syllable); pāda 3, syllable 3 स (wrong syllable)
आदीनवः परिक्लिष्टो दोषश्चादीनवो मतः ।शीतशिवं मधुरिका शमी सैन्धवशैलजम् ।आशितंभवमन्नाद्यं तृप्तिरप्याशितंभवः ॥
28.2.24 · p. 208
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 शि (wrong syllable)