कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

संज्वर

saṃjvaraपुं · masc.

In 8 kośas: 10 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य तेजस्कायः Abhidhānacintāmaṇi 4.3.5 · p. 43
संतापः संज्वरो बाष्प ऊष्मा जिह्वाः स्युरर्चिषः ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.305 · p. 54
ज्वरः स्यात्संज्वरो रोगपुष्ट आतङ्ककस्त्रिपात् ।भस्मबाणस्त्रिशीर्षार्थ एक दंष्ट्रार्थ इत्यपि ॥ ३०५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.323 · p. 56
पानाद्विभ्रमपर्यायः पानाद्घातस्तथा परः ।संतापः संज्वरस्तापः प्लोषो दाहोऽपि चोमकः ॥ ३२३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव भूस्थदेवप्रकाण्डः Kalpadrukośa 2.2.25 · p. 379
यालातसम्भवा सोल्काऽथाग्नेः स्वेच्छोद्भवाः कणाः ।त्रिषु स्युरथ संतापः संज्वरोऽथ जलादिकात् ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.134 · p. 21
संतापः[15a] संज्वरो दाहो पुंस्यूष्मा बाष्पमस्त्रियाम् ।धूमोऽम्भःसूर्वायुवाहोऽग्निवाहोऽग्निध्वजः स्तरीः ॥ १३४ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.11 · p. 53
तुषवह्नौ कुकूलः स्यात्तुल्यौ संतापसंज्वरौ ।बाष्पे ऊष्माप्यथो वाह्निजिह्वा कीला शिखार्चिषः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि तेजस्कायनामानि Suśīlanāmamālā 5.3.17 · p. 317
सन्तापः संज्वरो नाम वह्निजो दाह उच्यते ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.137 · p. 10
त्रिषु स्फुलिङ्गोऽग्निकणे तापे संतापसंज्वरौ ।ज्वालायाञ्च द्वयोर्ज्वालकीलौ तस्य शिखास्वपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.108 · p. 15
सुरभिर्यूपकर्माग्निः स्वाहाग्नाय्यनलप्रिया ।स्यात् त्रिलिङ्गः स्फुलिङ्गोऽग्नेः समौ संतापसं ज्वरौ ॥ १०८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.31 · p. 11
त्रयी स्फुलिंगोऽपुञ्जो ना खड्गांगश्चाथ संज्वरः ।सन्तापः स्यात् प्रकाशस्तु द्योत आलोक आतपः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.