कील
kīlaपुं · masc.In 18 kośas: 28 synonym verses, 9 as a nānārtha head word, 28 as a meaning of another word.
genderपुंmasc.
वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम् ।
अनुष्टुप्
genderपुंस्त्रीm. f.
ज्वालः स्याज्ज्वालया सार्धं कीलः स्यात् कीलया सह ।दवाग्निरपि दावाग्निरभ्रं चाब्भ्रं खमेघयोः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
अहार्यो गोत्रकुत्कीलः कुत्किलो भूतलोचनः ।बन्धकी फलिगः क्रुद्धः प्रपाद्यद्रिः शिलोच्चयः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
दोर्द्वयाकर्षणं कीलः प्रकोष्ठहननं तु यत् ।स वज्रपातोऽथ पुनस्तुमुलं संकुलं रणम् ॥ ३५४ ॥
अनुष्टुप्
genderपुंmasc.
शुष्के तत्र करीषोऽस्त्री त्रिषु गव्यं गवामिदम् ।शिवः पुष्यलकः कीलोऽस्त्रियां संदानबन्धने ॥ ४६६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कीलरालपटोलानां तथा कम्बलभल्लयोः ।दंशगण्डूषरभसलालसानां ततोऽपि च ॥ १२१ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
शिखा-हेत्यर्चयो ज्वालकीलौ द्वंद्वेऽर्चिरादियुक् ।झाला झलक्का चण्डार्च्चिरुल्काऽलातभवेर्चिषि ॥ १३१ ॥
अनुष्टुप्
genderपुंmasc.
गवां मले गोमयोऽस्त्री भूमिलेपनमित्यपि ।साढो गोग्रन्थिरुपलोत्पले न स्त्री करीषवत् ॥पिष्टकं छगणं छाणं शुष्के गोमूत्र-गोजले ।आपीनोऽस्त्री क्लीबमूधः कीलः पुष्पलकः शिवः ॥तिष्ठद्गु त्वव्ययं दोहसमयः क[137a]थितो गवाम् ।स्यादायतीगवं तद्वद्यत्रागच्छन्ति धेनवः ॥ ५० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
[231a] ********भे चित्र कील-पाटली ।जाटलिः शाल्मलिर्मौलिर्हलिः केलिः शली बलिः ॥ २९ ॥
अनुष्टुप्metre not read in every line
genderपुंस्त्रीm. f.
सुमनस् अप्सरस् इत्येताभ्यां विरहितमुज्झितमित्यर्थः । अस् अन्ते यस्य तदिदमसन्तं पुंसि भवेदित्यर्थः । अयमङ्गिराः चन्द्रमाः स्थूलशिराः । पुरूरवाः उच्चैःश्रवाः दुर्वासाः पृथुयशा इत्यादयः । सुमनसोऽप्सरसश्च स्त्र्यधिकारात्स्त्रियां प्रवृत्तिः । इमाः सुमनसः कुसुमानि । इमा अप्सरसो देवस्त्रियः । द्व्यच्कमसन्तं नपुंसकं भवति । इदमोजः तेजः वर्चः शिरः यशः छन्दः श्रोतः चेतः पयः तपः अम्भः । जरस्शब्दस्यापि नपुंसकता स्यादित्यत आहान्यत्र वै जरसः । नपुंसकात्प्रकृताच्च पुंल्लिङ्गादन्यस्मिन् जरस् शब्दो भवति । स्त्रियाम् । इयं जरा वृद्धभावः ।पुंसि क्षुरखुरबिन्द्विक्षुपायुमणिकीलकेलिबलयः ।निघसङ्घोद्घोपघ्नौघविघ्नघर्मार्घवर्णाश्च ॥ २५ ॥
metre not recognisedimpossible sibilant cluster: जरस्शब्दस्यापि
अङ्गिरस्पुंचन्द्रमस्पुंस्थूलशिरस्पुंपुरूरवस्पुंउच्चैःश्रवस्पुंदुर्वासस्पुंपृथुयशस्पुंसुमनस्स्त्रीअप्सरस्स्त्रीओजस्क्लीतेजस्क्लीवर्चस्क्लीशिरस्क्लीयशस्क्लीछन्दस्क्लीस्रोतस्क्लीचेतस्क्लीपयस्क्लीतपस्क्लीअम्भस्क्लीजरस्स्त्रीजरास्त्रीक्षुरपुंखुरपुंबिन्दुपुंइक्षुपुंपायुपुंमणिपुंकीलपुंकेलिपुंबलिपुंनिघपुंसङ्घपुंउद्घपुंउपघ्नपुंओघपुंविघ्नपुंघर्मपुंअर्घपुंवर्णपुं
genderपुंmasc.
एते शब्दाः[ब्दा] पुंसि भवन्ति । तद्यथा । अयं क्षुरः नापितोपकरणः । अयं खुरः पशुपादः । अयं बिन्दुः विसर्जनीयावयवः । अन्यच्च । अयमिक्षु सस्यजातिः । अयं पायुः अपानम् । अयं मणिः रत्नम् । कीलः शङ्कुः प्रहरणविशेषः । अयं केलिः हासः ॥। अयं के[क]लिः कलहः । अयं बलिर्दैत्यः राजगृह्यदेवतोपहारौ च ।
metre not recogniseddoubled daṇḍa: ॥।
genderपुंmasc.
कृसरो बहुकरो जित्यरालकीलवितस्तयः ।पटोलः कम्बलः शारो रभसो वेतसोऽपि च ॥ ११२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंस्त्रीm. f.
सर्वेश्वरो वामदेवः कपाली नीललोहितः ।राजराजो देवमणिः फ(फा?)लकः कील इत्यपि ॥ ४९ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 दे (wrong syllable)
genderपुंmasc.
भित्तिर्हेतिः प्रभा भानुश्चरणं किरणं द्युतिः ।उमा जिह्वा दशा कीलः कोशः काशः प्रकाशनम् ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
वार्वारि कीलं कीलालं कमलं कि(को?)मलं जलम् ।जीवं च जीवनं चैव भुवनं वनमित्यपि ॥ २७ ॥
अनुष्टुप्
genderक्लीneut.
प्रजनः स्यादुपसरो गर्भं गृह्ह्लाति सा यदा ।शिवः पुष्पलकः कीलः शङ्कुर्गोबन्धनाय यः ॥ २२९९ ॥
अनुष्टुप्
genderपुंmasc.
त्रिषु स्फुलिङ्गोऽग्निकणे तापे संतापसंज्वरौ ।ज्वालायाञ्च द्वयोर्ज्वालकीलौ तस्य शिखास्वपि ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
घासिर्घसुरिर्हवनो हविश्च द्वौ वनात्परौ ।दवो दावो, हेतौ कीला कीलो ज्वालोऽपि ज्वालया ॥ ११४ ॥
metre not recognised
genderपुंmasc.
गोधनं धनं कीलस्तु पुंस्त्रियोः पुष्पलान्विता ।पुष्पलकः शिवकश्च शिवोऽपि ध्रुवको ध्रुवः ॥ ३१२ ॥
metre not recognised
genderपुंस्त्रीm. f.
अर्चिः स्त्रीक्लीबयोर्हेतिर्ज्वालकीलौ द्वयोः शिखा ।कराली लोहिता काली धूमवर्णा मनोजवा ॥ ११० ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
शृङ्गारोऽलंक्रिया तोत्रं वैणुकं कदली ध्वजः ।आलानं बन्धनस्तम्भे कीलशङ्कुध्रुवाः समाः ॥ ७१० ॥
अनुष्टुप्
genderपुंmasc.
जूटो वराटः कर्कन्धूः शाल्मलिर्बलिडाडिमौ ।मृत्युः कुम्भो भुजो बाहुर्ज्वालः कीलोऽशनिः फणः ॥ २३२६ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
उः स्थाणुः शिपिविष्टश्च मः कीलो धर्मवाहनः ।विरूपविषमत्र्यक्षाः सन्ध्यानटी वृषाञ्जनः ॥ ४६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
genderपुंmasc.
फेणाभिजनकलापनिकाया हारोच्चारोपलकल्लोलाः ।फालचषालकीलनलतण्डुलशैवलखलविभवप्रसवाश्च ॥ ४ ॥
metre not recognised
genderपुंmasc.
गण्डूषगर्जजागर-भुजकीलज्वालवर्तकव्रीडाः ।उत्कण्ठशटवराटक-रभसाः स्त्रीत्वे तु टाबन्ताः ॥ १७ ॥
आर्या
genderपुंस्त्रीm. f.
सूनापष्ठांतरं मन्या वक्रकीलो हुरुट्टकः ।कीलस्तु पुष्यलः शंकुर्हिञ्जीरो लोहशृंखलः ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
कस्तंभि युगमध्येऽस्त्री स्यादक्षश्चक्रधारणम् ।अक्षकीले त्वणिर्न क्ली ध्रुवः कीलोऽप्यनिर्न षण् ॥ १३१ ॥
अनुष्टुप्
genderपुंmasc.
पीलुर्मतो गजे वृक्षे क्रिमौ काण्डप्रसूनयोः ।कीलः कफोणिकाघाते स्थाणौ च ज्वलनार्चिषि ॥
अनुष्टुप्
कील as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) स्थाणुवृजिनः केशेऽप्युक्तः स्थाणुः कीलेऽपि कुञ्जरे नागः । गञ्जो भाण्डागारे गोमुखमुपलेपनेऽपि स्यात् ॥ ७९७ ॥ Abhidhānaratnamālā (Halāyudha) 5.797
- धरणिकोश स्थाणुस्थाणुः शिवे [स्थि]रे कीले वृष्णिर्यादवमेषयोः । रणः स्यात्संयुगे क्काणे शाणः कषमाषचतुष्कयोः ॥ Dharaṇikośa 14.1.4
- धरणिकोश अष्टापदअष्टापदं सुवर्णे स्यादष्टापदश्च मल्लिका । अष्टापदः कीलभेदे शारीणां फलकेऽपि च ॥ Dharaṇikośa 17.3.10
- धरणिकोश ध्रुवध्रुवः शिवे स्याद्वसुयोगभेदयो- र्नित्ये च कीले च वटद्रुमे च । स्रुग्गीतिभेदावपि ? सालपर्णिका ध्रुबा स्मृता निश्चिततर्कयोर्ध्रुबम् ॥ Dharaṇikośa 22.3.2
- धरणिकोश शिवशिवं भद्रं शिवः शम्भुः शिवो मुक्तिः… । शिवः कीलः शिवो वेदो ग्रहयोगः शिवः स्मृतः ॥ Dharaṇikośa 28.3.1
- कोषकल्पतरु शङ्कुभेकस्त्ववानपि(?)वधूकरणे तु शौकं नाकुर्मुनौ कृमिगिरौ [च गिरौ] तथोक्तः । शङ्कुः पुमान्सलिलजन्तुविभेदकील- शंभ्वस्त्रकेषु मिथुने तु चतुर्दशेऽङ्के ॥ २२ ॥ Koṣakalpataru 6.1.22
- कोषकल्पतरु अणिवेणिः[280a]केशनिबन्धने च सरितोः स्यात्संगमे च स्त्रियां । जीमूताभिधभेषजे मणिरजाकण्ठस्तने गोलके । रत्ने मेहनकाग्रके च युगुलेऽणिस्त्वाणिरक्षाग्रके कीलेऽश्राववधौ द्वयोरथ कुणिस्तुन्नद्रुमे कोकिले ॥ १५ ॥ Koṣakalpataru 6.15.15
- कोषकल्पतरु स्थाणुव्यूतौ स्त्री च निषङ्गके त्रिषु भवेत्तूणोऽथ नील्यां स्त्रियां वाणी तु श्रुतिभारतीद्वयगता फाणिस्तु खर्वे गुडे । ऊर्म्यर्चिः किरणेषु पुंसि च घृणिः स्थाणुः पुमाञ्शंकरे न स्त्री स ध्रुवकीलयोरथ नृपे वंशे च वेणुः पुमान् ॥ १६ ॥ Koṣakalpataru 6.15.16
- कोषकल्पतरु अर्बुदप्रासादो नरदेवदेवगृहयोर्वादे तु चाम्नायते निर्वादः परिवादकेऽथ दशकोटिष्वर्बुदं न स्त्रियाम् । कीले मांसभवे नरि क्षितिधरे नद्योः पुनः संगमे संभेदः स्फुटनेऽप्यथ श्रुतिगदे तारे प्रणादो ध्वनौ ॥ ३४ ॥ Koṣakalpataru 6.19.34
- कोषकल्पतरु शूलाशूलं च न स्त्री मतमायुधार्त्यो- र्योगे च मृत्यावपि केतने च । स्त्रियां तु पण्यप्रमदार्थके स्या- त्कीले तथा दुष्टवधार्थकेऽपि ॥ ७० ॥ Koṣakalpataru 6.28.70
- कोषकल्पतरु अचलशैले च कीलेऽप्यचलो भुवि स्त्री लक्ष्म्यां पुनर्विद्युति चञ्चला स्यात् । वायौ पुमान्कम्रगतः परस्मिन् स्युरिल्वलाः स्त्री मृगभोर्ध्वभेषु ॥ ५५ ॥ Koṣakalpataru 6.28.55
- कोषकल्पतरु ध्रुवनवः स्तवे ना तरुणेऽन्यवत्स्याद्- ध्रुवः शिवे भान्तरयोगयोश्च । मुनौ वसौ स्याद्वटशङ्कुकीले स्त्री शालिपर्ण्यां स्रुचि गीतिभेदे ॥ ९३ ॥ Koṣakalpataru 6.29.93
- कोषकल्पतरु शिवशिवस्तु शंभौ नरि गुग्गुलौ च वेदे च योगान्तरके च कीले । स्यात्पुण्डरीकद्रुमवालुके च स्त्रियां तु झाटामलकौषधौ स्यात् ॥ ९५ ॥ Koṣakalpataru 6.29.95
- नानार्थार्णवसंक्षेप ध्रुवधीवरीत्याह ना तु स्याद् ध्रुवः शम्भुविरिञ्चयोः । औत्तानपादौ कीलेऽथ त्रिर्नित्ये निश्चले स्फुटे ॥ ६४९ ॥ Nānārthārṇavasaṃkṣepa 2.5.649
- नानार्थार्णवसंक्षेप शङ्कुकोटीनां लक्षमाचार्याः केचित् पुंशण्डयोः पुनः । कीले मेढ्रेऽस्त्रभेदे च गोत्रे चान्ये तु मन्वते ॥ १३२७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1327
- नानार्थार्णवसंक्षेप शिवशार्ङ्गी तु पुंसि गोविन्दे तथा शार्ङ्गवति त्रिषु । शिवः शम्भौ पद्मरागे गोरसे शीथुकीलयोः ॥ १३५८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1358
- नानार्थार्णवसंक्षेप अरत्निकीलकूर्परयोश्चान्ये पुनर्मानान्तरे विदुः । चतुर्विंशत्यङ्गुलेऽथ स्यादग्नावमनिः पुमान् ॥ १५२ ॥ Nānārthārṇavasaṃkṣepa 4.152
- परमानन्दीयनाममाला अर्चिस्अर्यो वैश्ये प्रभावण्डं मुष्के कोशेऽप्यनन्तरे । अर्चिः कीलोस्रयोरर्तिः पीडायामटनावपि ॥ १४ ॥ Paramānandīyanāmamālā 5.1.14
- परमानन्दीयनाममाला स्थाणुस्तोमो मखे चये स्तोकः चातकस्वल्पयोरपि । स्थाणुः कीले हरे सूनमङ्कुरे कुसुमे मतम् ॥ ३६१ ॥ Paramānandīyanāmamālā 5.27.361
- परमानन्दीयनाममाला सालिसीता तु जानकी देवसिन्धुर्लाङ्गलपद्धतिः । सालिर्भुजंगमे कीले मूर्खे रोगे युगान्तरे ॥ ३६३ ॥ Paramānandīyanāmamālā 5.27.363
- शब्दरत्नावली शङ्कुशल्कन्तु वल्कले शकले शको जात्यन्तरे नृपे । शङ्कर्ना शङ्करे कीले संख्यास्त्रपापजन्तुषु ॥ Śabdaratnāvalī 7.1.21
- शब्दरत्नावली पुष्यलकगन्धमृगेक्षपणके कीले पुष्यलको पुमान् । पुंसि व्याघ्रदिङ्मतङ्गजेन्द्रकोषकारान्तरेषु च ॥ Śabdaratnāvalī 7.1.181
- शब्दरत्नावली स्थाणुस्थाणुरस्त्री ध्रुवे पुंसि कीले स्मरहरेऽपि च । स्थूणा लोहप्रतिमायां गृहस्तम्भेऽपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.15.21
- शब्दरत्नाकर शङ्कुवृत्रारौ कुटजे शक्रः शुको व्याससुते खगे । शङ्कुः पत्रसिराकीलमेहनेष्वायुधान्तरे ॥ २००९ ॥ Śabdaratnākara 4.1.2009
- त्रिकाण्डशेष शिवअश्वौघे वाडवं न स्त्री पाताले ना द्विजौर्वयोः । वडवाऽश्वाकुम्भदास्योर्योगे कील हरे शिवः ॥ ४२३ ॥ Trikāṇḍaśeṣa 3.3.423
- वैजयन्ती शङ्कुशब्दोऽक्षरे यशोगीत्योर्वाक्ये खे श्रवणे ध्वनौ । शंकुः पत्रसिराजाले कीलेऽस्त्रे मेढ्रसंख्ययोः ॥ ५९ ॥ Vaijayantī 6.1.59
- वैजयन्ती ध्रुवध्रुवो धात्रीशकीलर्क्षनित्येषु स्त्री तु भूस्त्रुचोः । क्ली तर्के निश्चिते व्योम्नि धीरोऽब्धौ मंथरे बुधे ॥ ४४ ॥ Vaijayantī 6.5.44
- वैजयन्ती शिवशिवा हरीतकी क्रोष्टा शमी नद्यामलक्युमा । शिवो घोले पद्मरागे हरे कीले शिवं जले ॥ ८४ ॥ Vaijayantī 6.5.84