स्फुलिङ्ग
sphuliṅgaवि · adj.In 11 kośas: 14 synonym verses, 3 as a meaning of another word.
स्फुलिङ्गोऽग्निकणोऽलातज्वालोल्काऽलातमुल्मुकम् ।
अनुष्टुप्
genderपुंmasc.
genderविadj.
ऊष्मा वाष्पः स्फुलिङ्गश्च कणा जिह्वास्तथार्चिषः ।अलातमुल्मुकं ज्ञेयमुल्का ज्वालास्य निर्गता ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
त्रिषु स्फुलिङ्गो धूमस्तु वह्न्यर्थेभ्यो ध्वजार्थकः ।भम्भोऽम्भःसूर्मरुद्वाहः खतमालोऽस्त्रियां स्तरी ॥ १७ ॥
अनुष्टुप्
genderविadj.
विलिङ्गस्य स्फुलिङ्गस्य कपाटस्य पुटस्य च ।वटवाटपुटानां च तटस्य शकटस्य च ॥ १९९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
मुर्म्मुरः स्यादथालातोल्मुके अङ्गारमस्त्रियाम् ।त्रिषु स्फुलिङ्गश्च कणः संकरोऽग्निचटध्वनिः ॥ १३० ॥
अनुष्टुप्
genderविadj.
ज्वाला हेतिः शिखा वृद्धा झलक्का परिकीर्तिता ।स्फुलिङ्गोल्कालातवह्निकणा ज्वलोल्मुके अपि ॥ १२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज्व (wrong syllable)
genderपुंmasc.
स्फुलिङ्गो मुस्तकः कुन्थ इङ्गुदो दाडिमः पुरः ।इत्यादयस्त्रिलिङ्गाः स्युः स्वत एव विशेषणात् ॥ १७७ ॥
अनुष्टुप्
genderविadj.
स्फुलिङ्गोऽग्निकणो वह्नेर्निःसरन् लघुभागकः ॥ १९३२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
त्रिषु स्फुलिङ्गोऽग्निकणे तापे संतापसंज्वरौ ।ज्वालायाञ्च द्वयोर्ज्वालकीलौ तस्य शिखास्वपि ॥
अनुष्टुप्
genderविadj.
सुरभिर्यूपकर्माग्निः स्वाहाग्नाय्यनलप्रिया ।स्यात् त्रिलिङ्गः स्फुलिङ्गोऽग्नेः समौ संतापसं ज्वरौ ॥ १०८ ॥
अनुष्टुप्
genderविadj.
विभीतकी वटी शाटी कवाटी मण्डली तटी ।भल्लातक्यामलक्यौ च स्फुलिङ्गः शलली त्रिषु ॥ २३२८ ॥
अनुष्टुप्
genderविadj.
त्रिलिङ्ग्यान्तु प्रतिसरस्फुलिङ्गनखरार्गलाः ।कन्दरं शृङ्खलं नालं वल्लूरफलमुस्तकाः ॥ २१ ॥
अनुष्टुप्
genderपुंस्त्रीक्लीm. f. n.
त्रयी स्फुलिंगोऽपुञ्जो ना खड्गांगश्चाथ संज्वरः ।सन्तापः स्यात् प्रकाशस्तु द्योत आलोक आतपः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.doubtful
स्फुलिङ्ग as a meaning in nānārtha verses
- कल्पद्रुकोशः कणश्रोण्यौषध्योः कटो मोहे भ्रमः कुम्भो घटेऽपि च । वृन्दागोलकयोः पिण्डः स्फुलिङ्गलेशयोः कणः ॥ १११ ॥ Kalpadrukośa 3.5.111
- कोषकल्पतरु कुक्कुटनिषादशूद्रात्मजताम्रचूड- स्फुलिङ्गवाची किल कुक्कुटोऽस्त्री । स्त्री तालमध्ये लसुनप्रभेदे स्याद्दम्भचर्योच्चटयोश्च तद्वत् ॥ ३० ॥ Koṣakalpataru 6.10.30
- कोषकल्पतरु कणधान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवे कृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे । कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक- श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु । व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो- ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः । ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौ मूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः । संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणो घ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् । काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौ बाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥ Koṣakalpataru 6.15.3