कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दाह

dāhaपुं · masc.

In 6 kośas: 8 synonym verses, 2 as a nānārtha head word, 3 as a meaning of another word.

कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.323 · p. 56
पानाद्विभ्रमपर्यायः पानाद्घातस्तथा परः ।संतापः संज्वरस्तापः प्लोषो दाहोऽपि चोमकः ॥ ३२३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.134 · p. 21
संतापः[15a] संज्वरो दाहो पुंस्यूष्मा बाष्पमस्त्रियाम् ।धूमोऽम्भःसूर्वायुवाहोऽग्निवाहोऽग्निध्वजः स्तरीः ॥ १३४ ॥
metre not recognised
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.24 · p. 308
ज्वरितो ज्वरवाञ्जूर्णो ज्वरी च परलिङ्गकः ।दाहः सर्वाङ्गसंताप ओषस्त्वरतिघर्मवान् ।प्लोषोऽर्चिषेव दग्धाङ्गे विदाहः संधिपाणिषु ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
ऊर्मिश्च ध्वनिश्च अञ्जलिश्च ऊर्म्मिध्वन्यञ्जलयः । एते शब्दाः पुंसि भवन्ति । अयमूर्म्मिस्तरङ्गः । अयं ध्वनिः शब्दः ।अयमञ्जलिः करपुटः । ओष्ठकपोलगुल्फसञ्ज्ञाश्च । सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । ओष्ठश्च कपोलश्च गुल्फश्च ओष्ठकपोलगुल्फाः । एतेषां सञ्ज्ञाः पर्यायास्ते पुंसि भवन्ति । अयमोष्ठः अधरः दन्तच्छदः । अयं कपोलः गण्ड इत्येवमादयः । अयं गुल्फः पादग्रन्थिः घुठः घूंठ इत्येवमादयः । घञ्च एरच्च ऋदोरप्च । "पदरुजवेगस्पृशो घञि"त्येवमादिना प्रकरणे घञो विहित इति । "येन विधिस्तदन्तस्ये"ति घञ्प्रत्ययान्ताः शब्दाः पुंसि भवन्ति । तद्यथा । पादः रोगः वेगः स्पर्शः पाकः त्यागः योगः प्रसादः भेदः छेदः दाहः दोषः प्रकारविकार इत्येवमादयः । "एरजि"ति । एरजीवर्णान्तादच्प्रत्ययः स्यात् । अयं जयः नयः । तथा "ऋदोरप्" । ऋवर्णान्तादुवर्णान्ताच्च धातोरप्प्रत्ययः स्यात् । तत्र ऋवर्णान्तात् । अयं करः वरः भरः शरः नरः । इत्येवमादयः । उवर्णान्तात् । अयं प्लवः पवः भवः इत्येवमादयः । घञन्तादन्धकारशब्दस्यापि नित्यं पुंस्त्वं स्यादित्याह । बहुलमन्धकारश्च । अन्धकारो बहुलं पुंलिङ्गे भवति । विभाषा भवतीत्यर्थः । इदं अन्धकारम् । अयं अन्धकारः । तथा चोक्तम् । "नेहागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयोऽपि न भवेत्प्रथमे प्रदोषे । अव्यक्तवस्तुपुरुषप्रतिबोधितेन पारावतेन पतता कृतमन्धकारम् ।"प्राण्यङ्गमिदन्तं वस्तिकुक्षिपाणीन्विमुच्य सर्वं स्त्री ।जङ्घा शिरा स्नुषा नासिका चूडा वसा चैव ॥ १७ ॥
वसन्ततिलकाmetre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि तेजस्कायनामानि Suśīlanāmamālā 5.3.17 · p. 317
सन्तापः संज्वरो नाम वह्निजो दाह उच्यते ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.57 · p. 40
शिखी गोत्रा तोय-शून्ये जवी द्युतीरभिस्मृतः ।भूमी रसो नभश्चैव व्याप्तं दाहो रसाऽम्बु चा ॥ ५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्यु (wrong syllable)
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात क्ष Tantrābhidhāna 8.52.57 · p. 60
अग्निर्वह्निः शुचिस्तेजः प्रभा दावः शिखी द्युतिः ।दाहो ग्रासश्च संज्ञोक्ता वह्न्यर्णानां क्रमादियम् ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात अग्निवर्णाः Tantrābhidhāna 9.2.1 · p. 60
अग्निः-इ, वह्निः-ई, शुचिः-ऐ, तेजः-ख, प्रभा-छ, दावः-ठ, शिखी-थ, द्युतिः-फ, दाहः-र, ग्रासः-क्ष
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.81 · p. 83
दहत्योषत्योलति च श्रेषति श्लेषतीत्यपि ।प्रोषति प्लोषति व्युष्यत्यपि प्लुष्यति कुण्डते ॥ ८१ ॥
अनुष्टुप्
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.83 · p. 83
शट[215a]ति स्यात्तापयति तपत्यपि च चूर्यते ।कूटयत्यपि दाहेऽथ संदाहे स्याद्दहिर्निरः ॥ ८३ ॥
अनुष्टुप्metre not read in every line

दाह as a meaning in nānārtha verses