सत्ता
sattāIn 10 kośas: 0 synonym verses, 21 as a meaning of another word.
सत्ता as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् भावभावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु । Amarakośa 3.3.396
- हलायुधकोशः (अभिधानरत्नमाला) भावअग्निधनरश्मिरत्नत्रिदशविशेषेषु भवति वसुशब्दः । चेष्टात्मजन्मसत्ताभिप्रायेष्वभिहितो भावः ॥ ८५० ॥ Abhidhānaratnamālā (Halāyudha) 5.850
- हलायुधकोशः (अभिधानरत्नमाला) सत्त्ववेदाध्यात्मब्राह्मणहिरण्यगर्भेषु कथ्यते ब्रह्म । प्रकृतिगुणे सत्तायां स्थामनि भूते च सत्त्वं स्यात् ॥ ८६८ ॥ Abhidhānaratnamālā (Halāyudha) 5.868
- धरणिकोश भववो दावश्च विज्ञेयो वनाग्निवनयोरपि । भवः संसारसत्ताप्तिश्रेयःशंकरजन्मसु ॥ Dharaṇikośa 28.2.2
- धरणिकोश भावभावः सत्ताभिप्राये च चेष्टाधात्वर्थयोनिषु । क्रियालीलोपदेशेषु विभूतिबुधजन्मसु ॥ Dharaṇikośa 28.3.5
- धरणिकोश प्रादुर्अन्तर्मध्ये तथा प्रान्ते स्वीकारे च प्रयुज्यते । प्रादुः स्यात्प्रकटीभावः प्रादुः सत्तार्थवाचकः ॥ Dharaṇikośa 34.16.4
- कोषकल्पतरु अस्तिधातुषु द्विपदेषु स्यात्कर्तृभाजि क्रियाफले । आत्मनेपदमाख्यातं परस्मैपदमन्यथा ॥ सत्तायामस्ति भवति विद्यते कर्तरि त्रयम् । भवतक्यस्तकि स्वार्थे भूयते भाव-कर्मणोः ॥ ४ ॥ Koṣakalpataru 3.5.4
- कोषकल्पतरु भावआकूतचेष्टात्मजनुःषु भूतौ सत्तासु चेष्टासु पदार्थकृत्योः । लीलासु न स्त्री नृपतौ तु मेघे सुरे च देवोऽथ हृषीकगोऽन्त्ये ॥ ९८ ॥ Koṣakalpataru 6.29.98
- नानार्थार्णवसंक्षेप भवतेषां द्वितीयतिथिषु भवस्तु प्राप्तिसत्तयोः । शम्भौ जन्मनि संसारे शुभेऽप्याह तु सज्जनः ॥ ८८२ ॥ Nānārthārṇavasaṃkṣepa 2.5.882
- नानार्थार्णवसंक्षेप भावपदार्थमात्रे सत्तायामात्मयोनिस्वभावयोः । केचित् त्वात्मनि योनौ च प्राप्तिसंस्कारजन्मसु ॥ ८९३ ॥ Nānārthārṇavasaṃkṣepa 2.5.893
- नानार्थार्णवसंक्षेप सत्त्वसत्त्वं स्वभावे सत्तायां द्रव्येऽन्तःकरणे बले । पराक्रमे साङ्ख्यगुणे व्यवसायात्मभावयोः ॥ १४४० ॥ Nānārthārṇavasaṃkṣepa 2.5.1440
- नानार्थार्णवसंक्षेप ?अना क्लीबं तु सत्तायां भवेल्लाभविचारयोः । वेणुकं गजतोत्रे क्ली वेणुका तु स्त्रियामियम् ॥ १७४३ ॥ Nānārthārṇavasaṃkṣepa 4.1743
- परमानन्दीयनाममाला भवभवो रुद्रे च सत्तायां संसारे प्राप्तिजन्मनोः । भावः सत्तास्वभावात्मकर्मचेष्टाशयेष्वथ ॥ ३३१ ॥ Paramānandīyanāmamālā 5.20.331
- शब्दरत्नावली भवभवः प्राप्तौ हरे क्षेमसत्तासंसारजन्मसु । भावोऽभिप्रायचेष्टात्मसत्तास्वभावजन्मसु ॥ Śabdaratnāvalī 7.29.16
- शब्दरत्नाकर भवसहायस्थौल्यसैन्येषु शक्तौ क्लीबे बलौलौषधे । जन्मसंसारसात्तासु भद्रे भूतपतौ भवः ॥ १९६७ ॥ Śabdaratnākara 4.1.1967
- शब्दरत्नाकर भावभावश्चेष्टाक्रियालीलासत्ताभिप्रायजन्तुषु । आत्मभावेन्द्रियज्ञानमनोविकृतिभूतिषु ॥ १९७१ ॥ Śabdaratnākara 4.1.1971
- शब्दरत्नाकर सत्त्वसालोऽश्वकर्णे प्राकारे तरुमात्रे झषान्तरे । सत्तायां प्रकृतौ प्राणे पिशाचादौ पराक्रमे ॥ २०२० ॥ Śabdaratnākara 4.1.2020
- त्रिकाण्डशेष भवदूर्वा गौरी च भार्गव्यौ सत्तासंसारयोर्भवः । भावो गौरविते जन्तौ पदार्थेऽभिनयान्तरे ॥ ४२० ॥ Trikāṇḍaśeṣa 3.3.420
- वैजयन्ती भवभवो भद्रे हरे प्राप्तौ सत्तासंसारजन्मसु । भागा भाग्यांशतुर्यांशा भरभारौ गरिम्ण्यपि ॥ ४१ ॥ Vaijayantī 6.1.41
- वैजयन्ती भावभावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु । पदार्थमात्रे सत्तायामात्मयोनिस्वभावयोः ॥ ४३ ॥ Vaijayantī 6.1.43
- वैजयन्ती सत्त्वआत्मभावे पिशाचादौ द्रव्ये सत्तास्वभावयोः । प्राणे बलेऽन्तः करणे स्वामी पत्यौ षडानने ॥ ९४ ॥ Vaijayantī 6.5.94