कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

द्व्यक्षरकाण्डः · नानालिङ्गाध्यायः (12/14)

दशानां दशके चाथ शंस्यः शंस्ये त्रि ना पुनः ।अग्नावाहवनीयाख्ये शर्वस्तु स्याच्छिवे पुमान् ॥ १३२१ ॥
2.5.1321 · p. 155
अनुष्टुप्
शर्वाणी तु मृडान्यां स्त्री शक्तिस्त्वृष्यन्तरे पुमान् ।स्त्री साङ्ख्यप्रकृतौ लक्ष्म्यां सामर्थ्ये नीतिवेदिनाम् ॥ १३२२ ॥
2.5.1322 · p. 155
अनुष्टुप्
प्रसिद्धासु प्रभावादिजातासु स्यात् तिसृष्वपि ।नैरुक्ताः कर्मणि प्राहुः शस्त्रभेदे तु सा द्विधा ॥ १३२३ ॥
2.5.1323 · p. 155
अनुष्टुप्
शक्तिः शक्ती च तच्चापि शस्त्रं कासूरिति स्मृतम् ।शत्रिस्तु कुञ्जरे क्रौञ्चसंज्ञपक्षिणि च द्वयोः ॥ १३२४ ॥
2.5.1324 · p. 155
अनुष्टुप्
शद्रिस्तु पर्वते पुंसि द्वयोस्तु गजमेषयोः ।शङ्कुः शम्भौ चतुर्वक्रे पुमान् सङ्ख्यान्तरेऽपि च ॥ १३२५ ॥
2.5.1325 · p. 156
अनुष्टुप्
शतादिसङ्ख्यानप्त्वस्य बाधार्थं लिङ्गमन्वशात् ।शुङ्कुः पुंसीति भगवांस्तच्च सङ्ख्यान्तरं विदुः ॥ १३२६ ॥
2.5.1326 · p. 156
अनुष्टुप्
कोटीनां लक्षमाचार्याः केचित् पुंशण्डयोः पुनः ।कीले मेढ्रेऽस्त्रभेदे च गोत्रे चान्ये तु मन्वते ॥ १३२७ ॥
2.5.1327 · p. 156
अनुष्टुप्
वृक्षपत्त्रसिराजाले द्वे तु मार्जारहंसयोः ।जलजन्तुप्रभेदे च राक्षसेऽथ नपुंसकम् ॥ १३२८ ॥
2.5.1328 · p. 156
अनुष्टुप्
एतमुत्यादिवर्गस्य तृतीये साम्न्यथापरे ।पुन्नपुंसकयोरेनमविशेषेण मन्वते ॥ १३२९ ॥
2.5.1329 · p. 156
अनुष्टुप्
अप्राण्यर्थं तथा प्राह शङ्कुरप्राणिगोचरः ।इत्यर्धर्चादिवर्गस्य वैजयन्त्यां प्रपञ्चने ॥ १३३० ॥
2.5.1330 · p. 156
अनुष्टुप्
शयुस्तु नार्के स्वप्ने च द्वयोस्त्वजगरेऽथ ना ।शरुः स्यादायुधे क्रोधे द्वयोस्तु स्यात् कपिञ्जले ॥ १३३१ ॥
2.5.1331 · p. 156
अनुष्टुप्
शत्रुस्तु पुंस्यमित्रे स्याल्लग्नात् षष्ठे च राशिके ।त्रि तु शातयितर्युक्तमिन्द्रशत्रुपदे यथा ॥ १३३२ ॥
2.5.1332 · p. 156
अनुष्टुप्
शस्ता प्रजापतौ पुंसि चण्डाले तु द्वयोरिति ।कश्चित् कश्चित्तु शस्ता स्यात् स्तोतरि त्रिषु ना पुनः ॥ १३३३ ॥
2.5.1333 · p. 156
अनुष्टुप्
मित्रावरुणयोश्चेति पितरीति च मन्यते ।शक्वा तु हस्ते ग्रन्थादौ पुंस्यथो शक्वरी स्त्रियाम् ॥ १३३४ ॥
2.5.1334 · p. 156
अनुष्टुप्
नद्यां विद्युति काञ्च्यां च बाहौ छन्दोन्तरे तथा ।षट्पञ्चाशत्स्वरे स्त्री तु शङ्खिनी स्थावरान्तरे ॥ १३३५ ॥
2.5.1335 · p. 156
अनुष्टुप्
चौरपुष्पसमाख्येऽथ शङ्खी शङ्खवति त्रिषु ।श्यामो ना हरिते वर्णे वर्णे कृष्णे तथा(र्बु?म्बु)दे ॥ १३३६ ॥
2.5.1336 · p. 156
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पीलुद्रुमे च श्यामा तु निशीथिन्यां स्त्रियामियम् ।पिप्पलीफलिनीविद्युत्पालिनीशारिबासु च ॥ १३३७ ॥
2.5.1337 · p. 157
अनुष्टुप्
स्त्रीव्यञ्जनकृतायां च कन्यायां विहगान्तरे ।पोतकीसंज्ञकेऽथ क्ली मरीचे व्योम्नि च त्रि तु ॥ १३३८ ॥
2.5.1338 · p. 157
अनुष्टुप्
उक्तवर्णवतोः श्यावः पुनर्ना सवितुर्हये ।वर्णे च कपिशे त्रिस्तु तद्वति त्रिस्तु शान्तवाक् ॥ १३३९ ॥
2.5.1339 · p. 157
अनुष्टुप्
शमिते शान्तियुक्ते च ना तु स्यात् सुनिषण्णके ।नाट्यस्थरसभेदे च क्ली तु शान्ताथ सास्त्रियाम् ॥ १३४० ॥
2.5.1340 · p. 157
अनुष्टुप्
शाको हरितके पत्रपुष्पादिदशके तरोः ।मूलपत्त्रकरीराग्रफलकाण्डाधिरूढकम् ॥ १३४१ ॥
2.5.1341 · p. 157
अनुष्टुप्
त्वक् पुष्पं कवकं चेति शाकं दशविधं स्मृतम् ।इत्युक्ते वृक्षभेदे तु ना पृथुच्छदसंज्ञके ॥ १३४२ ॥
2.5.1342 · p. 157
अनुष्टुप्
अजयो द्वीपभेदेऽपि ब्रवीत्यस्य ह्यनन्तरे ।शकटे च पुमांस्त्री तु शाकी शाके महत्यसौ ॥ १३४३ ॥
2.5.1343 · p. 157
अनुष्टुप्
नानाजातीयशाकानां समाहार इतीतरे ।शाणस्तु निकषे पुंसि स्यादुन्मानान्तरे तथा ॥ १३४४ ॥
2.5.1344 · p. 157
अनुष्टुप्
चतुष्टये स माषाणां दाने शाणी तु सा स्त्रियाम् ।गोणीसमाख्यावपने त्रि तु स्याच्छणयोगिनि ॥ १३४५ ॥
2.5.1345 · p. 157
अनुष्टुप्
शादस्तु शष्पे पङ्के च शदने स्वर्णबन्धयोः ।ना त्रिस्तु शत्तरि शदसम्बन्धिनि च सा पुनः ॥ १३४६ ॥
2.5.1346 · p. 157
अनुष्टुप्
गृह्यकारस्य शादाभिरित्युक्तेश्चिन्त्यतां गतिः ।शाला तु गेहे गेहैकदेशे तु स्त्री तरोस्तथा ॥ १३४७ ॥
2.5.1347 · p. 157
अनुष्टुप्
स्कन्धसञ्जातशाखायां सूक्ष्मैलायां च ना पुनः ।पत्तूरे गमने त्रिस्तु गन्तरि श्वालवाक् तु ना ॥ १३४८ ॥
2.5.1348 · p. 158
अनुष्टुप्
आशुगत्यां द्वयोस्तु स्याच्छुनि शाखा पुनः स्त्रियाम् ।तरोर्लतायां देहस्य पादे बाहौ तथाङ्गुलौ ॥ १३४९ ॥
2.5.1349 · p. 158
अनुष्टुप्
वेदव्यक्तिषु चाथो ना स्कन्ददेवस्य पृष्ठजे ।देवभेदे नृस्त्रियोस्तु व्याप्तौ श्राद्धं पुनर्नपि ॥ १३५० ॥
2.5.1350 · p. 158
अनुष्टुप्
पित्तृणां भोजनायां स्यात् तत्तु श्रद्धावति त्रिषु ।तत्रापि स्त्र्यर्थवृत्तित्वे श्राद्धा श्राणा त्वियं स्त्रियाम् ॥ १३५१ ॥
2.5.1351 · p. 158
अनुष्टुप्
यवाग्वां त्रि तु पक्वे स्यात् क्षीराच्च हविषस्तथा ।अन्यत्र क्ली तु पाकेऽथो शार्ङ्गं क्ली सामसु क्वचित् ॥ १३५२ ॥
2.5.1352 · p. 158
अनुष्टुप्
द्वे तु पक्ष्यन्तरे शार्ङ्गं पुनर्धनुषि शार्ङ्गिणः ।अजयः शृङ्गविहितचापेऽप्याह विशेषतः ॥ १३५३ ॥
2.5.1353 · p. 158
अनुष्टुप्
धनुर्मात्रे च नप् शृङ्गविकारे तु त्रिषु स्मृतः ।शृङ्गसम्बन्धिमात्रे चाप्यथाहतुरवैदिकौ ॥ १३५४ ॥
2.5.1354 · p. 158
अनुष्टुप्
शार्ङ्गः पक्षिविशेषे द्वे इति शारः पुनः पुमान् ।वायौ कर्बुरवर्णे च त्रि तु तद्वत्यथो नृनप् ॥ १३५५ ॥
2.5.1355 · p. 158
अनुष्टुप्
द्यूतशारौ वराटेऽपि शबरस्वाम्यवोचत ।शारिः स्त्री शारिकासंज्ञविहङ्गे नृस्त्रियोः पुनः ॥ १३५६ ॥
2.5.1356 · p. 158
अनुष्टुप्
पर्याणभेदे द्यूतस्य गुडे शारयतौ तु ना ।शालुः कषाये ना त्रिस्तु तद्वति द्वे तु दर्दुरे ॥ १३५७ ॥
2.5.1357 · p. 158
अनुष्टुप्
शार्ङ्गी तु पुंसि गोविन्दे तथा शार्ङ्गवति त्रिषु ।शिवः शम्भौ पद्मरागे गोरसे शीथुकीलयोः ॥ १३५८ ॥
2.5.1358 · p. 158
अनुष्टुप्
सुनिषण्णाख्यशाके च नाथ वातमृगे द्वयोः ।अथो शिवा स्त्री पार्वत्यां शम्भोर्नवसु शक्तिषु ॥ १३५९ ॥
2.5.1359 · p. 158
अनुष्टुप्
एकशक्तौ गवीथ्वाख्यक्षुद्रधान्ये नदीषु च ।हरीतक्यामामलक्यां तामलक्यां शमीद्रुमे ॥ १३६० ॥
2.5.1360 · p. 159
अनुष्टुप्
तुलस्यां क्रोष्टुभेदे च दीप्तजिह्वाह्वयेऽथ तत् ।क्लीबं वारिणि कल्याणे स्थौणेये मूलकान्तरे ॥ १३६१ ॥
2.5.1361 · p. 159
अनुष्टुप्
चाणक्यमूलकाभिख्ये व्योम्नि त्रि तु शुभान्विते ।शिला त्वश्मनि पेषण्यां द्वाराधःस्थितदारुणि ॥ १३६२ ॥
2.5.1362 · p. 159
अनुष्टुप्
मनःशिलायां शैलेये धातौ माक्षिकसंज्ञके ।द्वारनासाविधारण्यां स्थूणाशीर्षे तु सा द्विधा ॥ १३६३ ॥
2.5.1363 · p. 159
अनुष्टुप्
शिला शिली च वध्वां तु शिली गण्डूपदस्य च ।एषु स्त्री क्ली तु धान्यानामार्जने सिलसंज्ञके ॥ १३६४ ॥
2.5.1364 · p. 159
अनुष्टुप्
शिखा तु स्त्री शिफाशाखाघृणिज्वालासु मूर्धनि ।चूडायां केकिचूडायां चूचुकेऽप्यग्रमात्रके ॥ १३६५ ॥
2.5.1365 · p. 159
अनुष्टुप्
अजयस्तु प्रधानेऽपि सज्जनोऽग्रेऽपि भूरुहः ।ना तु सर्पान्तरे सर्पसत्रयाजिफणाभृताम् (?) ॥ १३६६ ॥
2.5.1366 · p. 159
अनुष्टुप्
शिम्बो द्वे मृगजातौ स्याद् बीजकोश्यां तु सा स्त्रियाम् ।शिम्बा मुद्गादिसस्यानामथोचे शाकटायनः ॥ १३६७ ॥
2.5.1367 · p. 159
अनुष्टुप्
शिम्बी निष्पाववल्लीति शितं तु त्रिषु तेजिते ।ना तु बाणे शितिस्तु स्त्री तेजने ना तु वर्णयोः ॥ १३६८ ॥
2.5.1368 · p. 159
अनुष्टुप्
शुक्ले कृष्णेऽप्यृजौ वर्णद्वयैकवति तु त्रिषु ।शिरिर्द्वयोर्व्यालमृगे शृणातौ तु पुमानयम् ॥ १३६९ ॥
2.5.1369 · p. 159
अनुष्टुप्
शिशुः पुंस्यृषिभेदे च स्कन्दे च द्वे तु बालके ।शिग्रुर्भोजनशाके स्त्री ना तु शोभाञ्जनद्रुमे ॥ १३७० ॥
2.5.1370 · p. 159
अनुष्टुप्
श्लिकुर्न ना विषादे ना ज्योतिषेऽपि मृगास्थनि ।शिखी नाग्न्यंशुवृक्षेषु शरे केतुग्रहे द्विजे ॥ १३७१ ॥
2.5.1371 · p. 159
अनुष्टुप्
परिव्राजि तथा वृक्षविशेषेऽश्मन्तकाह्वये ।अथो शिखावति त्रि स्याद् द्वे कुक्कुटमयूरयोः ॥ १३७२ ॥
2.5.1372 · p. 160
अनुष्टुप्
शीलमस्त्री स्वभावेऽपि सद्वृत्तेऽप्यथ शीतवाक् ।क्लीबं जले च शैत्ये च त्रिस्तु तद्वति ना पुनः ॥ १३७३ ॥
2.5.1373 · p. 160
अनुष्टुप्
श्लेष्मातके वेतसे च शीघ्रो ना मारुते त्रिषु ।क्षिप्रे क्लीबं त्वसत्त्वे चेत्याहुरेकेऽथ शीरवाक् ॥ १३७४ ॥
2.5.1374 · p. 160
अनुष्टुप्
द्वयोरजगरे स्त्री तु शीरा कार्पासिकाह्वये ।स्तम्बे लताकुशे त्वेके शीरीत्याहुर्द्वयोः पुनः ॥ १३७५ ॥
2.5.1375 · p. 160
अनुष्टुप्
शीर्वी न्यङ्कौ कृमौ चाथ मद्ये शीथुर्नृशण्डयोः ।पक्वैरिक्षुरसैः सिद्धमद्यभेदेऽपि मन्वते ॥ १३७६ ॥
2.5.1376 · p. 160
अनुष्टुप्
श्रीमांस्तु पुंसि गोविन्दे कुबेरे गृहकेतुषु ।इट्चराख्यबलीवर्दे कदम्बतिलकाख्ययोः ॥ १३७७ ॥
2.5.1377 · p. 160
अनुष्टुप्
वृक्षयोर्गुग्गुलौ द्वे तु शुके लक्ष्मीवति त्रिषु ।शीवा त्वजगरे द्वे स्यात् सर्प इत्यपरे पुनः ॥ १३७८ ॥
2.5.1378 · p. 160
अनुष्टुप्
सृगाल इत्यथ शुभं क्ली जले मङ्गले तथा ।लग्नाच्च नवमे राशौ भेद्यलिङ्गं त्वतः परम् ॥ १३७९ ॥
2.5.1379 · p. 160
अनुष्टुप्
मञ्जुप्रशस्तयोश्चापि मङ्गलेन समन्विते ।अर्ध्यायां तु शुभा स्त्री स्याच्छुक्लस्त्वर्कसितत्वयोः ॥ १३८० ॥
2.5.1380 · p. 160
अनुष्टुप्
अध्वरे दक्षिणाग्नावप्यग्नौ चन्द्रे च भार्गवे ।ज्येष्ठमासे क्रतावंशौ यज्ञपात्रगृहान्तरे ॥ १३८१ ॥
2.5.1381 · p. 160
अनुष्टुप्
ना द्वे द्विजे शिशौ चाथ क्ली जने धनपुण्ययोः ।रेतस्यक्षिरुजाभेदे सामभेदे च काञ्चने ॥ १३८२ ॥
2.5.1382 · p. 160
अनुष्टुप्
त्रि तु मेध्ये सिते चाथ घर्मसर्जनरश्मिषु ।शतत्रये स्त्रियः शुक्राः शुक्रस्तु नरलिङ्गकः ॥ १३८३ ॥
2.5.1383 · p. 160
अनुष्टुप्
ज्योत्स्नापक्षे श्वेतवर्णे त्रि तु तद्वति नब्जले ।शुकस्तु कीरे द्वे क्ली तु स्थौणेयाह्वयभेषजे ॥ १३८४ ॥
2.5.1384 · p. 161
अनुष्टुप्
ना तु व्यासमुनेः पुत्रे रावणानुचरेऽप्यथ ।शुक्तं क्ली काञ्जिके कल्कजातावित्यपरे विदुः ॥ १३८५ ॥
2.5.1385 · p. 161
अनुष्टुप्
यन्मस्त्वादि शुचौ भाण्डे सक्षौद्रगुडकाञ्जिके ।त्रिरात्रं धान्यराशिस्थं तत्रापि त्रि तु पूतिताम् ॥ १३८६ ॥
2.5.1386 · p. 161
अनुष्टुप्
आपन्ने परुषेऽम्ले चं शुल्कं त्वस्त्री महीपतेः ।मार्गादिषु प्रदेयेऽर्थे विवाहाय वराद्धने ॥ १३८७ ॥
2.5.1387 · p. 161
अनुष्टुप्
ग्राह्ये शुष्मं तु नप् तोये संयोगबलयोरपि ।कश्चित्तु पुंसि सवितर्यपि मारुतकालयोः ॥ १३८८ ॥
2.5.1388 · p. 161
अनुष्टुप्
शुङ्गा त्रयी पल्लवस्य कोश्यां वृक्षस्य ना पुनः ।ऋषिभेदेऽमुना प्रोक्तमधीते वेत्ति वापि यः ॥ १३८९ ॥
2.5.1389 · p. 161
अनुष्टुप्
तत्राथ क्ली श्रुतं शास्त्रे श्रवणाख्ये च कर्मणि ।त्रिषु त्वाकर्णितेऽस्मात्तु वैजयन्त्यां पृथम् जगौ ॥ १३९० ॥
2.5.1390 · p. 161
अनुष्टुप्
आकर्णितादवधृते क्लीबं शुद्धस्तु ना रवौ ।त्रि तु पूते केवले च क्ली तु शुद्धौ जले त्रि तु ॥ १३९१ ॥
2.5.1391 · p. 161
अनुष्टुप्
शुभ्रं दीप्तिमति स्याच्च शुक्ले शौक्ल्ये तु पुंस्ययम् ।शुण्ठो ना तृणभेदे स्यात् पशौ पेश्यां च स त्रि तु ॥ १३९२ ॥
2.5.1392 · p. 161
अनुष्टुप्
अल्पे स्त्रीपुंसयोस्तु स्याच्छोषणे शुष्णवाक् तु ना ।अर्के कश्चित्तु रश्मौ च ब्रूते कुक्षिनिदाघयोः ॥ १३९३ ॥
2.5.1393 · p. 161
अनुष्टुप्
बले तु क्ली शुनस्तु द्वे शुनि वायौ तु ना नपि ।सुखेऽथ शुचिरीशाने सूर्ये चन्द्रेऽग्निशौक्ल्ययोः ॥ १३९४ ॥
2.5.1394 · p. 161
अनुष्टुप्
उपधाशुद्धसचिवे ग्रीष्मे चापाढमासि च ।त्रि तु शुद्धेऽनुपहते शुक्ले शुक्तिः पुनः स्त्रियाम् ॥ १३९५ ॥
2.5.1395 · p. 161
अनुष्टुप्
मुक्तास्फोटेऽङ्कोलदलसंज्ञभेषजवस्तुनि ।तिन्त्रिड्यां तिन्त्रिडीकायाः फले दुर्नामिकाह्वये ॥ १३९६ ॥
2.5.1396 · p. 162
अनुष्टुप्
जलजन्तौ च घोटानां रोमावर्तान्तरेऽपि च ।सज्जनस्त्वपठीदेनामुन्माने कर्षसंज्ञके ॥ १३९७ ॥
2.5.1397 · p. 162
अनुष्टुप्
वैजयन्त्यां तु कर्षाख्यमानस्य द्विगुणेऽपठीत् ।अक्षिरोगविशेषे च पुमांस्त्वृष्यन्तरे स्मृतः ॥ १३९८ ॥
2.5.1398 · p. 162
अनुष्टुप्
सखाय आनिषीदेति पञ्चवर्गस्य दर्शके ।शुभिस्तु नार्के यतिनि स्यादृषाविति कश्चन ॥ १३९९ ॥
2.5.1399 · p. 162
अनुष्टुप्
द्वे तु विप्रे सुन्दरे तु त्र्यथ स्त्री शोषणे शुषिः ।रन्ध्रे च ना तु धातौ स्याच्छुष्यतौ शुण्ठिवाक् तु ना ॥ १४०० ॥
2.5.1400 · p. 162
अनुष्टुप्
धातौ स्याच्छुण्ठतौ स्त्री तु नागरे शुन्ध्युवाक् तु ना ।सूर्येऽग्नावहनीत्यन्यः शकुनौ तु द्वयोरथ ॥ १४०१ ॥
2.5.1401 · p. 162
अनुष्टुप्
शुन्ध्यवोऽप्सु स्त्रियः शूरः पुनर्वीरे त्रिषु द्वयोः ।कुक्कुटे श्वेतशालौ तु पुमान् शूलं तु न स्त्रियाम् ॥ १४०२ ॥
2.5.1402 · p. 162
अनुष्टुप्
रुग्भेदे शस्त्रभेदे च शूद्रवाक् तु द्वयोरियम् ।तुर्यवर्णे सङ्करजेऽप्येतयोः पुनरर्थयोः ॥ १४०३ ॥
2.5.1403 · p. 162
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
स्त्र्यर्थे शूद्राथ पुंयोगे शूद्री स्त्री भूम्नि तु स्मृता ।धर्मोत्सर्गार्थरश्मीनां त्रिशत्याः प्रथमे शते ॥ १४०४ ॥
2.5.1404 · p. 162
अनुष्टुप्
शूद्राः स्त्री रश्मिषु क्ली तु रजते शूकवाक् पुनः ।अस्त्री धान्यस्य सूक्ष्माग्रे शुङ्गानुक्रोशयोरथ ॥ १४०५ ॥
2.5.1405 · p. 162
अनुष्टुप्
परिमाणान्तरे शूर्पमस्त्री द्रोणद्वयात्मके ।सज्जनः पुनराहैनमर्धप्रस्थे तथैव सः ॥ १४०६ ॥
2.5.1406 · p. 162
अनुष्टुप्
द्रोणाख्यपरिमाणस्य माने प्राह चतुर्गुणे ।प्रस्फोटनक्रियायां च साधने श्रूषवाक् तु नप् ॥ १४०७ ॥
2.5.1407 · p. 162
अनुष्टुप्
बले सुखे च श्रूषा तु शाकभेदे स्त्रियामियम् ।वैजयन्त्यां कासमर्दे स्माह शूली तु शङ्करे ॥ १४०८ ॥
2.5.1408 · p. 163
अनुष्टुप्
पुंसि शूलवति त्वेष त्रिषु शृङ्गस्तु न स्त्रियाम् ।विषाणे शैलशिखरे वररुच्यादयः पुनः ॥ १४०९ ॥
2.5.1409 · p. 163
अनुष्टुप्
सानौ क्रीडाम्बुयन्त्रे च प्रधानेऽन्यस्तु मन्यते ।प्राधान्येऽन्यः प्रभुत्वेऽथ जीवकाह्वयभेषजे ॥ १४१० ॥
2.5.1410 · p. 163
अनुष्टुप्
ना क्ली तु ज्वलिनि स्त्री तु शृङ्गी स्याद्भेषजान्तरे ।यस्य कर्कटशृङ्गीति संज्ञा यस्याह्वयो विषा ॥ १४११ ॥
2.5.1411 · p. 163
अनुष्टुप्
तत्रापि भेषजे मत्स्यविशेषेऽन्ये त्वभुत्सत ।मद्गराख्यस्य मत्स्यस्य प्रियायामित्यथो शृधूः ॥ १४१२ ॥
2.5.1412 · p. 163
अनुष्टुप्
गुदे स्त्री कृमिजातौ च ना तु स्याद्दानवान्तरे ।ख्याते बलिरिति स्यात्तु शृङ्गी ना वृषभाह्वये ॥ १४१३ ॥
2.5.1413 · p. 163
अनुष्टुप्
भेषजे वृषभेऽश्वे च यस्य शृङ्गपदे भवेत् ।मांसबुद्बुद उक्ता तु शृङ्गिणी सुरभौ स्त्रियाम् ॥ १४१४ ॥
2.5.1414 · p. 163
अनुष्टुप्
महिषे तु द्वयोः शृङ्गवति तु त्रिः पुमान् पुनः ।शेषोऽप्रधानेऽनन्ताख्यसर्पराजेऽथ शार्ङ्गिणः ॥ १४१५ ॥
2.5.1415 · p. 163
अनुष्टुप्
अवतारान्तरेऽपत्ये त्रिस्त्वन्यत्रोपयुक्ततः ।माल्याक्षतादिदाने तु स्त्री शेषा शेववाक् तु नप् ॥ १४१६ ॥
2.5.1416 · p. 163
अनुष्टुप्
सुखे धने च शेवा तु निद्राभेदे स्त्रियामियम् ।प्रचलासंज्ञके श्वेतस्त्वृषिभेदे नृलिङ्गकः ॥ १४१७ ॥
2.5.1417 · p. 163
अनुष्टुप्
कुलशैलान्तरे मेरोरुत्तरान्नीलपर्वतात् ।उत्तरे शुक्लवर्णे च स्यादथो त्रिषु तद्वति ॥ १४१८ ॥
2.5.1418 · p. 163
अनुष्टुप्
क्लीबं तु दध्नि रजतेऽप्यथ श्वेता सुरान्तरे ।पैष्टिकीसंज्ञके स्त्री स्यान्नदीभेदे लतान्तरे ॥ १४१९ ॥
2.5.1419 · p. 163
अनुष्टुप्
निरूपितः श्वेतशब्दः श्येतस्तु श्वेतवर्णके ।पुमांस्तद्वति तु त्रि स्यात् तत्रापि स्त्र्यर्थता यदा ॥ १४२० ॥
2.5.1420 · p. 163
अनुष्टुप्
तदा श्येता तथा श्येनी मृगे द्वे त्वपि पक्षिणि ।श्येनसंज्ञतृणप्राणिजात्योः स्यादेतयोर्यदा ॥ १४२१ ॥
2.5.1421 · p. 164
अनुष्टुप्
स्त्र्यर्थे वृत्तिस्तदा रूपं श्येतीत्येवाथ पुंस्ययम् ।श्येनः सामान्तरेषु स्यात् क्रतुभेदे जिघांसतः ॥ १४२२ ॥
2.5.1422 · p. 164
अनुष्टुप्
द्वे त्वश्वे पत्रिसंज्ञे च पक्षिभेदे स्त्रियां पुनः ।श्येना स्यात् प्राचिकासंज्ञपक्षिजातावथ द्वयोः ॥ १४२३ ॥
2.5.1423 · p. 164
अनुष्टुप्
शकुनावप्यजगरे श्येत्यः श्रेष्ठः पुनस्त्रिषु ।स्यात् प्रशस्यतमे क्ली तु ताम्रे श्रेणिस्तु नृस्त्रियोः ॥ १४२४ ॥
2.5.1424 · p. 164
अनुष्टुप्
समानजातीयानां स्याच्छिल्पिनां संहतावथ ।व्याचष्टेऽष्टादशगणविशेष इति शब्दवित् ॥ १४२५ ॥
2.5.1425 · p. 164
अनुष्टुप्
हर्षनन्दी तथा पङ्क्तौ धारायामपि नप् पुनः ।श्रेयः सामविशेषे स्याद् होइयेमानुकोद्भवे ॥ १४२६ ॥
2.5.1426 · p. 164
अनुष्टुप्
तथा मोक्षे च धर्मे च मङ्गले त्रि तु तद्वति ।स्यात् प्रशस्यतरे चाथ स्त्र्यर्थे वृत्तिर्यदा तदा ॥ १४२७ ॥
2.5.1427 · p. 164
अनुष्टुप्
एतयोरर्थयो रूपं श्रेयसीति स्त्रियां पुनः ।श्रेयसी हस्तिपिप्पल्यां स्यात् पथ्यापाठयोरपि ॥ १४२८ ॥
2.5.1428 · p. 164
अनुष्टुप्
शैलस्तु भूधरे पुंसि शिलासम्बन्धिनि त्रिषु ।वृत्तौ शीलभवायां स्त्री शैलीत्येवं प्रचक्षते ॥ १४२९ ॥
2.5.1429 · p. 164
अनुष्टुप्
शैखः पुनर्द्वयोर्मर्त्यजातिभेदे यदुद्भवः ।अनन्यपूर्वब्राह्मण्यां विप्रव्रात्यात् प्रकीर्तितः ॥ १४३० ॥
2.5.1430 · p. 164
अनुष्टुप्
शिखासम्बन्धिनि पुनस्त्रिरथो शोणवाङ् नरि ।हिरण्यबाहुसंज्ञे स्यान्नदभेदेऽपि पादपे ॥ १४३१ ॥
2.5.1431 · p. 164
अनुष्टुप्
टुण्डुसंज्ञे रक्तवर्णे त्रि तु तद्वति तत्र च ।स्त्र्यर्थे शोणी च शोणा च घोटभेदे तु स द्वयोः ॥ १४३२ ॥
2.5.1432 · p. 164
अनुष्टुप्
उक्तः कोकनदच्छाये शोकस्तु शुचि ना स्त्रियाम् ।शोकी रात्रावथो शौण्डः शुण्डासम्बन्धिनि त्रिषु ॥ १४३३ ॥
2.5.1433 · p. 165
अनुष्टुप्
मत्ते च कुक्कुटे च द्वे शौण्डी तु जलदावलौ ।पिप्पल्यां च स्त्रियां पट्कः पुनः पण्णां गणे त्रिषु ॥ १४३४ ॥
2.5.1434 · p. 165
अनुष्टुप्
विशेषात् काममदयोर्लोभहर्षरुषामपि ।मानस्य चेत्यमीषां ना षण्णां सङ्घेऽथ षड्ध्वनेः ॥ १४३५ ॥
2.5.1435 · p. 165
अनुष्टुप्
सम्भवत्सु समासेषु कशब्देन कृतेष्वदः ।तत्तत्समासप्राप्तं स्याल्लिङ्गमित्यवधार्यताम् ॥ १४३६ ॥
2.5.1436 · p. 165
अनुष्टुप्
षष्ठं तु पूरणे षण्णां त्रिः षष्ठी तु स्त्रियां तिथौ ।स्कान्द्यां षष्ठविभक्तौ च पार्वत्यां चाथ षण्डवाक् ॥ १४३७ ॥
2.5.1437 · p. 165
अनुष्टुप्
अस्त्री वृक्षसमूहे स्यात् पद्मादीनामितीतरे ।शाश्वतस्तु गवां पत्यौ पुंस्याह ष्ट्यूमवाक् पुनः ॥ १४३८ ॥
2.5.1438 · p. 165
अनुष्टुप्
कैश्चिदेवेष्यते नान्यैर्लिङ्गं तस्य पुमान् मतः ।चन्द्रे रश्मौ तथा तन्तौ मङ्गले चाथ नब्जले ॥ १४३९ ॥
2.5.1439 · p. 165
अनुष्टुप्
सत्त्वं स्वभावे सत्तायां द्रव्येऽन्तःकरणे बले ।पराक्रमे साङ्ख्यगुणे व्यवसायात्मभावयोः ॥ १४४० ॥
2.5.1440 · p. 165
अनुष्टुप्