कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

वान्ताः · वश्लोकः

॥ वश्लोकः ॥

शिवं भद्रं शिवः शम्भुः शिवो मुक्तिः… ।शिवः कीलः शिवो वेदो ग्रहयोगः शिवः स्मृतः ॥
28.3.1 · p. 208
अनुष्टुप्metre not read in every line
शिवा झटामला प्रोक्ता शिवा गौरी शिवाभया ।शिवा शमी शिवा क्रोष्ट्री भवेदामलकी शिवा ॥
28.3.2 · p. 209
अनुष्टुप्
सत्त्वं द्रव्ये स्वभावेऽपि पिशाचादौ गुणे रसे ।आयुधे व्यवसाये च वृद्धौ प्राणेषु जन्तुषु ॥
28.3.3 · p. 209
अनुष्टुप्
प्लवो भेके च चण्डाले प्लवनोडुपयोः प्लवः ।क्रमनिम्ने भुवो भागे पक्षिभेदे च मुस्तके ॥
28.3.4 · p. 209
अनुष्टुप्
भावः सत्ताभिप्राये च चेष्टाधात्वर्थयोनिषु ।क्रियालीलोपदेशेषु विभूतिबुधजन्मसु ॥
28.3.5 · p. 209
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भि (wrong syllable)
कविर्विद्वान्कविः शु[99]क्रः कविः काव्यकरः स्मृतः ।कविः स्मृतश्च वाल्मीकिः खलिने तु कविर्मता ॥
28.3.6 · p. 209
अनुष्टुप्
जीवा तु जीवितं जीवं जीवौ कर्णबृहस्पती ।जीवो वृक्षप्रभेदः स्याज्जीवा जीवन्तिकौषधी ॥
28.3.7 · p. 209
अनुष्टुप्
नीवीं ग्रन्थिं विदुर्नारीजघनस्य च वाससः ।धनं चोपचयाजीवैर्मूलं यस्य न हिंस्यते ॥
28.3.8 · p. 210
अनुष्टुप्
संभवं मेलकं विद्यादुत्पत्तिरपि संभवः ।आधारानतिरिक्तत्वमाधेयस्य च संभवः ॥
28.3.9 · p. 210
अनुष्टुप्
माधवौ विष्णुवैशाखौ वसन्तयादवावपि ।माधवी मदिरा प्रोक्ता माधवी चातिमुक्तके ॥
28.3.10 · p. 210
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)
वाडवं करणे स्त्रीणां बहुशिल्पकृतात्मनाम् ।वाडवं वडवासंघे वाडवो ब्राह्मणौर्वयोः ॥
28.3.11 · p. 210
अनुष्टुप्
प्रसवः कथितोऽपत्ये उत्पादे गर्भमोचने ।पुष्पं फलं च वृक्षाणां प्रसवं परिचक्षते ॥
28.3.12 · p. 210
अनुष्टुप्
प्रभवो जन्महेतुः स्यात्प्रभवो मूलमप्यपाम् ।प्रभवं केचिदिच्छन्ति स्थानमाद्योपलब्धये ॥
28.3.13 · p. 210
अनुष्टुप्