कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paramānandīyanāmamālā

परमानन्दीयनाममाला Paramānandīyanāmamālā

1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)

अनेकार्थसंग्रहः · भकारादयः

[ अथ ] भकारादयो यथा ।

भुजो मूल्ये करे बाहौ भानुः सूर्यदिनांशुषु ॥ ३२६ ॥
5.20.326 · p. 203
भगो ज्ञाने रवौ रूपप्रभावश्रीषु दृश्यते ।यत्ने पुण्ये यशोमुक्तिवीर्ययोनिषु शीतगौ ॥ ३२७ ॥
5.20.327 · p. 203
अनुष्टुप्
भेको भीरौ प्लवे मेघे भङ्गः कल्लोलदम्भयोः ।पराजये भृगुः सानौ शुक्रे मृत्युंजयेऽपि च ॥ ३२८ ॥
5.20.328 · p. 203
अनुष्टुप्
भोगः सर्पफणे सर्पदेहे वेश्याभृतौ सुखे ।राज्ये भाण्डं वणिग्मूलवित्ते मण्डनभूषयोः ॥ ३२९ ॥
5.20.329 · p. 203
अनुष्टुप्
भ्रमो भ्रान्तौ जलावर्ते भृङ्गो भ्रमरषिङ्गयोः ।भेदो विदारणे द्वैध उपजापविशेषयोः ॥ ३३० ॥
5.20.330 · p. 203
अनुष्टुप्
भवो रुद्रे च सत्तायां संसारे प्राप्तिजन्मनोः ।भावः सत्तास्वभावात्मकर्मचेष्टाशयेष्वथ ॥ ३३१ ॥
5.20.331 · p. 203
अनुष्टुप्
भद्रो गजान्तरे श्रेयोवृषयोर्मुनिरुद्रयोः ।भर्म भारे भृतौ स्वर्णे भोगी तालनृपाहिषु ॥ ३३२ ॥
5.20.332 · p. 203
अनुष्टुप्
भूरिस्तु पुष्कले हेम्नि भरुर्भर्मणि भर्तरि ।भीष्मो गंगासुते रुद्रे भीषणे सर्परक्षसोः ॥ ३३३ ॥
5.20.333 · p. 204
अनुष्टुप्
भूभृद्वरे गिद्रे शेषे भूतिर्लक्ष्म्यां च भस्मनि ।भीमो रौद्रे हरे भूपे भावाटः कामुके मुनौ ॥ ३३४ ॥
5.20.334 · p. 204
अनुष्टुप्
भूतीकं तु यवान्यां स्वाद्भूतृणे कटुलौषधे ।भ्रामकः फेरवे दुष्टे दृषद्भेदे रवेर्भ्रमे ॥ ३३५ ॥
5.20.335 · p. 204
अनुष्टुप्
भरतस्तु मुनौ भूपे भुवनं जललोकयोः ।भास्करः सूर्यवह्न्योः स्याद् भ्रमरः कामुकेऽप्यलौ ॥ ३३६ ॥
5.20.336 · p. 204
अनुष्टुप्
भारतं तु पुराणे स्याद् द्वीपभेदेऽपि सम्मतम् ।भागधेयं करे भाग्ये भोगवत्यपि सर्पपूः ॥ ३३७ ॥
5.20.337 · p. 204
अनुष्टुप्
भट्टारको मुनौ देवे भारद्वाजः खगान्तरे ।भौमस्तु मङ्गले दैत्ये मुष्कः सङ्घेऽण्डचौरयोः ॥ ३३८ ॥
5.20.338 · p. 204
अनुष्टुप्
मोघाथ पटलावृक्षे मोधं निष्फलदीनयोः ।मृगो नक्षत्रभेदे स्यात्कुरङ्गेऽथ मृगी स्त्रियाम् ॥ ३३९ ॥
5.20.339 · p. 204
अनुष्टुप्