भव
bhavaपुं · masc.In 20 kośas: 29 synonym verses, 12 as a nānārtha head word, 4 as a meaning of another word.
शंभुः शर्वः स्थाणुरीशान ईशो रुद्रोड्डीशौ वामदेवो वृषाङ्कः ।कण्ठेकालः शंकरो नीलकण्ठः श्रीकण्ठोग्रौ धूर्जटिर्भीमभर्गौ ॥ १९५ ॥मृत्युंजयः पञ्चमुखोऽष्टमूर्तिः श्मशानवेश्मा गिरिशो गिरीशः ।षण्ढः कपर्दीश्वर ऊर्ध्वलिङ्ग एकत्रिदृग्भालदृगेकपादः ॥ १९६ ॥मृडोऽट्टहासी घनवाहनोऽहिर्बुध्नो विरूपाक्षविषान्तकौ च ।महाव्रती वह्निहिरण्यरेताः शिवोऽस्थिधन्वा पुरुषास्थिमाली ॥ १९७ ॥स्याव्द्योमकेशः शिपिविष्टभैरवौ दिक्कृत्तिवासा भवनीललोहितौ ।सर्वज्ञनाट्यप्रियखण्डपर्शवो महापरा देवनटेश्वरा हरः ॥ १९८ ॥पशुप्रमथभूतोमापतिः पिङ्गजटेक्षणः ।पिनाकशूलखट्वाङ्गगङ्गाहीन्दुकपालभृत् ॥ १९९ ॥गजपूषपुरानङ्गकालान्धकमखासुहृत् ।
शालिनी
शम्भुपुंशर्वपुंस्थाणुपुंईशानपुंईशपुंरुद्रपुंउड्डीशपुंवामदेवपुंवृषाङ्कपुंकण्ठेकालपुंशंकरपुंनीलकण्ठपुंश्रीकण्ठपुंउग्रपुंधूर्जटिपुंभीमपुंभर्गपुंमृत्युंजयपुंपञ्चमुखपुंअष्टमूर्तिपुंश्मशानवेश्मन्पुंगिरिशपुंगिरीशपुंषण्ढपुंकपर्दिन्पुंईश्वरपुंऊर्ध्वलिङ्गपुंएकदृश्पुंत्रिदृश्पुंभालदृश्पुंएकपादपुंमृडपुंअट्टहासिन्पुंघनवाहनपुंअहिर्बुध्नपुंविरूपाक्षपुंविषान्तकपुंमहाव्रतिन्पुंवह्निरेतस्पुंहिरण्यरेतस्पुंशिवपुंअस्थिधन्वन्पुंपुरुषास्थिमालिन्पुंव्योमकेशपुंशिपिविष्ठपुंभैरवपुंदिग्वासस्पुंकृत्तिवासस्पुंभवपुंनीललोहितपुंसर्वज्ञपुंनाट्यप्रियपुंखण्डपर्शुपुंमहादेवपुंमहानटपुंमहेश्वरपुंहरपुंपशुपतिपुंप्रमथपतिपुंभूतपतिपुंउमापतिपुंपिङ्गजटपुंपिङ्गेक्षणपुंपिनाकभृत्पुंशूलभृत्पुंखट्वाङ्गभृत्पुंगङ्गाभृत्पुंअहिभृत्पुंइन्दुभृत्पुंकपालभृत्पुंगजासुहृद्पुंपूषासुहृद्पुंपुरासुहृद्पुंअनङ्गासुहृद्पुंकालासुहृद्पुंअन्धकासुहृद्पुंमखासुहृद्पुं
genderपुंmasc.
शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः ।ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः ॥ ३० ॥भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः ।मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ ३१ ॥उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् ।वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥ ३२ ॥कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः ।हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ॥ ३३ ॥गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः ।व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ।अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः ॥ ३४ ॥
अनुष्टुप्
शम्भुपुंईशपुंपशुपतिपुंशिवपुंशूलिन्पुंमहेश्वरपुंईश्वरपुंशर्वपुंईशानपुंशङ्करपुंचन्द्रशेखरपुंभूतेशपुंखण्डपरशुपुंगिरीशपुंगिरिशपुंमृडपुंमृत्युञ्जयपुंकृत्तिवासस्पुंपिनाकिन्पुंप्रमथाधिपपुंउग्रपुंकपर्दिन्पुंश्रीकण्ठपुंशितिकण्ठपुंकपालभृत्पुंवामदेवपुंमहादेवपुंविरूपाक्षपुंत्रिलोचनपुंकृशानुरेतस्पुंसर्वज्ञपुंधूर्जटिपुंनीललोहितपुंहरपुंस्मरहरपुंभर्गपुंत्र्यम्बकपुंत्रिपुरान्तकपुंगङ्गाधरपुंअन्धकरिपुपुंक्रतुध्वंसिन्पुंवृषध्वजपुंव्योमकेशपुंभवपुंभीमपुंस्थाणुपुंरुद्रपुंउमापतिपुंअहिर्बुध्न्यपुंअष्टमूर्तिपुंगजारिपुंमहानटपुं
genderपुंmasc.
ईशानः शशिशेखरः पशुपतिः शूली शिवः शङ्करः,शर्वः शम्भुरुमापतिश्च गिरिशः श्रीकण्ठ उग्रो हरः ।सर्वज्ञस्त्रिपुरान्तकस्त्रिनयनो रुद्रः कपर्दी भवो,भूतेशः परमेश्वरोऽन्धकरिपुर्दक्षाध्वरध्वंसकृत् ॥ ११ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
विष्णुः सुदर्शनः शंभुर्बन्धुर्भानुरितीर्यते ।सुग्रीवो मन्मथः स्वामी विष्णुपुत्रो भवः शिवः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
शिवैकादश रुद्राश्च सर्वेशाभवशंकरा ।यत्रेश्वरस्य नामानि तत्रैकादश कीर्तिताः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
एकादशं भवं लाभं प्राप्तिमापमुदाहृतम् ।अन्त्यं व्ययं द्वादशमं रिष्यं प्राहुर्मुनीश्वराः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
क्षुद्राप्रियो दीर्घपत्रः पतङ्गो वारवल्लभः ।चौरिकाक्षोऽप्यथ भवं भविष्यं भव्यभावने ॥ ९१ ॥
अनुष्टुप्
genderक्लीneut.
भवो बुद्धः कृतकरोऽक्षत उत्सर्वतोमुखः ।सुप्रसादो महाकालः स्थाणू रुद्रश्च भौतिकः ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
शमव्ययं भवः पुंसि द्रव्ये पापादिकं त्रिषु ।काले शुभोत्तरे तु स्यात् स्त्रियामायतिरित्यपि ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
जननं च प्रजननं जननिश्च जनिः स्त्रियौ ।उद्भवः सम्भवो भावो भवो जन्युश्च पुंस्यमी ॥ ९७ ॥
अनुष्टुप्
genderपुंmasc.
शिलाभवान्तिकदृशां सिध्मवल्कलयोरपि ।यकृन्मरिचनलदसौवीराणां तथाऽसृजः ॥ ७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रि (wrong syllable)
genderक्लीneut.
हेतुर्नाऽथ द्वयोर्योनिर्निदानं त्वादिकारणम् ।जन्यं कार्यं जन्म-जनुर्-जननान्युद्भवो भवः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
भवः संभवः कृत्तिवासाः पिनाकीमहाकाल-कालंजरौ वाहिर्बुध्न्यौ ।पुरारि-र्गजाराति-भीष्मैकपादःकटाटङ्कवद्-रेरिहा-[11a]णोऽस्थिभूषः ॥ ६८ ॥
metre not recognised
genderपुंmasc.
भवं भव्यं भविष्यं च भावनं तच्चतुर्विधम् ।कमरङ्गं कर्णफलं भावनं मुखशोधनम् ।रोमान्तकं रोमफलं भव्यं पिच्छिलबीजकम् ॥ १३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
genderक्लीneut.
ऊर्मिश्च ध्वनिश्च अञ्जलिश्च ऊर्म्मिध्वन्यञ्जलयः । एते शब्दाः पुंसि भवन्ति । अयमूर्म्मिस्तरङ्गः । अयं ध्वनिः शब्दः ।अयमञ्जलिः करपुटः । ओष्ठकपोलगुल्फसञ्ज्ञाश्च । सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । ओष्ठश्च कपोलश्च गुल्फश्च ओष्ठकपोलगुल्फाः । एतेषां सञ्ज्ञाः पर्यायास्ते पुंसि भवन्ति । अयमोष्ठः अधरः दन्तच्छदः । अयं कपोलः गण्ड इत्येवमादयः । अयं गुल्फः पादग्रन्थिः घुठः घूंठ इत्येवमादयः । घञ्च एरच्च ऋदोरप्च । "पदरुजवेगस्पृशो घञि"त्येवमादिना प्रकरणे घञो विहित इति । "येन विधिस्तदन्तस्ये"ति घञ्प्रत्ययान्ताः शब्दाः पुंसि भवन्ति । तद्यथा । पादः रोगः वेगः स्पर्शः पाकः त्यागः योगः प्रसादः भेदः छेदः दाहः दोषः प्रकारविकार इत्येवमादयः । "एरजि"ति । एरजीवर्णान्तादच्प्रत्ययः स्यात् । अयं जयः नयः । तथा "ऋदोरप्" । ऋवर्णान्तादुवर्णान्ताच्च धातोरप्प्रत्ययः स्यात् । तत्र ऋवर्णान्तात् । अयं करः वरः भरः शरः नरः । इत्येवमादयः । उवर्णान्तात् । अयं प्लवः पवः भवः इत्येवमादयः । घञन्तादन्धकारशब्दस्यापि नित्यं पुंस्त्वं स्यादित्याह । बहुलमन्धकारश्च । अन्धकारो बहुलं पुंलिङ्गे भवति । विभाषा भवतीत्यर्थः । इदं अन्धकारम् । अयं अन्धकारः । तथा चोक्तम् । "नेहागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयोऽपि न भवेत्प्रथमे प्रदोषे । अव्यक्तवस्तुपुरुषप्रतिबोधितेन पारावतेन पतता कृतमन्धकारम् ।"प्राण्यङ्गमिदन्तं वस्तिकुक्षिपाणीन्विमुच्य सर्वं स्त्री ।जङ्घा शिरा स्नुषा नासिका चूडा वसा चैव ॥ १७ ॥
वसन्ततिलकाmetre not read in every line
ऊर्मिपुंतरङ्गपुंध्वनिपुंशब्दपुंअञ्जलिपुंकरपुटपुंओष्ठपुंअधरपुंदन्तच्छदपुंकपोलपुंगण्डपुंगुल्फपुंपादग्रन्थिपुंघुठपुंघूंठपुंपादपुंरोगपुंवेगपुंस्पर्शपुंपाकपुंत्यागपुंयोगपुंप्रसादपुंभेदपुंछेदपुंदाहपुंदोषपुंप्रकारपुंविकारपुंजयपुंनयपुंकरपुंवरपुंभरपुंशरपुंनरपुंप्लवपुंपवपुंभवपुंअन्धकारपुंक्लीवस्तिपुंकुक्षिपुंपाणिपुंजङ्घास्त्रीशिरास्त्रीस्नुषास्त्रीनासिकास्त्रीचूडास्त्रीवसास्त्री
genderपुंmasc.
शम्भुस्वयम्भूकविता मेषनामाष्टलोचनः ।प्रधानी मुखजानिः स्यान्मेधावी नाभिभूर्भवः ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
चन्द्रो निशाकरः शौरिः कलशाब्धिभवो भवः ।भवावतंसः कमली वार्धिसूनं नपुंसकम् ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
उग्रः शूली कपाली च शिपिविष्टो भवो हरः ।उमापतिर्विरूपाक्षो विश्वरूपः कपर्द्यपि ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
भवो भावश्च संसारः संसरणं च संसृतिः ।तत्वज्ञश्चतुरो धीरस्त्यजेज्जन्माजवं जवम् ॥ १९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
genderपुंmasc.
नाट्यप्रियोऽस्थिधन्वापि हर्ता पिङ्गेक्षणः शिवः ।शिपिविष्टोऽपि सर्वज्ञभवौ पञ्चमुखोऽपि च ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
मृत्युंजयः पशुपतिः कृत्तिवासाः कपालभृत् ।वामदेवो भवो भर्गः पिनाकी वृषभध्वजः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
योगी जोटी च जोटीङ्गः भवो भूरिश्च भैरवः ।उग्रः कालः उलन्दश्च रेरिहाणो जटाधरः ॥ २४० ॥
अनुष्टुप्
genderपुंmasc.
गङ्गाधरो वामदेवः क्रतुध्वंसी महानटः ।लेलिहानो भवभीरुर्भीषणो भैरवो भवः ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 व (wrong syllable)
genderपुंmasc.
उद्भवः प्रभवो भावो भवः सम्भव इत्यपि ।जनूर्जनुः प्रजननं जन्म पर्याय ईरितः ॥
अनुष्टुप्
genderपुंmasc.
स्वदोषग्राहको म्रक्षो वागसङ्गोऽपि स स्मृतः ।स्वयं कृतानि पापानि चित्ते संस्थाप्य कथ्यते ॥काप्यकारः स विज्ञेयस्तथा काप्यकरोऽपि च ।संसारः स्यात् संसरणं भवश्च संसृतिः स्त्रियाम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderपुंmasc.
शंभुः शंकर ईश्वरः पशुपतिः शर्वः शिवस्त्र्यम्बकोभूतेशः परमेश्वरः पुररिपुः शूली हरो धूर्जटिः ।ईशानः शशिशेखरस्त्रिनयनो भीमः पिनाकी मृडोरुद्रः स्थाणुरुमापतिः स्मरहरो भर्गः कपर्दी भवः ॥ ४३ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
शर्वभवेशकपालिस्थाणुभगाजैकपादहिर्बुध्न्याः ।कृत्तिवसनः पिनाकी मृगलुब्धक इत्यमी रुद्राः ॥ ५० ॥
आर्या
genderपुंmasc.
महानन्दी शुको दण्डी सुग्रीवः कलहो भवः ।दण्डी भाषान्तकोऽजेशो (गर्गो) हंसः पक्षैश्चरो हली ॥
अनुष्टुप्
genderपुंmasc.
दुःखलोको भवश्चैव संसारः कष्टचारकः ।निर्वाणमन्तको मोक्षः शीतिभावः शमोऽमृतम् ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
कुञ्जरकरेऽपि शुण्डा ग्रावा शैले भवश्च संसारे ।बालेऽपि बालिशः स्यात्कलधौतं शातकुम्भेऽपि ॥ ८०६ ॥
आर्या
meaningsसंसार
भव as a meaning in nānārtha verses
- कोषकल्पतरु धुतफले च पर्याप्तगतं च षण्ढे त्रिषु प्रणीतेऽपि च हिंसिते च । धुतं भवे******* धूतं तथा भर्त्सितकम्पितार्थम् । पूतं पवित्रे बहुलीकृते च तोयेऽथ शास्त्रेऽवधृते श्रुतं स्यात् ॥ ५ ॥ Koṣakalpataru 6.16.5
- नानार्थार्णवसंक्षेप आग्रहायणकालयोरेतयोर्जाते भवे चा + + + + + । (आप)न्नसत्त्वा तु स्त्रीत्वे गर्भिण्यामथ स त्रिषु ॥ २९ ॥ Nānārthārṇavasaṃkṣepa 7.29
- शब्दरत्नावली पृथ्वीपीथः पुंसि भास्करेऽग्नौ सलिले तु न पुंसकम् । पृथुरग्नौ नृपे पुंसि निपुणे महति त्रिषु ॥ त्वक्पत्रीकृष्णजिराहिफेणेषु च भवे स्त्रियाम् । प्रोथोऽस्त्री वाजिघोणायां कटे ना पथिके त्रिषु ॥ Śabdaratnāvalī 7.17.4
- तन्त्राभिधान धसन्दर्शो मोहनो लज्जा वज्रतुण्डाधरो(रं) धरा । वामपादाङ्गुलेर्मूलं ज्येष्ठा सुरपुरं भवः ॥ ११५ ॥ Tantrābhidhāna 2.36.115