कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सुभद्रा

subhadrāस्त्री · fem.

In 9 kośas: 6 synonym verses, 7 as a meaning of another word.

कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.312 · p. 283
मङ्गलापि तपस्वीष्टा मेध्या दुरितपावनी ।सुभद्रा शङ्कुकलिका भद्रासक्तुफली शिवा ॥ ३१२ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.413 · p. 295
सुगन्धपत्रा सुरभिः सुभद्रा च सुपिङ्गला ।ज्योतिष्मती स्वर्णलता सरस्वत्यनलप्रभा ॥ ४१३ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.53 · p. 349
कृतमाला ताम्रपर्णी पुष्यभद्रोत्पलावती ।क्षमा जम्बूर्वेत्रवती सुभद्रा मन्दवाहिनी ॥ ५३ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.14 · p. 161
मङ्गल्यपुष्पी मङ्गल्या क्षीरपुष्पी मनोरमा ।रक्तपुष्पा सुभद्रासौ सर्पाक्षी सूक्ष्मपत्रिका ॥ १४ ॥
अनुष्टुप्
genderस्त्रीfem.
ई-स्त्रिमूर्त्तिर्महामाया लोलाक्षी वामलोचनम् ।गोविन्दः शेखरः पुष्टिः सुभद्रा रत्नसंज्ञकः ॥ १४ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.170 · p. 59
कूश्माण्डकः पुष्यफलः पीतपुष्पो नृपात्मजः ।महाफला शाकफला सुभद्रा शंकुलापि च ॥ १७० ॥
अनुष्टुप्
genderस्त्रीfem.

सुभद्रा as a meaning in nānārtha verses

  • धरणिकोश चित्राचित्रा मूषिकपर्णिका निगदिता चित्रा सुभद्रा स्मृता गोडुम्बापि च दन्तिकापि च तथा सर्पप्रभेदेऽपि सा । हस्तालम्भनतारका निगदिता चित्रा तथा शाम्बरी चित्रं कर्बुरमद्भुतं तु तिलकं चालेख्यमुत्कीर्तितम् ॥ Dharaṇikośa 26.3.4
  • कोषकल्पतरु चित्रभे तु द्वयोः स्त्री तु नदीविभेदे दन्तीसुभद्रासुरवारुणीषु । मायाखुपर्ण्योरपि चाप्सरःसु चैत्रं तु चैत्ये मृतकस्य दिष्टम् ॥ २९ ॥ Koṣakalpataru 6.27.29
  • नानार्थार्णवसंक्षेप चित्रागोदुम्बाख्यलताजातौ सुभद्राधुनिभेदयोः । वेदशालिमुखे चापि नक्षत्रे चन्द्रदैवते ॥ ४१९ ॥ Nānārthārṇavasaṃkṣepa 2.5.419
  • परमानन्दीयनाममाला चित्राशस्त्रे दम्भान्तरे दुष्टे चित्रा दन्तीसुभद्रयोः । दिव्यस्त्रियां च नक्षत्रमेदे चित्रमथाद्भुते ॥ १७७ ॥ Paramānandīyanāmamālā 5.11.177
  • शब्दरत्नावली चित्राकुम्भकारोपकरणे क्लीबं ना चक्रवाकके । चारो गतौ पियालद्रुबन्धापसर्पणेषु च ॥ चित्रा नक्षत्र गोडुम्बा नदी भिद्दन्तिकासु च । मायासर्पाखुपर्णीषु नाडीसुभद्रयोः स्त्रियाम् ॥ आलेख्यतिलकाश्चर्यकर्बुरेषु च न द्वयोः । चीरं वस्त्रान्तरे रेखागोस्तनलेखनेषु च ॥ Śabdaratnāvalī 7.27.11
  • त्रिकाण्डशेष चित्राकर्ब्बुरे तिलके चित्रं सुभद्रातारयोः स्त्रियाम् । चन्द्रः शशिनि कर्पूरे चारो बन्धापसर्पयोः ॥ ३४९ ॥ Trikāṇḍaśeṣa 3.3.349
  • वैजयन्ती चित्राघनाः कठिनसंघातमेघकाठिन्यमुद्गराः । चित्रा सुभद्रा तारा च चित्रमालेख्यमिश्रयोः ॥ ३० ॥ Vaijayantī 6.5.30