कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

द्व्यक्षरकाण्डः · नानालिङ्गाध्यायः (4/14)

एष्वर्थेषु यदा स्त्र्यर्थस्तदा गुर्वीति वा गुरुः ।गृहाः पुंभूम्नि निलये भार्यायां चैतयोः पुनः ॥ ३६१ ॥
2.5.361 · p. 73
अनुष्टुप्
गृहं क्लीबेऽपि नप्त्वेव मेषप्रभृतिराशिषु ।विशेषाल्लग्नतस्तुर्ये राशौ साव्वँत्सरा विदुः ॥ ३६२ ॥
2.5.362 · p. 73
अनुष्टुप्
औपासनाग्नौ शैलेयेऽप्यथ गृह्यं नपुंसके ।स्मार्तकर्मविधिग्रन्थभेदे त्रिस्त्वस्वतन्त्रके ॥ ३६३ ॥
2.5.363 · p. 73
अनुष्टुप्
पक्ष्ये च गृहसक्तेषु मृगपक्षिषु चाथ ना ।औपासनाग्नौ गृह्या तु स्त्रीलिङ्गार्थे बहिर्भवेत् ॥ ३६४ ॥
2.5.364 · p. 74
अनुष्टुप्
स्त्रियामथ द्वयोर्गृत्सः शुनि च ब्राह्मणेऽपि च ।त्रि तु मेधाविनि गृधुध्वनिस्तु पशुषु द्वयोः ॥ ३६५ ॥
2.5.365 · p. 74
अनुष्टुप्
नाभिलाषे गृही तु त्रिर्गृहवत्यथ स द्वयोः ।गृहस्थे कीटभेदे तु गृहिणी स्त्री यदाह्वयः ॥ ३६६ ॥
2.5.366 · p. 74
अनुष्टुप्
गृहकारीत्यथो गेयं क्ली गाने गातरि त्रिषु ।गातव्येऽप्यथ गेष्णो ना साममात्रे तनोरपि ॥ ३६७ ॥
2.5.367 · p. 74
अनुष्टुप्
अङ्गयोरुभयोः स्यात् तु त्रिषु रङ्गोपजीविनि ।गोत्रो ना भूधरे मेघे क्ली तु नाम्नि कुले बले ॥ ३६८ ॥
2.5.368 · p. 74
अनुष्टुप्
कुत्सितार्थे च गोत्रा तु स्त्री भूमौ गोगणे त्रि तु ।गोत्रातर्यथ गोपस्त्रिर्गोपाले ना तु गोपने ॥ ३६९ ॥
2.5.369 · p. 74
अनुष्टुप्
गोष्ठाध्यक्षे बहूनां च ग्रामाणामधिकारिणि ।शारिबायां तु गोपी स्त्री द्वे मनुष्येऽथ गोप्यवाक् ॥ ३७० ॥
2.5.370 · p. 74
अनुष्टुप्
त्रिषु रक्ष्ये गूहनीये द्वे तु स्याद्दाससूनुषु ।गोला तु गोदावर्याख्यनदीभेदे स्त्रियामियम् ॥ ३७१ ॥
2.5.371 · p. 74
अनुष्टुप्
नैपाल्यां बालरमणकाष्ठेऽप्यथ नपुंसकम् ।काञ्जिके ना तु पिण्डेऽथ गोधा प्राण्यन्तरे स्त्रियाम् ॥ ३७२ ॥
2.5.372 · p. 74
अनुष्टुप्
निहाकासंज्ञकेऽथो नप् स्त्री च हस्तघ्नसंज्ञके ।ज्याघातवारणे गोदः पुनर्गोदातरि त्रिषु ॥ ३७३ ॥
2.5.373 · p. 74
अनुष्टुप्
ना क्रीडायां मतौ गोदौ ह्रदभेदौ कयोरपि ।ग्रामे तु तत्समीपस्थे गोदौ नित्यं द्वितायुतौ ॥ ३७४ ॥
2.5.374 · p. 74
अनुष्टुप्
गोदा तु गोदावर्यां स्त्री गोष्ठः सामान्तरे पुमान् ।गोस्थाने तु नृशण्डोऽथ गोष्ठी तु सदसि स्त्रियाम् ॥ ३७५ ॥
2.5.375 · p. 74
अनुष्टुप्
गोमान् गोस्वामिनि त्रि स्यान्नदीभेदे तु गोमती ।गोधुक् तु पुंसि मेरौ त्रिर्गोपाले गोश्च दोग्धरि ॥ ३७६ ॥
2.5.376 · p. 75
अनुष्टुप्
गौरस्तु ना विरिञ्चे द्वे धववृक्षेऽसनद्रुमे ।शुक्लपीतारुणगुणेष्वेतद्युक्तेषु तु त्रिषु ॥ ३७७ ॥
2.5.377 · p. 75
अनुष्टुप्
अयजस्त्वाह शुद्धेऽपि स चैको लक्ष्यवेदिनाम् ।क्लीबमत्रोक्तविटपिद्वयस्य फलपुष्पयोः ॥ ३७८ ॥
2.5.378 · p. 75
अनुष्टुप्
उशीरे च द्वयोस्तु स्यान्मृगभेदेऽथ सा स्त्रियाम् ।गौरी शिवासरस्वत्योः प्रियायां वरुणस्य च ॥ ३७९ ॥
2.5.379 · p. 75
अनुष्टुप्
अर्हत्तीर्थकराणां तु याः स्युः शासनदेवताः ।तासामन्यतमायां च कथयामास सज्जनः ॥ ३८० ॥
2.5.380 · p. 75
अनुष्टुप्
अजातार्तवकन्यायां तीक्ष्णार्जकहरिद्रयोः ।घनो ना मुस्तके मेघे सङ्घाते लोहमुद्गरे ॥ ३८१ ॥
2.5.381 · p. 75
अनुष्टुप्
मुद्गरेऽन्येऽपि काठिन्ये कफगन्धेऽभ्रके तथा ।भिक्षायाः परिमाणे च हन्तकारद्वयात्मके ॥ ३८२ ॥
2.5.382 · p. 75
अनुष्टुप्
विस्तारे कठिने तु त्रिर्विपुले मूर्तसान्द्रयोः ।कफस्थगन्धयुक्ते च क्ली तु वाद्यान्तरे मुखे ॥ ३८३ ॥
2.5.383 · p. 75
अनुष्टुप्
वाद्यवृत्तिप्रभेदे च लोहे तमरकाह्वये ।घटा स्त्री घटने गोष्ठ्यां हस्तिसङ्घटनेऽपि च ॥ ३८४ ॥
2.5.384 · p. 75
अनुष्टुप्
वृन्दमात्रे परे दोहपात्रभेदे तु सा घटी ।तैलादिभाजने स्वल्पकाले नाडिद्वयात्मके ॥ ३८५ ॥
2.5.385 · p. 75
अनुष्टुप्
मुहूर्ताख्येऽथ ना कुम्भराशौ द्रोणाख्यमानके ।नृस्त्रियोस्तु घटी कुम्भे घ्राणा तु स्त्रीनपुंसकम् ॥ ३८६ ॥
2.5.386 · p. 75
अनुष्टुप्
नासायां स्यात् त्रिराघ्राते घ्रातौ तु नपि ना पुनः ।घासिर्युद्धे हुताशे च गर्ताग्नाविति केचन ॥ ३८७ ॥
2.5.387 · p. 75
अनुष्टुप्
त्रि तु बह्वाशिनि घृतं त्वाज्ये तोये च नप् परे ।पुंस्यप्याहुर्घृणिस्तु स्यान्ना स्त्रियामपि केचन ॥ ३८८ ॥
2.5.388 · p. 76
अनुष्टुप्
रश्मौ ज्वाले निदाघेऽह्नि वीच्यां घोणा तु सा स्त्रियाम् ।नासिकायां हयप्रोथे जलस्योपरि गत्वरे ॥ ३८९ ॥
2.5.389 · p. 76
अनुष्टुप्
कुम्भीरमक्षिकासंज्ञे क्षुद्रजन्तावथो नरि ।इत्वरे घूर्णने चाथ घोरस्त्रिषु भयानके ॥ ३९० ॥
2.5.390 · p. 76
अनुष्टुप्
कष्ट इत्यपरे द्वे तु सृगाले क्ली तु कुङ्कुमे ।घोलस्तु ना कपाले स्यात् क्ली दण्डाहतके तु सः ॥ ३९१ ॥
2.5.391 · p. 76
अनुष्टुप्
मर्त्यजात्यन्तरे वैश्यघर्घरीजे द्वयोरथ ।घोष आभीरपल्लौ ना शब्दे वाचि स्वरे परे ॥ ३९२ ॥
2.5.392 · p. 76
अनुष्टुप्
ब्रह्मवालुकसंज्ञे च विषभदे लतान्तरे ।कोशातक्याह्वये शब्दवर्णधर्मेऽप्यथास्त्रियाम् ॥ ३९३ ॥
2.5.393 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भ (wrong syllable)
कंसाख्यलोहे चन्द्रस्तु ना कर्पूरशशाङ्कयोः ।कम्पिल्लाख्यद्रुमे बर्हिमेचकेऽप्यजयोऽब्रवीत् ॥ ३९४ ॥
2.5.394 · p. 76
अनुष्टुप्
सुन्दरे तु त्रिषु ज्ञेयं क्ली त्वारण्यकसामनि ।अत्र हेत्यृक्समुद्भूते कुमुदे रजतेऽप्यथ ॥ ३९५ ॥
2.5.395 · p. 76
अनुष्टुप्
नृशण्डः कनके स्त्री तु चन्द्रार्घ्यायामथ स्त्रियाम् ।पूष्णो रश्मिसहस्रस्य शतानि त्रीणि रश्मयः ॥ ३९६ ॥
2.5.396 · p. 76
अनुष्टुप्
हिमोत्सर्गाय कथितास्तेषु चक्रं तु नप्यदः ।पुंस्यप्येके रथाङ्गे च संसारे सैन्यराष्ट्रयोः ॥ ३९७ ॥
2.5.397 · p. 76
अनुष्टुप्
जलावर्ते चये वृत्ते मण्डले धनलोहयोः ।काव्यालङ्कारभेदे च विषमे माक्षिकेऽपि च ॥ ३९८ ॥
2.5.398 · p. 76
अनुष्टुप्
दद्रुसंज्ञव्याधिभेदे व्यूहदम्भप्रभेदयोः ।धर्मचक्रादिके शस्त्रभेदे च द्वे तु पक्षिणि ॥ ३९९ ॥
2.5.399 · p. 76
अनुष्टुप्
चक्रवाकाह्वयेऽथ स्त्री चर्चा चर्चिक्यचिन्तयोः ।मार्जारकर्णिकासंज्ञदेव्यां मार्ष्टौ तु कश्चन ॥ ४०० ॥
2.5.400 · p. 77
अनुष्टुप्
स्यात् पुंश्चल्यां च पार्वत्याः पुनर्नामसु सज्जनः ।चर्चिकेत्याह चर्चस्तु राजराजस्य पुंस्ययम् ॥ ४०१ ॥
2.5.401 · p. 77
अनुष्टुप्
नवानां निधिभेदानामेकस्मिन्निति निश्चितः ।चण्डा स्त्रियां स्याद्दुष्पुत्रसमाख्ये भेषजान्तरे ॥ ४०२ ॥
2.5.402 · p. 77
अनुष्टुप्
स्त्र्येव चण्डी तु दुर्गायां त्रिषु त्वत्यन्तकोपने ।चम्पा स्त्री नगरीभेदे वृक्षभेदे तु पुंस्ययम् ॥ ४०३ ॥
2.5.403 · p. 77
अनुष्टुप्
चको ना सर्पसत्रस्य सर्पभेदेऽपि यष्टरि ।व्यथने चिक्कणे तु स्यात् क्लीबं पूगतरोः फले ॥ ४०४ ॥
2.5.404 · p. 77
अनुष्टुप्
चरं चराचरे त्रिर्ना चारे स्त्री युवतौ चरी ।चलं चलाचले त्रिर्ना तुरुष्क इति विश्रुते ॥ ४०५ ॥
2.5.405 · p. 77
अनुष्टुप्
निर्यासभेदे वायौ च पुंश्चल्यां तु चला स्त्रियाम् ।विद्युत्यथ चरिर्वायौ चरतौ ना पशौ द्वयोः ॥ ४०६ ॥
2.5.406 · p. 77
अनुष्टुप्
चरणाख्यक्रियायां स्त्री यवसेऽप्यथ चाटुनि ।चटुः स्त्रीशण्डयोः पुंसि त्वयं पशुपिचण्डके ॥ ४०७ ॥
2.5.407 · p. 77
अनुष्टुप्
चपले तु त्रिषु स्त्री तु चञ्चुस्त्रोटौ पतत्त्रिणः ।एरण्डे नाथ चर्मी ना भूर्जद्रौ शङ्करस्य च ॥ ४०८ ॥
2.5.408 · p. 77
अनुष्टुप्
भृत्ये भृङ्गिरिटाभिख्ये स तु चर्मवति त्रिषु ।तथा फलकपाणौ च चक्री तु नरि केशवे ॥ ४०९ ॥
2.5.409 · p. 77
अनुष्टुप्
द्वे कुलाले गृहस्थे च तौलिके भुजगेऽपि च ।त्रि तु स्याच्चक्रवन्मात्रे चारस्तु स्यान्नरि स्पशे ॥ ४१० ॥
2.5.410 · p. 77
अनुष्टुप्
बन्धे प्रियालवृक्षेऽथ तत्फले क्लीबमङ्गणे ।चारी तु स्त्री नाट्यनान्द्यां गयाम्रस्य च सेचने ॥ ४११ ॥
2.5.411 · p. 77
अनुष्टुप्
आर्योपजीविभेदे तु चाटौ ना चटनेऽपि च ।मिश्रवर्णे कृष्णहरित्सिते तद्वति तु त्रिषु ॥ ४१२ ॥
2.5.412 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कृ (wrong syllable)
चान्द्री स्त्री पौर्णमास्यां स्याच्चन्द्रसम्बन्धिनि त्रिषु ।चारुर्बृहस्पतौ पुंसि चन्द्रिकायां तु सा स्त्रियाम् ॥ ४१३ ॥
2.5.413 · p. 78
अनुष्टुप्
ऊहापोहक्षमायां च बुद्धौ चार्वी त्रिषु त्वयम् ।सुन्दरे चित्रवाक्ये च चाटुस्तु स्त्रीनपुंसकम् ॥ ४१४ ॥
2.5.414 · p. 78
अनुष्टुप्
राजादिस्तुतिवाक्ये ना त्वयं पशुपिचण्डके ।दर्व्यग्रे केचन प्राहुर्दर्व्यां त्वेवाह सज्जनः ॥ ४१५ ॥
2.5.415 · p. 78
अनुष्टुप्
चित्रं नपुंसकं पुण्ड्रे स्यादालेख्येऽप्यथ त्रिषु ।आश्चर्ये कर्बुराभिख्यवर्णयुक्तेऽप्यथो पुमान् ॥ ४१६ ॥
2.5.416 · p. 78
अनुष्टुप्
देवतानुक्रमे प्रोक्त आखुराजे चिरन्तने ।कर्बुराख्यगुणेऽथ स्त्री चित्रा हेमन्तरात्रिषु ॥ ४१७ ॥
2.5.417 · p. 78
अनुष्टुप्
पशुकामेष्टिभेदे च विश्रुते श्रुतिशालिनाम् ।कृष्णत्रिवृल्लताभेदे न्यग्रोधीसंज्ञभूरुहे ॥ ४१८ ॥
2.5.418 · p. 78
अनुष्टुप्
गोदुम्बाख्यलताजातौ सुभद्राधुनिभेदयोः ।वेदशालिमुखे चापि नक्षत्रे चन्द्रदैवते ॥ ४१९ ॥
2.5.419 · p. 78
अनुष्टुप्
तद्युक्ते कालमात्रेऽन्ये तत्कालोत्पन्नयोषिति ।द्वयोस्तु पाठीनाभिख्यमत्स्यभेदेऽथ चिल्लवाक् ॥ ४२० ॥
2.5.420 · p. 78
अनुष्टुप्
क्लिन्नेऽक्ष्णि च त्रिः क्लिन्नाक्षेऽप्यथ द्वे विहगान्तरे ।आतापिसंज्ञेऽथो चिल्ली शाकजात्यन्तरे स्त्रियाम् ॥ ४२१ ॥
2.5.421 · p. 78
अनुष्टुप्
मारिषाख्ये तथाङ्गे च भ्रूसंज्ञेऽथ चिता स्त्रियाम् ।चित्यायां क्ली तु चयने चितेस्तु त्रिषु कर्मणि ॥ ४२२ ॥
2.5.422 · p. 78
अनुष्टुप्
चितिस्तु स्त्री समूहे स्याच्चितायां चयनेऽपि च ।ज्ञाने च चेततौ त्वेष धातौ स्यान्नरलिङ्गकः ॥ ४२३ ॥
2.5.423 · p. 79
अनुष्टुप्
चीनो ना पीतमुद्गे स्याद् काककङ्गद्रुमान्तरे ।मदनाख्ये तथोदीच्यनीवृद्भेदे तु भूम्नि च ॥ ४२४ ॥
2.5.424 · p. 79
अनुष्टुप्
तद्देशराजेषु पुनर्मृगयोश्चापि पुंस्त्रियोः ।व्यवस्थयाथ मृगयोर्लक्षणं चैवमभ्यधुः ॥ ४२५ ॥
2.5.425 · p. 79
अनुष्टुप्
ताम्रवर्णो मृगो यः स हरिणः स्यात् स एव यः ।सितक्रोडः स चीनः स्यादित्येकः प्रोक्तलक्षणः ॥ ४२६ ॥
2.5.426 · p. 79
अनुष्टुप्
अन्यः कपोतवर्णो यस्त्रिंशदङ्गुलमानकः ।इत्यङ्कितोऽथ मदनफले क्लीबमयस्यपि ॥ ४२७ ॥
2.5.427 · p. 79
अनुष्टुप्
चीरं क्लीच्छिद्रवस्त्रे च वल्कले च स्त्रियां त्वसौ ।झिल्लिकासंज्ञकीटे स्याच्चीरी चुक्रस्तु ना रसे ॥ ४२८ ॥
2.5.428 · p. 79
अनुष्टुप्
अम्लाख्ये बीजपूरेऽम्लवेतसे च निमन्त्रणे ।गुञ्जिकायां द्वयोस्तु स्यात् सुन्दरेऽथ नपुंसकम् ॥ ४२९ ॥
2.5.429 · p. 79
अनुष्टुप्
यन्मस्त्वादिशुचौ भाण्डे सक्षौद्रगुडकाञ्जिके ।त्रिरात्रं धान्यराशिस्थं तत्र चिञ्चाफलेऽपि च ॥ ४३० ॥
2.5.430 · p. 79
अनुष्टुप्
त्रिस्त्वम्लरससंयुक्ते चाङ्गेर्यां तु स्त्रियामियम् ।चुम्रशब्दः पुमान्नाशे विषण्णे तु त्रिषु स्मृतः ॥ ४३१ ॥
2.5.431 · p. 79
अनुष्टुप्
च्युतिः स्त्री च्यवने योनौ वायौ च च्योततौ तु ना ।चूषा गजवरत्रायां स्त्री स्त्रीशण्डस्तु चूषणे ॥ ४३२ ॥
2.5.432 · p. 79
अनुष्टुप्
चूर्णमस्त्री वासयोगे धूलौ क्षारान्तरे त्रि तु ।दग्धेऽथ चूर्णिः स्त्रीलिङ्गा ग्रन्थभेदे कपर्दके ॥ ४३३ ॥
2.5.433 · p. 79
अनुष्टुप्
ना तु चूर्णयतौ द्वे तु चूचुर्जात्यन्तरे नृणाम् ।किरात्यां शम्बराज्जाते वैदेहादिति केचन ॥ ४३४ ॥
2.5.434 · p. 79
अनुष्टुप्
पुल्कसादपरे क्ली तु चेलं वस्त्रेऽधमे त्रिषु ।चैत्रः पुंसि वसन्तस्य प्रथमे मास्यथ स्त्रियाम् ॥ ४३५ ॥
2.5.435 · p. 80
अनुष्टुप्
तत्स्थायां पौर्णमास्यां स्याच्चैत्री भेत्ता तु चित्रया ।नक्षत्रेण युते कालभेदे चित्राह्वये पुनः ॥ ४३६ ॥
2.5.436 · p. 80
अनुष्टुप्
काले जाते च स यदि स्यादस्त्र्यर्थस्ततश्च सः ।पारिशेष्याद्यथायोगं विज्ञेयो नपि पुंसि वा ॥ ४३७ ॥
2.5.437 · p. 80
अनुष्टुप्
चैत्यं चिताङ्गे बुद्धाण्डे याज्ञिकाज्याधिवासने ।देवालये च क्लीबं स्यादुद्देशद्रौ तु केचन ॥ ४३८ ॥
2.5.438 · p. 80
अनुष्टुप्
पुंस्यप्याहुरथो चैद्याश्चेदिनीवृति केचन ।पुंभूम्नीत्याहुरेष द्वे चेदिराजस्य पुत्रयोः ॥ ४३९ ॥
2.5.439 · p. 80
अनुष्टुप्
चोलस्तु पुंसि कूर्पासे करमर्दाख्यपादपे ।तत्फले क्ली दाक्षिणात्ये नीवृद्भेदे नृभूमनि ॥ ४४० ॥
2.5.440 · p. 80
अनुष्टुप्
तद्राजे नास्य सन्ताने द्वयोर्जानपदेषु च ।गृहच्छदिःषु न स्त्री स्याच्चोक्षस्तु त्रिषु सुन्दरे ॥ ४४१ ॥
2.5.441 · p. 80
अनुष्टुप्
गीतभेदे तु नाथ स्याच्चूडाकरणकर्मणि ।चौलं क्ली त्रि तु चोलस्य विकारादावथो नपि ॥ ४४२ ॥
2.5.442 · p. 80
अनुष्टुप्
पुंस्यप्येके छत्रमुष्णवारणे स्त्री तु भेषजे ।मिसिसंज्ञे द्रोणिकाख्यस्तम्बे कुस्तुम्बुरुण्यपि ॥ ४४३ ॥
2.5.443 · p. 80
अनुष्टुप्
छत्रा छात्रस्तु शिष्ये ना मधुभेदे नपुंसकम् ।छागो ना करुणाभिख्यपादपे छगले द्वयोः ॥ ४४४ ॥
2.5.444 · p. 80
अनुष्टुप्
छिद्रं रन्ध्रेऽपराधे च दूषणे त्वजयोऽब्रवीत् ।एतेषु क्लीबलिङ्गं स्यात् त्रिषु तुच्छिद्रवत्यदः ॥ ४४५ ॥
2.5.445 · p. 80
अनुष्टुप्
छिन्नं (व्रणे ? वृक्णे) त्रिषु क्ली तु निश्शरे दध्नि सा पुनः ।छिन्ना गुलूच्यां स्त्री छेकः पुनर्ना मृगपक्षिषु ॥ ४४६ ॥
2.5.446 · p. 80
अनुष्टुप्metre not read in every line
गृहासक्तेषु वैदग्ध्ययुक्ते तु त्रिषु स स्मृतः ।जयस्तु पीतमुद्गे ना नान्दीवृक्षे पुरन्दरे ॥ ४४७ ॥
2.5.447 · p. 81
अनुष्टुप्
पुरन्दरसुते जित्यां होमभेदेषु केषुचित् ।दुर्गायां तु जया स्त्री स्याद् पार्वत्यां त्वजयोऽब्रवीत् ॥ ४४८ ॥
2.5.448 · p. 81
अनुष्टुप्
अन्यत्रापि क्वचिद्देवीविशेषेष्वपि दृश्यते ।अर्हत्तीर्थकराणां तु याः स्युः शासनदेवताः ॥ ४४९ ॥
2.5.449 · p. 81
अनुष्टुप्
तासामन्यतमायां च कथयामास सज्जनः ।जयस्य हेतुभूतायां विद्यायामपि कुत्रचित् ॥ ४५० ॥
2.5.450 · p. 81
अनुष्टुप्
तृतीयायां तथाष्टम्यां त्रयोदश्यां तिथिष्वपि ।शमीद्रुमे हरीतक्यामग्निमन्थाख्यपादपे ॥ ४५१ ॥
2.5.451 · p. 81
अनुष्टुप्
वचाजीरकतर्कारीष्वथ स्तम्बान्तरे जपा ।रक्तपुष्पे जपाख्येऽथो उपांशूच्चारणे पुमान् ॥ ४५२ ॥
2.5.452 · p. 81
अनुष्टुप्
शब्दस्याथ जवः पुंसि वेगे त्रिषु तु तद्वति ।जवा तु स्त्री रक्तपुष्पस्तम्बभेदे जपाह्वये ॥ ४५३ ॥
2.5.453 · p. 81
अनुष्टुप्
जन्योऽपवादे नात्रार्थेऽमरदत्तोऽब्रवीन्नपि ।जनवादे तु पुंस्येनं सिंहः क्लीबेऽजयोऽपठत् ॥ ४५४ ॥
2.5.454 · p. 81
अनुष्टुप्
क्ली युद्धे जनितव्ये च त्रि तूत्पादयितव्यके ।जनितर्यपि जामातुः स्निग्धेषु ज्ञातयस्तु ये ॥ ४५५ ॥
2.5.455 · p. 81
अनुष्टुप्
भृत्याश्चापि नवोढायास्तेषु चान्ये तु केचन ।विगीतेऽपि द्वयोस्त्वेष मातृवाहककीटके ॥ ४५६ ॥
2.5.456 · p. 81
अनुष्टुप्
जम्भस्तु दंष्ट्रापार्श्वस्थदन्ते ना भुक्तिपादयोः ।दैत्यभेदे च जम्बीरतरौ क्लीबं तु तत्फले ॥ ४५७ ॥
2.5.457 · p. 81
अनुष्टुप्
विदारणे तु वक्त्रस्य जम्भा स्त्री स्त्री पुनर्जटा ।केशसन्दर्भभेदे च मांसीसंज्ञौषधान्तरे ॥ ४५८ ॥
2.5.458 · p. 82
अनुष्टुप्
तरोः शिफायां च जटीं त्वीकारान्तं प्रचक्षते ।द्रोणाख्यपरिमाणस्य चत्वारिंशत्यथ त्रिषु ॥ ४५९ ॥
2.5.459 · p. 82
अनुष्टुप्
जटो जटावति त्रिस्तु जडोऽनालोच्यकारिणि ।शीतले स्तब्धनिर्बुद्ध्योः पङ्कगन्धिजले तु नप् ॥ ४६० ॥
2.5.460 · p. 82
अनुष्टुप्
पुंसि शीतगुणेऽथाहाजयस्तोये जलं नपि ।जले तु त्रिषु जप्रस्तु द्वयोः स्याद्विप्रभेकयोः ॥ ४६१ ॥
2.5.461 · p. 82
अनुष्टुप्
जर्णो ना पादपे चन्द्रे कर्वे पक्षिणि तु द्वयोः ।त्रिषु वृद्धेऽथ जर्तो ना स्वाङ्गे प्रजननाह्वये ॥ ४६२ ॥
2.5.462 · p. 82
अनुष्टुप्
योनिरोम्ण्यपरे कश्चिदाभीरे च जनः पुनः ।जनने जननायां च प्रतिवेशविवाहयोः ॥ ४६३ ॥
2.5.463 · p. 82
अनुष्टुप्
राजन्यबन्धावप्राज्ञे मनुष्ये त्विति सज्जनः ।क्लीबं दमनके प्राणिद्यूते चाथ जनी स्त्रियाम् ॥ ४६४ ॥
2.5.464 · p. 82
अनुष्टुप्
जतुकृत्संज्ञवल्ल्यां च स्नुषातिबलयोरपि ।जनिस्तु पत्न्यामुत्पत्तौ वरयोषिति च स्त्रियाम् ॥ ४६५ ॥
2.5.465 · p. 82
अनुष्टुप्
जायतौ तु पुमांस्त्री तु जम्बूर्जम्बूटपादपे ।तत्फले जम्बु जम्बूश्च नस्त्रियोः स्यादथ द्वयोः ॥ ४६६ ॥
2.5.466 · p. 82
अनुष्टुप्
चतुष्पाज्जातिभेदेऽथ जत्रुर्ना घर्ममेघयोः ।क्लीबेऽवसानेंऽससन्धौ जन्युस्तु द्वे शरीरिणि ॥ ४६७ ॥
2.5.467 · p. 82
अनुष्टुप्
अपत्ये च पुमांस्त्वेष प्रादुर्भावे प्रजापतौ ।पितर्यपि जगत् तु क्ली जगतीति स्त्रियामपि ॥ ४६८ ॥
2.5.468 · p. 82
अनुष्टुप्
लोके स्त्री तु जगत्यष्टाचत्वारिंशत्स्वरादिषु ।छन्दोभेदेषु सुरभौ पृथिव्यां चाथ तत् त्रिषु ॥ ४६९ ॥
2.5.469 · p. 83
अनुष्टुप्
त्रसे चराचरे चापि मनुष्ये तु द्वयोरथ ।जटावति जटी त्रि स्यात् प्लक्षवृक्षे तु पुंस्ययम् ॥ ४७० ॥
2.5.470 · p. 83
अनुष्टुप्
जवी वेगवति त्रिः स्याद् द्वे तु वातप्रमीमृगे ।जालं गवाक्षभेदे क्ली पुष्पक्षारकवृन्दयोः ॥ ४७१ ॥
2.5.471 · p. 83
अनुष्टुप्
आनाये कपटे चापि भारताद्दक्षिणे क्वचित् ।वर्षात् स्यादन्तरद्वीपे मर्त्यजात्यन्तरे पुनः ॥ ४७२ ॥
2.5.472 · p. 83
अनुष्टुप्
विप्रीवैदेहजे द्वे स्यात् पटोल्यां तु स्त्रियामियम् ।जाली जारस्तु नादित्ये तथैवोपपतावथ ॥ ४७३ ॥
2.5.473 · p. 83
अनुष्टुप्
अविवाह्यासु कन्यासु या स्यात् कन्याप्रसूतिजा ।कन्या तस्यां स्त्रियां जारी हिमवद्दुहितर्यपि ॥ ४७४ ॥
2.5.474 · p. 83
अनुष्टुप्
क्लीबं तु रक्तकुमुदे जातं त्वस्त्री कदम्बके ।त्रिरुत्पन्ने जन्मनि क्ली जामिस्तु स्त्री कुलस्त्रियाम् ॥ ४७५ ॥
2.5.475 · p. 83
अनुष्टुप्
तृणेऽङ्गुलौ च स्वसरि नीवृद्भेदे च कुत्रचित् ।जामि तु क्ली जलेऽभ्यासात् समानगुणवस्तुनः ॥ ४७६ ॥
2.5.476 · p. 83
अनुष्टुप्
आलस्ये चेतसो जानुस्त्वस्त्री द्वात्रिंशदङ्गुले ।मानभेदेऽप्यूरुजङ्घासन्धौ चाप्यथ जालिवाक् ॥ ४७७ ॥
2.5.477 · p. 83
अनुष्टुप्
त्रिषु जालवति द्वे तु दाशे स्यात् स्त्री तु जालिनी ।पिप्पल्यां चित्रशालायां जिह्मं तु कुटिले त्रिषु ॥ ४७८ ॥
2.5.478 · p. 83
अनुष्टुप्
अलसे क्ली तु पापे द्वे सर्पे क्ली तु जितं जये ।त्रिषु तु स्वीकृते तत् स्याद् युद्धभग्नाभिभूतयोः ॥ ४७९ ॥
2.5.479 · p. 83
अनुष्टुप्
जिप्री द्वे शकुनौ कश्चित् त्वाह ना क्रोधकालयोः ।इति जिष्णुस्तु ना विष्णाविन्द्रे मध्यमपाण्डवे ॥ ४८० ॥
2.5.480 · p. 84
अनुष्टुप्