मङ्गला
maṅgalāस्त्री · fem.In 6 kośas: 14 synonym verses, 2 as a nānārtha head word.
मरुदेवा विजया सेना सिद्धार्था च मङ्गला ।ततः सुसीमा पृथ्वी लक्ष्मणा रामा ततः परम् ॥ ३९ ॥नन्दा विष्णुर्जया श्यामा सुयशाः सुव्रताचिरा ।श्रीर्देवी प्रभावती च पद्मा वप्रा शिवा तथा ॥ ४० ॥वामा त्रिशला क्रमतः पितरो मातरोऽर्हताम् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ज (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 4 प्र (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 4 श (wrong syllable)
genderस्त्रीfem.
गौरी विषघ्नी मङ्गल्या निशार्था च विलासिनी ।शोभा जयन्ती लक्ष्मीः स्यान्मङ्गला सुभगाह्वया ॥ २११ ॥
अनुष्टुप्
genderस्त्रीfem.
वातारिस्तण्डुली चापि सैवोक्ता मृगगामिनी ।तण्डुलीया विडङ्गापि त्रिष्वथोग्रा तु मङ्गला ॥ ३५५ ॥
अनुष्टुप्
genderस्त्रीfem.
तीक्ष्णगन्धा हैमवती मङ्गला दीर्घपत्रका ।षड्ग्रन्थापि च मेध्याथ कुलञ्जस्तु कुलञ्जनः ॥ ३५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 है (wrong syllable)
genderस्त्रीfem.
मञ्जिष्ठा हरिणी रक्ता गौरी योजनवल्ल्यपि ।मङ्गला विकसा पद्मा रोहिणी कालमेषिका ॥ ३७१ ॥
अनुष्टुप्
genderस्त्रीfem.
मङ्गलापि तपस्वीष्टा मेध्या दुरितपावनी ।सुभद्रा शङ्कुकलिका भद्रासक्तुफली शिवा ॥ ३१२ ॥
अनुष्टुप्
genderस्त्रीfem.
श्यामा शीता शतग्रन्थिर्मङ्गला सुभगा जया ।शतमूला तूष्णवल्ली पूतिहन्त्री महौषधी ॥ ३५१ ॥
अनुष्टुप्
genderस्त्रीfem.
सूर्यपर्यायोदयार्था प्राची पूर्वा च मङ्गला ।दक्षिणावाच्यपाची च पश्चिमा तु प्रतीच्यपि ॥ ४९ ॥
अनुष्टुप्
genderस्त्रीfem.
विगलिप्ता संयमिनी मृद्वी च भ्रामिताक्षरा ।द्राविता मङ्गला रामा सुखकृज्जयशेखरा ॥ ७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सं (wrong syllable)
genderस्त्रीfem.
कन्दर्पलोकपर्यायमात्रर्था पद्मलाञ्छना ।लक्ष्मीर्वृषाकपायी श्रीर्मङ्गला मङ्गलार्थका ॥ ५४ ॥
अनुष्टुप्
genderस्त्रीfem.
दाक्षायणी हरिवृषा महादेवी कुमारिका ।हिण्डी वृषाकपायी स्यान्मङ्गला सर्वमङ्गला ॥ ८३ ॥
अनुष्टुप्
genderस्त्रीfem.
सहस्रवीर्या-भार्गव्यौ रुहानन्ता च मङ्गला ।हरिता हरिताली च श्यामाङ्गी शीतवल्लरी ॥ १७ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रथमा मरुदेवाऽम्बा द्वितीया विजयाह्वया ।ततः सेना च सिद्धार्था सुमाता मङ्गला तथा ॥ २५ ॥
अनुष्टुप्
genderस्त्रीfem.
मृडाणी गिरिजा काली मङ्गला सर्वमङ्गला ।नारायणी महामाया पार्वती वैष्णवी शिवा ॥
अनुष्टुप्
genderस्त्रीfem.
मल्लिकागाधसदृशगन्धयुक्ते च वस्तुनि ।मङ्गला सितदूर्वायां स्त्रियां रभस उक्तवान् ॥ १३१७ ॥
अनुष्टुप्
meaningsसितदूर्वा
वार्दलं दुर्दिने मेलानन्दायां दुष्टसद्मनि ।मङ्गला पार्वतीशुक्लदूर्वापतिव्रतासु च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)