All kośas › Paramānandīyanāmamālā
परमानन्दीयनाममाला Paramānandīyanāmamālā
1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)
अनेकार्थसंग्रहः · चकारादयः
अथ चकारादयो यथा ।
चण्डी शिवस्त्रियां चण्डा शङ्खपुष्पा निगद्यते ।चक्रं राष्ट्रे बले वृन्दे जलावर्तरथाङ्गयोः ॥ १७६ ॥
5.11.176 · p. 184
अनुष्टुप्
शस्त्रे दम्भान्तरे दुष्टे चित्रा दन्तीसुभद्रयोः ।दिव्यस्त्रियां च नक्षत्रमेदे चित्रमथाद्भुते ॥ १७७ ॥
5.11.177 · p. 184
अनुष्टुप्
तिलके कर्बुरेऽप्येवं चन्द्रः कर्पूरचन्द्रयोः ।काम्पिल्ये मेचके स्वर्णे चीरं गोस्तनवस्त्रयोः ॥ १७८ ॥
5.11.178 · p. 184
अनुष्टुप्
चर्चा देव्यां च निन्दायां चिन्तायां स्थासकेऽपि च ।चक्री कोके कुलालेऽपि सार्वभौमे रथे हरौ ॥ १७९ ॥
5.11.179 · p. 184
अनुष्टुप्
चमसो लड्डुके पिष्टभेदे पर्पटके तथा ।चरणस्तु पदे मूले गोत्रचारित्रयोरपि ॥ १८० ॥
5.11.180 · p. 185
अनुष्टुप्
चामरः केतके? पुष्पे काशे माकन्दपादपे ।चमरश्चामरे दैत्ये चपलश्चञ्चलेऽनिले ॥ १८१ ॥
5.11.181 · p. 185
अनुष्टुप्
चपलो मूर्धजे मीने चपलं शीघ्रलोलयोः ।पारदे चपला लक्ष्म्यां पिप्पलीविद्युतोरथ ॥ १८२ ॥
5.11.182 · p. 185
अनुष्टुप्
चिरण्टी तु सुवासिन्यां यौवनाश्रितयोषिति ।चाम्पेयः काञ्चने नागकेसरे चम्पके [22] तरौ ॥ १८३ ॥
5.11.183 · p. 185
अनुष्टुप्
चक्रवाटः शिखावृक्षे क्रियारोहेऽपि सम्मतः ।चक्रवाडश्चकवालः पर्वतान्तरपूरयोः ॥ १८४ ॥
5.11.184 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
चूडामणिः शिरोरत्ने शास्त्रभेदे फलान्तरे ।चन्द्रहासो दशग्रीवखड्गे मद्यान्तरेऽपि च ॥ १८५ ॥
5.11.185 · p. 185
अनुष्टुप्
चन्द्रकान्तो मणौ चन्द्रकान्तं कैरववाचकम् ।चीर्णपर्णः पिचुमन्दे खर्जूरेऽथ चतुष्पथम् ॥ १८६ ॥
5.11.186 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 चु (wrong syllable)
चत्वरेऽप्यग्रजे [पुंसि?] चक्रपादो रथे पुनः ।चतुष्पदस्तुरंगादौ स्त्रीणां च करणान्तरे ॥ १८७ ॥
5.11.187 · p. 185
अनुष्टुप्
चित्रभानू रवौ वह्नौ चिरंजीव्यजकाकयोः ।चन्द्रोदयो विधूद्रेक उल्लोचौषधभेदयोः ॥ १८८ ॥
5.11.188 · p. 186
अनुष्टुप्