हिंस्रा
hiṃsrāस्त्री · fem.In 6 kośas: 5 synonym verses, 4 as a nānārtha head word, 5 as a meaning of another word.
किरातिनी शिखा हिंस्रा भूतकेशी तु पूतना ।गन्धमांसी पिशाची च केशी भूतजटा जटा ॥ ९९ ॥
अनुष्टुप्
genderस्त्रीfem.
काकनाशा(सा) काकतुण्डी काका हिंस्रा मुरङ्गिका ।चौरस्नायुर्जीवनीया काकजङ्घा तु सा मता ॥ ९१ ॥
अनुष्टुप्
genderस्त्रीfem.
बलाख्यं पञ्चमूलं स्यादथ त्विक्षुरसैर्यकौ ।शतावरी च हिंस्रा च सुषेणः कण्टकाभिधम् ॥ ४९ ॥
अनुष्टुप्
genderस्त्रीfem.
तपस्विन्यामिषी हिंस्रा क्रव्यादी पिशिता च सा ।गन्धमांस्यां पुनः केशी भूतकेशी पिशाचिका ॥ २८१ ॥
अनुष्टुप्
genderस्त्रीfem.
जलकोलौ तु संगाली नरकोलौ तु कर्कशी ।सृगालकोलौ हिंस्राथ शमी सक्तुफला जया ॥ ८९ ॥
अनुष्टुप्
genderस्त्रीfem.
doubtful
हिंस्रा as a meaning in nānārtha verses
- कोषकल्पतरु चण्डीचण्डी तु हिंस्राम्बिकयोश्च चण्डा स्याच्छङ्खपुष्प्यां गणहासके च । स्याद्गोपतौ नाम्बुरुहादिसंघे षडे च षण्डो विपिने च नस्त्री ॥ ७४ ॥ Koṣakalpataru 6.12.74
- कोषकल्पतरु क्षुद्रक्षुद्रोऽधमः क्रूरदरिद्रवाची त्रयेऽल्पके स्त्री तु नटीबृहत्योः । पुराङ्गनायां मधुमक्षिकायां व्यङ्गासु हिंस्रास्वपि लोणिकासु ॥ ४७ ॥ Koṣakalpataru 6.27.47
- शिवकोष ?भद्रानन्तारसागोपीकृष्णाहिंस्राम्ललोणिषु । सारिण्यां कट्फले क्लीबं बिम्बाम्बुदमहोत्पले ॥ ३८६ ॥ Śivakoṣa 22.2.386
- शब्दरत्नावली चण्डीचण्डः शमनदूते ना दैत्ये च तित्तिडीद्रुमे । चण्डी भवान्यां हिंस्रायां कोपनायाञ्च योषिति ॥ Śabdaratnāvalī 7.13.13
- शब्दरत्नावली क्षुद्राऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि । ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥ करो रश्मौ च करके शुण्डप्रत्यायपाणिषु । कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥ कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् । कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥ कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी । क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥ कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि । कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥ कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति । क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥ क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च । चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥ क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे । खुरः शफे कोलदले तथा छेदनवस्तुनि ॥ क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च । खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥ खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥ Śabdaratnāvalī 7.27.7