कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

समाप्ति

samāpti

In 10 kośas: 0 synonym verses, 2 as a nānārtha head word, 20 as a meaning of another word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.41 · p. 224
समर्थनावसान[297b]योः स्त्रियां समाप्तिरीरिता ।स्त्रियां प्रलम्बवैरिणो भमातृगा च रेवती ॥ ४१ ॥
metre not recognised
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.147 · p. 223
समाप्तिः स्त्रीपरिप्राप्तावनसाने समर्थने ।सम्मतिः स्यादनुज्ञायामभिलाषेऽपि च स्त्रियाम् ॥
अनुष्टुप्

समाप्ति as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् इतिइति हेतुप्रकरणप्रकर्षादिसमाप्तिषु ॥ २४६ ॥ Amarakośa 3.3.246
  • हलायुधकोशः (अभिधानरत्नमाला) इतिसदा सना च नित्यत्वे स्वस्ति स्यान्मङ्गलादिषु । इतिशब्दः स्मृतो हेतौ प्रकारादिसमाप्तिषु ॥ ८८७ ॥ Abhidhānaratnamālā (Halāyudha) 5.887
  • धरणिकोश इतिइति हेतुप्रकरणप्रकाशादिसमाप्तिषु । निदर्शने प्रकारे चानुकर्षे च प्रकीर्तितः ॥ Dharaṇikośa 34.7.9
  • कोषकल्पतरु व्युच्छतिनैकट्येऽत्यभितो श्रोति(?)समाप्तौ व्युच्छति स्मृतम् । क्रियासमाप्तौ स्यात्पारयति तीरयतीति च[208a] ॥ ७९ ॥ Koṣakalpataru 3.5.79
  • कोषकल्पतरु इतिइति प्रकारादिसमाप्तिहेतु- प्रकाशदृष्टान्तविनिर्णयेषु । स्वरूपसांनिध्यपरानुकर्षे तथैवमर्थेऽपि समामनन्ति ॥ ९५ ॥ Koṣakalpataru 5.1.95
  • कोषकल्पतरु सर्गसर्गस्तु शीलोद्यमनिर्णयेषु संसारकाव्यादिकथासमाप्त्योः । मार्गो मृगादिप्रभवेऽन्यलिङ्गो- ऽध्वान्वेषणामासभिदासु पुंसि ॥ ७ ॥ Koṣakalpataru 6.3.7
  • कोषकल्पतरु समापननिर्भर्त्सनं धिक्करणेऽप्यलक्ते- ऽप्यथो परिच्छेदसमाप्तिवाचि । समापनं किं च समाहितौ स्या- त्प्रमा[प]णेऽथाभ्यसने शराणाम् ॥ २८ ॥ Koṣakalpataru 6.21.28
  • कोषकल्पतरु पारप्रसेवके बन्धगृहे च दूत्यां स्त्रीकारिकायां चरमे तु हेम्नि । पारं परस्मिंश्च तटे समाप्तौ प्रान्ते च न स्त्री गदितं स्त्रियां तु ॥ ८ ॥ Koṣakalpataru 6.27.8
  • नानार्थार्णवसंक्षेप संस्थाश्रोणिः कट्यामुपस्थेऽथ संस्था स्यादाकृतौ मृतौ । व्यवस्थायां समाप्तौ च प्रणिधावपि केचन ॥ ११० ॥ Nānārthārṇavasaṃkṣepa 2.1.110
  • नानार्थार्णवसंक्षेप संस्थानसंस्थानं तु समाप्तौ च सन्निवेशे चतुष्पथे । सम्यक्स्थितौ च मरणे संव्यानं तूत्तरीयके ॥ ८३ ॥ Nānārthārṇavasaṃkṣepa 3.3.83
  • नानार्थार्णवसंक्षेप समापनासमापना तु न पुमान् वधे चाप्यवसायने । क्लीबलिङ्ग समाप्तौ स्यादथ पुंसि समीरणः ॥ ६२७ ॥ Nānārthārṇavasaṃkṣepa 6.627
  • शब्दरत्नावली समापनसदादानो गन्धहस्तिन्यैरावतगणेशयोः । सम्बदनं वशीकारे क्लीबमालोचनेऽपि च ॥ समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च । सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने ॥ समापनं परिच्छेदप्रमापनसमाप्तिषु । सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि ॥ सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् । स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् ॥ सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥ संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् । भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) ॥ सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् । सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये ॥ क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् । सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः ॥ सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः । सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि ॥ सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥ Śabdaratnāvalī 7.20.127
  • शब्दरत्नावली इतिनिदर्शनसमाप्त्योश्च प्रकारे च प्रकाशने । उत प्रश्ने वितर्के च विकल्पे पादपूरणे ॥ Śabdaratnāvalī 8.1.24
  • शब्दरत्नाकर इतिआहो निन्दाहेतुचित्रेष्वाराद्दूरसमीपयोः । इति हेतौ प्रकरणे प्रकारादिसमाप्तिषु ॥ २२६४ ॥ Śabdaratnākara 5.2.2264
  • शब्दार्णव अन्तमृताववसिते रम्ये समाप्तावन्त इष्यते ॥ १९९ ॥ Śabdārṇava 199
  • त्रिकाण्डशेष संस्थसंस्थः समाप्तिक्रतुषु वरूथो निजराष्ट्रकः । सिक्थो भक्तपुलाके ना मधूच्छिष्टे नपुंसकम् ॥ २०१ ॥ Trikāṇḍaśeṣa 3.3.201
  • वैजयन्ती संस्थासंज्ञार्कभार्या चैतन्यं हस्ताद्यैः सूचनाभिधा । संस्था व्यवस्थाप्रणिधिसमाप्त्याकारमृत्युषु ॥ ४३ ॥ Vaijayantī 6.2.43
  • वैजयन्ती संस्थानसेनांगे यातनायाञ्च सेवनं स्यूतिसेवयोः । मृत्यौ समाप्तौ संस्थानं सन्निवेशे चतुष्पथे ॥ ३७ ॥ Vaijayantī 7.3.37
  • वैजयन्ती समापनसमापनायां हिंसायां समाप्तौ च समापनम् । Vaijayantī 8.3.13
  • वैजयन्ती इतिइति हेतुप्रकरणप्रकारादिसमाप्तिषु । विस्तारेंऽगीकृतावूरी स्यादुरर्यूररी यथा ॥ १७ ॥ Vaijayantī 8.7.17