स्वरूप
svarūpaक्ली · neut.In 13 kośas: 9 synonym verses, 1 as a nānārtha head word, 21 as a meaning of another word.
स्वाद्रूपं लक्षणं भावश्चात्मप्रकृतिरीतयः ।सहजो रूपतत्त्वं च धर्मः सर्गो निसर्गवत् ॥ १३७६ ॥शीलं सतत्त्वं संसिद्धिरवस्था तु दशा स्थितिः ।
अनुष्टुप्
genderक्लीneut.doubtful
अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे ॥ ३७ ॥स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः ।कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः ॥ ३८ ॥
अनुष्टुप्
genderक्लीneut.
अवहित्थमपि क्लीबेऽथ स्वभावस्तु पुंस्ययम् ।निसर्गश्च पुनः क्लीबे स्वरूपं रूपमित्यपि ॥ १४० ॥
अनुष्टुप्
genderक्लीneut.
स्वरूपं सहजो रूपतत्त्वं सर्गो निसर्गवत् ।प्रीतौ प्रेम स्नेहहार्दे समाधाववधानता ॥ २६५ ॥
अनुष्टुप्
genderक्लीneut.
स्वरूपं लक्षणं भावो रूपधर्मात्मरीतयः ।सृष्टिः सर्गश्च निर्माणं करणं घटनं कृतिः ॥ १२३ ॥
अनुष्टुप्
genderक्लीneut.
स्वरूपं रूपतत्त्वञ्च सतत्त्वं च स्वलक्षणम् ।आत्मारातिश्च संसिद्धिः प्रकृतिः सहजास्तथा ॥ २५०१ ॥
अनुष्टुप्
genderक्लीneut.
स्यात् स्वरूपं निसर्गश्च पर्यायोऽयं स्वभावके ।कम्पनं कम्पितं कम्पो वेपनं वेपथुः पुमान् ॥
अनुष्टुप्
genderक्लीneut.
सत्या जयाश्च पितरो वैकुण्ठा हरयोऽजिताः ।मरीचयः सुशर्माणः स्वरूपा अमृतौजसः ॥
अनुष्टुप्
genderपुंmasc.
रूपं तत्त्वं सतत्त्वं च स्वरूपं च सलक्षणम् ।सहजं निजमाजानं धर्मसर्गौ निसर्गवत् ॥ १ ॥
अनुष्टुप्
genderक्लीneut.
प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः ॥ १३१ ॥
अनुष्टुप्
meanings
स्वरूप as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् तलअधः स्वरूपयोरस्त्री तलं स्याच्चामिषे पलम् ॥ २०२ ॥ Amarakośa 3.3.202
- धरणिकोश अन्तकान्तौ प्रस्तरलोहकौ प्रियधवौ कान्ते प्रियङ्गुस्त्रियौ केतुश्चिह्नपताकयोश्च करणे केतुश्च शेषग्रहे । अन्तो नाश[स]मीपयोर्निगदितः प्रान्ते स्वरूपेऽप्यसौ द[न्तः] [34] सानुनिकुञ्जयोश्च दशने दन्ती स्मृता चौषधिः ॥ Dharaṇikośa 15.1.12
- धरणिकोश तलतलश्चपेटस्ताल[94]श्च स्वरूपानूर्ध्वयोस्तलम् । ज्याघातो ध्रियते येन प्रकोष्ठे तत्तलं स्मृतम् ॥ Dharaṇikośa 27.3.3
- कोषकल्पतरु इतिइति प्रकारादिसमाप्तिहेतु- प्रकाशदृष्टान्तविनिर्णयेषु । स्वरूपसांनिध्यपरानुकर्षे तथैवमर्थेऽपि समामनन्ति ॥ ९५ ॥ Koṣakalpataru 5.1.95
- कोषकल्पतरु अन्तछन्दस्यपि स्त्री न दृढे त्वतीते मृते वृते वर्तुलकेऽन्यवच्च । अन्तो विनाशे चरमे स्वरूपे प्रान्ते तु न स्त्री निकटे त्रिलिङ्ग्याम् ॥ ३० ॥ Koṣakalpataru 6.16.30
- कोषकल्पतरु तत्त्वविल्वं फले श्रीफलवाचकं च तत्त्वं परात्मन्यपि वाद्यभेदे । तथा स्वरूपे त्रितये तु खर्वे ह्रस्वे न्यगर्थेऽपि च खर्व एवम् ॥ २ ॥ Koṣakalpataru 6.29.2
- नानार्थार्णवसंक्षेप अन्तअन्तोऽवसाने मरणे स्वरूपे निश्चयेऽन्तिके । धर्मे प्रधाने च पुमान् केषाञ्चित् पुन्नपुंसकम् ॥ २० ॥ Nānārthārṇavasaṃkṣepa 2.5.20
- नानार्थार्णवसंक्षेप तलअधःस्वरूपयोस्त्वस्त्री हस्तघ्ने तु तला तलम् । इति स्त्रियां च शण्डे चाप्यथ लिङ्गत्रये तटम् ॥ ५०३ ॥ Nānārthārṇavasaṃkṣepa 2.5.503
- नानार्थार्णवसंक्षेप वृत्तवृत्तं तु क्ली नरेऽप्यन्ये स्वरूपाचारवृत्तिषु । पद्यव्यक्तिषु सम्भक्तौ त्रिषु तु स्याद्दृढे मृते ॥ १२७९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1279
- नानार्थार्णवसंक्षेप दीपककाव्यालङ्कारभेदे तु स्वरूपे चापि दीपकम् । क्ली त्रि तु स्याद्दीपयितृदीपित्रोर्ना तु पक्षिणि ॥ ९३४ ॥ Nānārthārṇavasaṃkṣepa 4.934
- परमानन्दीयनाममाला निसर्गवणिङ्मार्गे श्रुतौ मार्गे निकायो गणलक्षयोः । निसर्गस्तु स्वरूपे स्याद्विश्वनिर्माण एव च ॥ २७० ॥ Paramānandīyanāmamālā 5.18.270
- शब्दरत्नावली अन्तअस्तः पुंसि पश्चिमाद्रौ क्षिप्तावसितयोस्त्रिषु । अन्तं स्वरूपे नाशे ना न स्त्री शेषेऽन्तिके त्रिषु ॥ Śabdaratnāvalī 7.16.2
- शब्दरत्नावली तलझिल्ली चीरावर्त्तीरुच्य तपोद्वर्तनकांशुके । तलश्चपटे पुंसि स्यादस्त्री चाधःस्वरूपयोः ॥ Śabdaratnāvalī 7.28.16
- शब्दरत्नावली तत्त्वतत्त्वं विलम्बिते नृत्ये परमात्मस्वरूपयोः । द्रवः प्रद्रावरसयोः स्यान्नर्मतरसोरपि । दवो दावो वन्यवह्न्यावरण्ये च भवेद्वयम् ॥ Śabdaratnāvalī 7.29.8
- शब्दरत्नावली नञ्नञभावे निषेधे च स्वरूपार्थे व्यतिक्रमे । ईषदर्थे च सादृश्ये तद्विरुद्धतदर्थयोः ॥ Śabdaratnāvalī 8.1.19
- त्रिकाण्डशेष अन्तचूल्यां च पूर्णिमाभेदेऽनुमतिः सम्मतावपि । स्वरूपेऽन्तं विनाशे ना न स्त्री शेषेऽन्तिके त्रिषु ॥ १४५ ॥ Trikāṇḍaśeṣa 3.3.145
- त्रिकाण्डशेष तत्त्वतत्त्वं विलम्बिते नृत्ये स्वरूपे परमात्मनि । मेघे राज्ञि सुरे देवो द्विजिह्वो व्यालसूचकौ ॥ ४१६ ॥ Trikāṇḍaśeṣa 3.3.416
- वैजयन्ती अन्तअन्तोऽस्त्र्यवसिते मृत्यौ स्वरूपे निश्चयेऽन्तिके । नार्धमासेऽणिरक्ल्यश्रौ रूप्येऽक्षाग्रध्रुवे ध्रुवे ॥ ५ ॥ Vaijayantī 6.5.5
- वैजयन्ती तलतनुः स्त्री त्वचि देहे च त्रिष्वल्पे विरले कृशे । तमा राहुस्तमोऽघं शुक् स्वरूपेऽधस्तलोऽस्त्रियाम् ॥ ३५ ॥ Vaijayantī 6.5.35
- वैजयन्ती वृत्तनिस्सारारोग्ययोः षण्डो वृत्तिमन्नीरुजोस्त्रिषु । वृत्तं स्वरूपे चरिते वृत्तौ छन्दोविधासु च ॥ ७६ ॥ Vaijayantī 6.5.76
- वैजयन्ती दीपकस्त्री पुनर्भ्वास्तु पत्यौ ना दिधिषुर्दिधिषूरपि । स्याद्दीपकमलंकारे स्वरूपे दीप्तिमत्यपि ॥ ४७ ॥ Vaijayantī 7.5.47