कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

क्रोध

krodhaपुं · masc.

In 18 kośas: 29 synonym verses, 38 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.300 · p. 16
शोकः शुक्शोचनं खेदः क्रोधो मन्युः क्रुधा रुषा ।क्रुत्कोपः प्रतिघो रोषो रुट् चोत्साहः प्रगल्भता ॥ २९९ ॥अभियोगोद्यमौ प्रौढिरुद्योगः कियदेतिका ।अध्यवसाय ऊर्जोथ वीर्यं सोऽतिशयान्वितः ॥ ३०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.37
कोपक्रोधामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.91 · p. 11
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.362 · p. 43
कोपः क्रोधस्तथामर्षो रोषः प्रतिघ उच्यते ।तृषितस्तर्षितः प्रोक्तः पिपासुश्च पिपासितः ॥ ३६२ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षष्ठोपदेशः Bālaprabodhikā 6.101 · p. 75
मन्युश्च शोकः खेदश्च क्रोधः कोपश्च कथ्यते ।वर्षक्षमा तितिक्षा स्यात् असूया दोषदृग्गुणे ॥ १०१ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर सप्तमोपदेशः Bālaprabodhikā 7.127 · p. 77
रौद्रश्च करुणश्चाष्टौ रसाः शान्तोऽपि च क्वचित् ।उत्साहो विस्मयो भीतिः क्रोधः शोकः शमोऽपि च ॥ १२७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.117 · p. 102
कामक्रोधौ लोभहर्षौ मानश्चापि मदः पुनः ।अन्तर्गतोऽरिषड्वर्गः प्राणस्य क्षुत्तृषे पुनः ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.93 · p. 427
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।जुगुप्सा विस्मयश्चेति स्थायिभावाः क्रमादमी ॥ ९३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.99 · p. 428
रुषा क्रुधा क्रुच्च मन्युः क्रोधः कोपोऽप्यमर्षवत् ।रोषश्च प्रतिघो भामोऽथ स्त्रियां कियदेतिका ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.47 · p. 456
मोहः क्रोधो लोभदम्भा एतस्य परिचारकाः ।अरुणार्थादवरजो विनतातनयार्थकः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.132 · p. 89
उग्रा रौद्री भैरवीति विशेष्यं यदि कामिनी ।रोषामर्ष-क्रोध-कोप-प्रतिघाः क्रुध्-क्रुधा-रुषाः ॥ १३२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.15 · p. 307
हृल्लासो हृदयादीषद्व्यथः पट्वम्बुनिर्गमः ।तृप्त्यैवान्नास्पृहातृप्तिररुचिः स्यादरोचकः ।;l[7270}अश्रद्धान्नारोचकोऽथाविपाकोऽन्नापचिः स्त्रियाम् ।ज्वरो रोगपतिर्दक्षाध्वरध्वंसी तथान्तकः ।ओजोशनस्तथा क्रोधो रुद्रोर्ध्वनयनोद्भवः ॥ १५ ॥
अनुष्टुप्metre not read in every lineLatin letters: l
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 109 · p. 54
खेदो द्वेषोऽप्यमर्षश्च रुट्कोपक्रोधमन्यवः ।हर्षः प्रमोदः प्रमदो मुत्तोषानन्दमुत्सवः ॥ १०९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.210 · p. 30
विषादस्त्ववसादः स्यात्सादोऽपि च विषण्णता ।शोकः शोचनखेदौ शुक् क्रोधः कोपक्रुधारुषाः ॥ २१० ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.88 · p. 28
कोपः क्रोधोऽमर्षरोषौ प्रतिघो मन्युरुट्क्रुधः ।ईर्षासूयाभिषङ्गश्च संरम्भोऽक्षान्तिरक्षमा ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.438 · p. 55
अथ स्यात् शोचनं शोकः शुक् खेदश्च रुषा तथा ।रुट् रोषो प्रतिघः कोपः क्रुत् क्रोधश्च तथा क्रुधा ॥ ४३८ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.446 · p. 56
शृङ्गारे च रतिः स्थायी हास्ये तु हसनं तथा ।शोकः स्थायी च करुणे क्रोधो रौद्ररसे तथा ॥ ४४६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.477 · p. 33
मन्युः शोकःस्त्रियां शुक् च शुचा निःशम इत्यपि ।पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि ।कोपः क्रोधः क्रोधाभीमः आमर्षः प्रतिघोऽपि च ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.117 · p. 186
शोचने शुक् शुकः शोकः, कोपे क्रोध-क्रुधा-क्रुधः ।रुषा-रोष-रुषश्चाप्युत्साहो तूद्याम उद्यमः ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.956 · p. 119
स्थायिभावो विभावाद्यैः स्थायितां प्रापितो रसः ।रतिर्हासक्रोधशोकजुगुप्सोत्साहविस्मयाः ॥ ९५६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण नाट्याध्यायः Śabdaratnākara 2.8.976 · p. 122
उल्लासिका स्यादुत्कण्ठारतिरुत्कालिका च सा ।अमर्षप्रतिघक्रोधकोपरोषाः स्त्रियौ परे ॥ ९७६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1281 · p. 156
निदेशः शासनं शिष्टिराज्ञाशास्तिनियुक्तयः ।कामक्रोधौ लोभमोहौ मदो मत्सर इत्यमी ॥ १२८१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 68 · p. 535
क्रोधो भामः क्रुधा रुषा ॥ ६८ ॥
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात क्ष Tantrābhidhāna 7.51.59 · p. 52
क्रोधः कोपः क्षकारश्च आत्मा स्त्री कामरूपकः ।संहारो नारसिंहोऽथ महातेजो युगान्तकः ।क्षयः संवर्तकः प्रोक्तः सर्वज्ञः क्षेत्रपालकः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात भूतडामरतन्त्रोक्तबीजाभिधान Tantrābhidhāna 10.10 · p. 62
हकारो वामकर्णाढ्यो नादबिन्दु-विभूषितः ।कूर्चं क्रोध उग्रदर्पो दीर्घहूङ्कार उच्यते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ध (wrong syllable)
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात भूतडामरतन्त्रोक्तबीजाभिधान Tantrābhidhāna 10.22 · p. 62
शिखा वषट् शिरोमध्यं शक्रमाता हरप्रिया ।शिखा वषट् च ॥वषट्॥ कवचं क्रोधो वर्म हुमित्यपि ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात भूतडामरतन्त्रोक्तबीजाभिधान Tantrābhidhāna 10.23 · p. 62
कोधाख्यो हूं तनुत्रश्च शस्त्रादौ रिपुसंज्ञकः ॥हूं॥
अनुष्टुप्metre not read in every line
genderपुंmasc.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.183 · p. 98
शोकस्तु मन्युरुत्खेवदः शुक् स्त्री दैन्यानुशोचने ।क्रोधः कोपोऽमर्षरोषौ रुषा रुट्क्रुत्क्रुधाः स्त्रियः ॥ १८३ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.76 · p. 142
स्थायिभावाः क्रमादेषां रतिर्हासो जुगुप्सनम् ।उत्साहो विस्मयो भीतिः क्रोधः शोकः शमोऽपि च ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.

क्रोध as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् नामनाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने ॥ २५२ ॥ Amarakośa 3.3.252
  • हलायुधकोशः (अभिधानरत्नमाला) ईशोचने सम्प्रहर्षे च हन्तशब्दः प्रयुज्यते । ई दुःखभावने क्रोधे प्रत्यक्षे सन्निधावपि ॥ ८७५ ॥ Abhidhānaratnamālā (Halāyudha) 5.875
  • धरणिकोश व्यालशालः सर्जतरौ मत्स्ये शाला स्कन्धलता कुटी । व्यालः स्याच्छ्वापदे क्रोधे भुजगे दुष्टदन्तिनि ॥ Dharaṇikośa 27.2.12
  • धरणिकोश उत्सवउत्सवो मह उत्सेके क्रोधाभीष्टप्रसारयोः । उद्धव उत्सवः प्रोक्त उद्धवो मातुलो हरेः ॥ Dharaṇikośa 28.2.11
  • कल्पद्रुकोशः अभिषञ्ज्अभेः षञ्जिः पराभूतौ क्रोधे च चरतिस्त्वभेः । परो निष्ठाध्यवसितौ पर्युपाभ्यां तु सेवने ॥ १०४ ॥ Kalpadrukośa 1.10.104
  • कोषकल्पतरु संतपतिदुःखे परेर्निरः सोऽल्पतापे क्रोधे समः परः । उदः शोषे च तापे च तथैव च परिप्लवे ॥ ८५ ॥ Koṣakalpataru 3.5.85
  • कोषकल्पतरु अभिनयतिसमः संहति-पृष्ठस्थसैन्ये स्यान्निश्चये निरः । अवान्निपातेऽभेः क्रोधे न्याये स्यात्संस्कृतावपि ॥ ३८ ॥ Koṣakalpataru 3.5.38
  • कोषकल्पतरु अयेप्रश्नानुनीत्योरपि संभ्रमे तु क्रोधे विषादे स्मरणेऽप्यये स्यात् । मध्यान्तिकेऽर्थे समया प्र तु स्या- द्गते प्रकर्षेऽप्यथ दुश्च कष्टे ॥ १२ ॥ Koṣakalpataru 5.1.12
  • कोषकल्पतरु भामक्रोधे यामिपतौ रुचौ च नरके भौमस्तथा मङ्गले भूजेषु त्रिषु मण्डपे तु समये श्रामः पुमान्कीर्तितः । यक्ष्मो रोगपतौ गदेऽपि गदितो रुक्मं तु हेमायसो- स्तोक्मं स्याद्धरिते यवे हरिति चाम्भोदे तु न स्याद्द्वयोः ॥ ६६ ॥ Koṣakalpataru 6.25.66
  • कोषकल्पतरु मन्युपीयुस्तु काले च रवौ ययुस्तु क्रत्व[श्व]चेष्टासु [हये]मयुस्तु । [तु]रङ्गवक्त्रेऽथ मखे च मन्युः क्रोधे च दैन्ये च तथा प्रदिष्टः ॥ ९ ॥ Koṣakalpataru 6.26.9
  • नानार्थार्णवसंक्षेप मोहअपवर्गे च मृत्यौ च मुष्कराख्यद्रुमान्तरे । मोहः पुनः स्यादज्ञाने मूर्छायां क्रोध एव च ॥ ९६ ॥ Nānārthārṇavasaṃkṣepa 2.2.96
  • नानार्थार्णवसंक्षेप हरस्प्रासादपृष्ठ इत्येके गृहभेदे गृहेऽपि च । हरः क्रोधे जले लोके ज्योतिषि ज्वलति स्रजि ॥ ७३ ॥ Nānārthārṇavasaṃkṣepa 2.3.73
  • नानार्थार्णवसंक्षेप क्षुणसरघायां च ना त्वेष उत्सवेऽथ क्षुणः पुमान् । क्षोमे क्रोधे रुजि त्रिस्तु स्यादुन्मत्तेऽथ कुन्दवाक् ॥ २४३ ॥ Nānārthārṇavasaṃkṣepa 2.5.243
  • नानार्थार्णवसंक्षेप जिप्रीजिप्री द्वे शकुनौ कश्चित् त्वाह ना क्रोधकालयोः । इति जिष्णुस्तु ना विष्णाविन्द्रे मध्यमपाण्डवे ॥ ४८० ॥ Nānārthārṇavasaṃkṣepa 2.5.480
  • नानार्थार्णवसंक्षेप मन्युमन्युर्दैन्ये कृपायां च शोके क्रोधे क्रता च ना । त्रिषु मेधाविनि द्वे तु मद्गुः सलिलवायसे ॥ ९६३ ॥ Nānārthārṇavasaṃkṣepa 2.5.963
  • नानार्थार्णवसंक्षेप शरुशयुस्तु नार्के स्वप्ने च द्वयोस्त्वजगरेऽथ ना । शरुः स्यादायुधे क्रोधे द्वयोस्तु स्यात् कपिञ्जले ॥ १३३१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1331
  • नानार्थार्णवसंक्षेप प्रतिघप्रतिघस्तु प्रतिहतौ स्यात् क्रोधवधयोरपि । परिघस्त्वर्गले दण्डे परिधातास्त्रयोगपि ॥ १४७ ॥ Nānārthārṇavasaṃkṣepa 3.2.147
  • नानार्थार्णवसंक्षेप संरम्भसंरम्भः पुनराटोपे क्रोधे सम्भेदवाक् पुनः । भेदे च मिश्रणे चाथ सम्भोगो रतभोगयोः ॥ २१९ ॥ Nānārthārṇavasaṃkṣepa 3.2.219
  • नानार्थार्णवसंक्षेप अरतिरूपे प्रावृषि च त्रिस्तु निर्मतावरतिस्तु ना । असुखक्रोधयोस्त्रिस्तु रतिहीनेऽदितिः पुनः ॥ १४५ ॥ Nānārthārṇavasaṃkṣepa 4.145
  • नानार्थार्णवसंक्षेप हनुष्अङ्गारशकटौ ना तु हनुषः क्रोध ईरितः । राक्षसे तु द्वयोरुक्तो हलिजस्तु महाद्रुमे ॥ २०२९ ॥ Nānārthārṇavasaṃkṣepa 4.2029
  • नानार्थार्णवसंक्षेप अनुबन्धक्रोधेऽपि सज्जनः प्राह दोषेऽप्यमरदत्तकः । अथानुद्वेष इत्येष दीर्घद्वेषानुबन्धयोः ॥ २६ ॥ Nānārthārṇavasaṃkṣepa 6.26
  • नानार्थार्णवसंक्षेप आडम्बरआडम्बरोऽस्त्री संरम्भे गजगर्जिततूर्ययोः । युद्धवादित्रनिर्घोषे केचित् क्रोधे तु सज्जनः ॥ ५९ ॥ Nānārthārṇavasaṃkṣepa 6.59
  • परमानन्दीयनाममाला उईर्लक्ष्मीधरयोरुश्च शम्भौ मोक्षोर्ध्वशक्तिषु । भावे स्यादुत्प्रकाशे च निपातः क्रोधलोभयोः ॥ ६ ॥ Paramānandīyanāmamālā 1.6
  • परमानन्दीयनाममाला टङ्कक्रोधे मानान्तरे कोशे तगरे केसरद्रुमे । पाषाणदारणे क्रोधे टङ्कणोपि मतः सताम् ॥ २१३ ॥ Paramānandīyanāmamālā 5.14.213
  • शब्दरत्नावली प्रतिघउल्लाघः प्रयते कृष्णे नीरोगदक्षयोस्त्रिषु । निदाघः स्वेदसलिले ग्रीष्मकाले तयोष्मनि ॥ पलिघः कलशे काचघटगोपुरसद्मसु । परिघोऽर्मलघाताऽस्त्रयोगभेदेषु कीर्तितः ॥ प्रतिघः प्रतिघातेऽपि क्रोधमूर्छनयोरपि ॥ Śabdaratnāvalī 7.4.8
  • शब्दरत्नावली खष्पकृपी स्त्रियां द्रोणपत्न्यां स्याद्द्रोणश्यालके कृपः । कृपा दयायां हर्षे च खष्पः क्रोधे वलात्कृतौ ॥ Śabdaratnāvalī 7.21.4
  • शब्दरत्नावली भामब्रह्मी मत्स्यप्रभेदे स्यात्फञ्जिकाशाकयोः स्त्रियाम् । ब्राह्मी स्त्रियां सोमवल्लीभारतीब्रह्मशक्तिषु ॥ भ्रमः कुन्दभमणयोः भ्रान्तौ च जलनिर्गमे । भामः स्याद्भास्करे क्रोधे दीप्तौ च भगिनीपतौ ॥ Śabdaratnāvalī 7.25.15
  • शब्दरत्नावली मन्युअथ भाग्यं क्लीबलिङ्गं स्याच्छुभाशुभकर्मणोः । मयो दैत्ये च करभे शिल्पिन्यश्वतरेऽपि च ॥ मध्यमस्त्री विलग्ने स्यान्न्याय्येऽन्तरेऽधमे त्रिषु । मत्स्याः पुंभूम्नि देशे तु मीने नारायणे पुमान् ॥ मन्युर्ना दैन्यशोकेष्टिक्रोधेष्वहङ्कृतौ क्वचित् ॥ Śabdaratnāvalī 7.26.22
  • शब्दरत्नावली मत्सरभ्रामरः कामुके भृङ्गे भ्रामरं मधुशिलयोः । मत्सरः कृपणे क्रोधे मात्सर्येऽसह्यसम्पदि ॥ Śabdaratnāvalī 7.27.92
  • शब्दरत्नावली विप्रतीसारविप्रतीसारः कौकृत्येऽनुशमक्रोधयोरपि । भवेत्समभिहारस्तु पौनःपुन्यभृशार्थयोः ॥ Śabdaratnāvalī 7.27.150
  • शब्दरत्नावली उंमा विकल्पे वारणे स्यात्स्मातीते पादपूरणे ॥ मा स्म स्यान्मङ्गले तथ्ये वारणेऽन्यकृतावपि । अमासहार्थे रश्म्यर्थे निकरार्थे रसार्थके ॥ अज्ञाते विस्मये स्मृत्यामुद्यमार्थे निगद्यते । उं प्रश्ने चाभ्युपगमे क्रोधे च कोपगर्जिते ॥ ऊं पृच्छायामपक्रोशे रोषोक्तौ दम्भभाषिते । उमङ्गीकारकल्याणप्रणवोपक्रताह्वये ॥ Śabdaratnāvalī 8.1.48
  • शब्दरत्नावली हूम्किमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥ सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥ हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥ एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥ अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥ कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥ परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥ अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥ तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥ भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । Śabdaratnāvalī 8.1.50
  • शब्दरत्नावली अयेअयि सम्बोधने सानुनयप्रश्नानुरागयोः ॥ अये विषादे क्रोधे च स्मृतौ सम्बोधनेऽपि च । पश्य प्रशंसास्मययोर्दिष्ट्या मङ्गलहर्षयोः ॥ समया निकटे मध्ये कालविज्ञायनेऽपि च । Śabdaratnāvalī 8.1.51
  • शब्दरत्नाकर नामप्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु । नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने ॥ २२७० ॥ Śabdaratnākara 5.2.2270
  • तन्त्राभिधान ॠॠः क्रोधोऽतिथीशो वाणी वामनः श्रीश्च गोधृती । ऊर्ध्वमुखी निशानाथः पद्ममाला विनष्टधीः ॥ २६ ॥ Tantrābhidhāna 2.9.26
  • तन्त्राभिधान क्षपरात्मा क्रोध-संहारौ वनान्तो मेरुवाचकः । सर्वाङ्गं सागरः कामः संयोगान्तस्त्रिपूरकः ॥ १७१ ॥ Tantrābhidhāna 2.52.171
  • तन्त्राभिधान ऐक्रोधं कालात्मकं कुर्याद् भौतिकं वाग्भवं स्मृतम् । नादबिन्दु-समायुक्तं समादायोग्रभैरवीम् ॥ Tantrābhidhāna 10.35
  • वैजयन्ती नामनाम प्रकाश्यसंभाव्यक्रोधोपगमकुत्सने । प्रबन्धे निकटेऽतीते पुराणेऽनागते पुरा ॥ २३ ॥ Vaijayantī 8.7.23