कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

श्री

śrīस्त्री · fem.

In 23 kośas: 43 synonym verses, 14 as a nānārtha head word, 45 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.11 · p. 5
मरुदेवा विजया सेना सिद्धार्था च मङ्गला ।ततः सुसीमा पृथ्वी लक्ष्मणा रामा ततः परम् ॥ ३९ ॥नन्दा विष्णुर्जया श्यामा सुयशाः सुव्रताचिरा ।श्रीर्देवी प्रभावती च पद्मा वप्रा शिवा तथा ॥ ४० ॥वामा त्रिशला क्रमतः पितरो मातरोऽर्हताम् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ज (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 4 प्र (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 4 श (wrong syllable)
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.226 · p. 14
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.357 · p. 18
ऋद्धे विभूतिः संपत्तिर्लक्ष्मीः श्रीऋद्धिसंपदः ॥ ३५७ ॥
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1512 · p. 57
आभा राढा विभूषा श्रीरभिख्याकान्तिविभ्रमाः ।लक्ष्मीश्छाया च शोभायां सुषमा सातिशायिनी ॥ १५१२ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.27
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.139
एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका ।पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥ ८० ॥सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः ।अनीकिनी दशानीकिन्यक्षौहिण्यथ सम्पदि ॥ ८१ ॥सम्पत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.31 · p. 5
लक्ष्मीः श्रीः कमला पद्मा पद्मवासा हरिप्रिया ।क्षीरोदतनया मा च शब्दज्ञैरिन्दिरा स्मृता ॥ ३१ ॥
अनुष्टुप्
genderस्त्रीfem.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.11 · p. 9
श्रीः श्रीदा लोकजननी कलशाम्बुधिकन्यका ।गङ्गातनूजा निधिजा विष्णुवक्षस्थलालया ॥ ११ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.257 · p. 117
सम्पत्तिः सम्पदा संपल्लक्ष्मीः श्रीर्विपदा विपत् ।विपत्तिरापद्दुःखार्था न द्वयोरायुधं पुनः ॥ २५७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.134 · p. 394
हिमा बहुभुजा स्कन्दमाता च श्रीर्धनाञ्जनी ।सावित्री मन्दरावासा कर्वरी च महाजया ॥ १३४ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.177 · p. 399
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.142 · p. 432
मनीषा धिषणा श्रीश्चिच्चेतना शेमुषी चिदा ।प्रज्ञा संज्ञा चितिर्द्धामा विज्ञानं ज्ञानमित्यपि ॥ १४२ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.25 · p. 441
अपि स्याद्गीर्गिरा वाक् च स्त्रियां लापः पुमानयम् ।स्याद्वादरेला धिषणा गौर्जूः श्रीः पद्मलाञ्छना ॥ २५ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.29 · p. 442
शंखिनी श्रीर्महातारा लोचना च त्रिलोचना ।सैषा चतुर्विधा वाणी परा पश्यन्तिका पुनः ॥ २९ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.54 · p. 457
कन्दर्पलोकपर्यायमात्रर्था पद्मलाञ्छना ।लक्ष्मीर्वृषाकपायी श्रीर्मङ्गला मङ्गलार्थका ॥ ५४ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.3 · p. 461
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.27 · p. 10
हरिप्रियाऽम्भोनिधिजा…श्रीःलक्ष्मीन्दिरा पङ्कजमन्दिरा श्रीः ।लक्ष्मीश्च लक्षी तरला रमानाम्आलोकमाता कमलाह्वया सा ॥ २७ ॥
इन्द्रवज्राmetre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.67 · p. 34
आभाऽभिख्या विभूषा श्री-र्लक्ष्मी-कान्ति-द्युति-त्विषः ।राढा छाया विभ्रमो ना सुषमा परमा छविः ॥ ६७ ॥
अनुष्टुप्
genderस्त्रीfem.
यात्रामात्रादिकान् शब्दान् स्त्रियां स्त्रीलिङ्गे विद्याज्जानीयादित्यर्थः । इयं यात्रा तीर्थादिगमनम् । इयं मात्राऽक्षरावयवस्तोकं च । इयं भस्त्रा लोहधमनी । इयं दंष्ट्रा दशनविशेषः । इयं वरत्रा त्रिगुणीकृता रज्जुः । वरत्रादीनामापि त्रान्तत्वान्नपुंसकत्वे प्राप्ते । ब्रूमः । त्रप्रत्ययाभावात्तद्व्यवस्थाभावादिति । भावान्तं त्र च । भाववाचकाद्धातोस्त्रप्रत्ययः स्यात् । ईच्च ऊच्च ईदूतौ तावन्ते यस्य तदिदं शब्दरूपमीदूदन्त अन्तःशब्दः प्रत्येकमभिसम्बध्यते । द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते इत्युक्तत्वात् । एकोऽच् यस्य तत् एकाच् एकस्वरमित्यर्थः । ईदूदन्तं यच्चैकाच् स्त्रियां तच्छब्दरूपं भवति । इयं स्त्री योषित् । इयं श्रीर्देवताविशेषः प्रभुशक्तिश्च । इयं भ्रूरक्ष्णोरुपरिरेखा । एकाजिति किम् । सेनानीः । ग्रामणीः । शरदादयोऽपि स्त्रियाम् । इयं शरत् ऋतुविशेषः । इयं दरत् ग्रीवास्थानम् । इयं दृषत् शिला । इयं प्रावृट् जलधरसमयः । चकारः समुच्चयार्थः । एवकारोऽवधारणे ।स्थूणोर्णे स्त्रीयोगे स्तो गृहशशपूर्वकयोर्नपुंसकता ।सर्वस्याक्षिनाम्नो जलनाम्नश्चैव मुक्त्वापः ॥ १३ ॥
metre not recognised
genderस्त्रीfem.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.17 · p. 10
दशवर्णे सुवर्णे श्रीः पञ्चवर्णे तु रैः स्मृतम् ।तुङ्गं तु द्वादशे वर्णे कुदणं षोडशे स्मृतम् ॥ १७ ॥
अनुष्टुप्
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 76 · p. 37
गोविन्दो वासुदेवश्च लक्ष्मीः श्रीर्गोमिनीन्दिरा ।तत्पतिः शैलभूम्यादिधरश्चक्रधरस्तथा ॥ ७६ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.9 · p. 7
लक्ष्मीः क्षीरोदधिसुता श्रीः पद्मा कमला रमा ।पद्मवासा हरेः कान्ता ता सा या मेन्दिरापि च ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.385 · p. 99
कान्तिर्लक्ष्मीरभिख्या श्रीर्विभूषाभा च विभ्रमः ।राढा शोभा तथा छाया सुषमातिशयोद्भवा ॥ ३८५ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.23 · p. 104
छन्दाधीनवशायत्ततन्त्राद्यास्तत्र भूरिशः ।संपत्तिः श्रीर्विभूतिस्तु लक्ष्मीः संपत्समा स्त्रियाम् ॥ २३ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.396 · p. 28
विष्णुप्रिया लोकमाता रमा मा श्रीः शशिस्वसा ।हलायुधः कामपालो रेवतीरमणो बलः ॥ ३९६ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.25 · p. 3
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.67 · p. 26
दर्पणो मुकुरादर्शौ व्यजनं तालवृन्तकम् ।शोभा कान्तिर्विभूषा श्रीर्लक्ष्मीश्छाया द्युतिश्छविः ।राढाभिख्या च लावण्यं सुषमा विभ्रमोऽपि च ॥ ६७ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति विड्वर्गः Śāradīyākhyanāmamālā 3.3.48 · p. 39
संपत्तिः श्रीर्विभूतिश्च लक्ष्मीसंपत्समृद्धयः ।श्रीमान्समृद्धो लक्ष्मीवानिभ्य आढ्यो धनेश्वरः ॥ ४८ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.27 · p. 5
सुयशाः सुव्रता माता तथाऽचिराभिधा ततः ।जनित्री श्रीश्च देवी च माता प्रभावती तथा ॥ २७ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 चि (wrong syllable); pāda 4, syllable 3 प्र (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.309 · p. 41
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.529 · p. 67
श्रीस्तु लक्ष्मीर्विभूतिर्वै ऋद्धिसम्पत्तिसम्पदः ॥ ५२९ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2753 · p. 448
आभाऽभिख्या विभूषा च शोभा कान्तिश्च विभ्रमः ।राढा छाया छविर्लक्ष्मीर्द्युतिः श्रीरपि कथ्यते ॥ २७५३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.50 · p. 5
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.202 · p. 15
श्रीर्भासाभाश्च सान्तोऽयमादन्तोऽपि च कुत्रचित् ।निहारोऽपि च नीहारः प्रालेयं तुहिनं हिमम् ।अवश्यायस्तुषारः स्यान्मिहिका महिकापि च ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.322 · p. 132
अथ लक्ष्मीः स्त्रियां सम्पत् सम्पत्तिः श्रीश्च कीर्तिता ।एता अपि स्त्रियां तिस्रो विपदापद्विपत्तयः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्त्रीलिङ्गसङ्ग्रहः Śabdaratnāvalī 9.4 · p. 308
विशेषे द्योदिवौ स्त्रीत्वे क्लीबे चापि त्रिपिष्टपम् ।स्त्रियामेकस्वरेदूदन्ताः श्रीः ह्रीः भ्रूश्च भीरपि ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.96 · p. 185
पद्मायामीरी आ या च कमला कमलीन्दिरा ।इन्दिः श्री-लक्ष्म्यौ क्विब्यन्तौ यरौ शम्बर-संबरौ ॥ ९६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 री (wrong syllable); pāda 3, syllable 5 क्ष्म्यौ (wrong syllable)
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.26 · p. 4
पद्मा पयोजकन्या श्रीर्भार्गवी पङ्कजाह्वया ।जीवनी मोहनी सूक्ष्मा लक्ष्मीः पुष्टिर्निरञ्जना ॥ २६ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1291 · p. 157
भद्रासनं भद्रपीठं पीठं कोशोऽर्थसंचयः ।लक्ष्मीश्रीसंपदस्तुल्या विपत्तिविपदापदःधान्यादेर्वीवधः प्राप्तिरायातिस्तु धनागमः ॥ १२९१ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1745 · p. 211
अग्निदः पूर्वगीर्वेदः स्यादकृत्रिमगीरपि ।शक्तिः श्रीः शूर्पकारातिरिक्षुधन्वा च हृच्छयः ॥ १७४५ ॥
अनुष्टुप्
genderस्त्रीfem.
तन्त्राभिधान Tantrābhidhāna · अज्ञात भूतडामरतन्त्रोक्तबीजाभिधान Tantrābhidhāna 10.6 · p. 61
शाग्निः शान्ति-बिन्दुनादैर्लक्ष्मीप्रणव उच्यते ।श्रीर्लक्ष्मीर्विष्णुवनिता रमा क्षीरसमुद्रजा ॥श्री̐॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्ति (wrong syllable)
genderस्त्रीfem.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.41 · p. 9
श्री च लक्ष्मी चला सा मा रमाजलधिजेऽन्दिरा ।मणिः स्यमन्तको हस्ते विष्णोरुरसि कौस्तुभः ॥ ४१ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.191 · p. 98
संपत्संपत्तिलक्ष्म्यौ श्रीर्विपत्तिर्विपदापदौ ।अवसादस्तु सादः स्याद्विषादश्च श्लिकुर्न ना ॥ १९१ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.813 · p. 93
कटुतिक्तकषायास्तु सौरभ्येऽपि प्रकीर्तिताः ।शोभार्थेऽपि प्रयुज्यन्ते लक्ष्मीश्रीकान्तिविभ्रमाः ॥ ८१३ ॥
अनुष्टुप्
meanings
धरणिकोश Dharaṇikośa · धरणिदास रश्लोकः Dharaṇikośa 26.3.1 · p. 178
श्रीशब्दः कविभिः प्रोक्तो लक्ष्मीसंपत्तिकान्तिषु ।अधिकारे सरस्वत्यां शोभाकीर्तिप्रभासु च ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.95 · p. 301
स्रुस्तु स्रुवे निर्झरवाचकोऽपिद्रूः कामरूपिण्यपि काञ्चने च ।श्रीरिन्दिरावेषसरस्वतीषुसंपत्तिशोभारचनात्रिवर्गे ॥ ९५ ॥
इन्द्रवज्रा
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.3 · p. 301
बिल्वद्रुमे स्या[44a]त्सरलद्रुमेऽपिपरिच्छदे धूस्तु सुरापगायाम् ।भारेऽपि यानस्य मुखेऽपि सा स्या-त्स्त्रियां तु पूः पत्तनदेहयोश्च ॥
उपजातिःmetre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 1.1.60 · p. 6
वाग्वाण्यां गौणवृत्त्या तु शब्दे वक्त्रे च केचन ।श्रीरिन्दिरायां शोभायां स्यात् संपत्तिलवङ्गयोः ॥ ६० ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास प्रथमः परिच्छेदः Paramānandīyanāmamālā 1.38 · p. 5
लोऽमृते चलने शक्रे ला दाने लीस्तु कङ्कणे ।श्लेषबन्धनयोः श्रीश्च सरलद्रवसम्पदोः ॥ ३८ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास प्रथमः परिच्छेदः Paramānandīyanāmamālā 1.39 · p. 5
लक्ष्मीप्रभाभारतीषु शं सुखश्रेयसोरपि ।शीः स्वापे शुर्निशानाथे षूः प्रसूतौ च षो वरे ॥ ३९ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र रैकं Śivakoṣa 22.1.1 · p. 34
श्रीः श्रीनिवेशके बिल्वे राजादनलवङ्गयोः ।
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.1 · p. 263
रः कामवह्नौ च रुः शब्दे रा धने पुमान् ।री गतौ स्त्री च रा दाने काञ्चनेऽपि च कुत्रचित् ।श्रीः शोभा भारती वेशरचना भूतिवृद्धिषु ।विधात्रिवर्गसम्पत्तिलक्ष्मीषु सरलद्रुमे ॥
अनुष्टुप्metre not read in every line
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.2 · p. 264
तथोपकरणे वृद्धौ सिद्धावपि भवेत् स्त्रियाम् ।द्रुर्द्रुमे ना गतौ स्त्री तु स्रुः स्त्रियां निर्झरे स्रवे ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2247 · p. 272
विट् प्रजावैश्ययोः पुंसि स्त्री मले जनने द्वयोः ।श्रीः कान्तिसंपदोर्लक्ष्म्यां लवङ्गकुसुमेऽपि च ॥ २२४७ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.375 · p. 223
श्रीलक्ष्मीवेशसम्पत्सु भारतीशोभयोरपि ।शिखरं शैलवृक्षाग्रकक्षापुलककोटिषु ॥ ३७५ ॥
अनुष्टुप्
उत्पलिनी Utpalinī · व्याडि Utpalinī 63 · p. 51
लक्ष्मीसरस्वतीधीत्रिवर्गसम्पद्विभूतिशोभासु ।उपकरणवेषरचनाविधासु च श्रीरिति प्रथिता ॥ ६३ ॥
आर्या
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 8.2.19 · p. 272
लक्ष्मीरिव लवंगे श्रीः पद्मायां कान्तिसंपदोः ।रुग्ज्वालाकान्तिवांछासु तृट् तु लिप्सापिपासयोः ॥ १९ ॥
अनुष्टुप्

श्री as a meaning in nānārtha verses