कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

ककुद्मती

kakudmatīस्त्री · fem.

In 10 kośas: 9 synonym verses, 1 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.607 · p. 26
मध्योऽवलग्नं विलग्नं मध्यमोऽथ कटः कटिः ।श्रोणिः कलत्रं कटीरं काञ्चीपदं ककुद्मती ॥ ६०७ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 प (wrong syllable)
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.128
कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.512 · p. 59
काञ्चीपदं कलत्रं जघनं श्रोणी ककुद्मती ज्ञेया ।आरोहश्च नितम्बः कटी कटीरं त्रिकस्थानम् ॥ ५१२ ॥
आर्या
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.65 · p. 216
रताकुके कूपकौ च द्वयोः श्रोणिः कटिः स्त्रियाम् ।ककुद्मती त्रिकस्थानं कलत्रं रसनापदम् ॥ ६५ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.267 · p. 134
कटिः श्रोणिः कलत्रं च कटीरं कट इत्यपि ।काञ्चीपदककुद्मत्यावारोहस्तु नितम्बकः ॥ २६७ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.143 · p. 43
नाभेरधोभागदेशे वस्तीति परिकीर्तितम् ।ककुद्मती तु स्यात्काञ्चीबन्धदेशे कटोऽपि च ॥ १४३ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.40 · p. 23
मध्योऽवलग्नं विलग्नं मध्यमोऽलङ्क एव च ।काञ्चीपदं कटिः श्रोणिः कटीरं च ककुद्मती ॥ ४० ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.979 · p. 150
कटिः कटः कटीरञ्च कलत्रञ्च ककुद्मती ।श्रोणिः काञ्चीपदं चेति नामानि प्रथितानि वै ॥ ९७९ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.64 · p. 178
कांचीपदं कलत्रं च कटिः श्रोणिः ककुद्मती ।पुरोभागोऽस्य जघनो नितंबोऽपरभागकः ॥ ६४ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.427 · p. 83
ककुद्मान् वृषभे पुंसि षण्डसंज्ञे च गोपतौ ।ककुद्मती तु श्रोण्यां स्त्री कण्टको तु पुमानयम् ॥ ४२७ ॥
अनुष्टुप्