कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अवलग्न

avalagnaक्ली · neut.

In 15 kośas: 13 synonym verses, 2 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.607 · p. 26
मध्योऽवलग्नं विलग्नं मध्यमोऽथ कटः कटिः ।श्रोणिः कलत्रं कटीरं काञ्चीपदं ककुद्मती ॥ ६०७ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 प (wrong syllable)
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.79
मध्यमं चावलग्नं च मध्योऽस्त्री द्वौ परौ द्वयोः ॥ ७९ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.517 · p. 59
रेखात्रयाङ्किता ग्रीवा कम्बुग्रीवेति कथ्यते ।अवलग्नं विलग्नं च मध्यमं मध्यमुच्यते ॥ ५१७ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.168 · p. 39
कक्षा क्लीबे बाहुमूलं तदधः पार्श्वमस्त्रियाम् ।विलग्नं मध्यमं मध्यमवलग्नं च न स्त्रियाम् ॥ १६८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 141 · p. 69
समीपाभ्यासमासन्नमभ्यर्णं सन्निधिं विदुः ।अविदूरं च निकटमवलग्नमनन्तरम् ॥ १४१ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.266 · p. 134
नाभिर्नाभेरधोभागे बस्तिर्मूत्रपुटं पुनः ।मूत्राशयोऽवलग्नं तु विलग्नं मध्यमध्यमौ ॥ २६६ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.90 · p. 7
चित्तं चेतो मनः स्वान्तं तालुः काकुदतालुके ।मध्योऽवलग्नं क्षीणाङ्गं नाभिर्नालपयोरुहम् ॥ ९० ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.40 · p. 23
मध्योऽवलग्नं विलग्नं मध्यमोऽलङ्क एव च ।काञ्चीपदं कटिः श्रोणिः कटीरं च ककुद्मती ॥ ४० ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.978 · p. 149
अवलग्नं विलग्नं च मध्यश्च मध्यमः स्मृतः ॥ ९७८ ॥
metre not recognised
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.287 · p. 101
कक्षौ द्वौ बाहुमूले स्यादस्त्री पार्श्वं तयोरधः ।अस्त्री मध्यो मध्यमञ्च विलग्नमवलग्नवत् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.180 · p. 203
नान्तौ, प्लीहा चाबन्तोऽपि, मध्ये मध्यम इत्यपि ।विलग्नावलग्नौ सर्वे पुंक्लीबाः, रसनापदे ॥ १८० ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable); pāda 3, syllable 5 ल (wrong syllable)
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1069 · p. 133
मध्यमं चावलग्नं स्याद् विलग्नं मध्यमस्त्रियाम् ।स्तनौ कुचौ तयोरग्रं चूचुकं भुजमूर्ध्नि तु ॥ १०६९ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.67 · p. 178
कुक्षिको मलुकस्तुन्दं जठरं चोदरं न ना ।अवलग्नवलग्नौ तु मध्यमो मध्यमस्त्रियाम् ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.4 · p. 262
अन्तर्हितौ चाथ वधे मृधे स्या-दायोधनं मध्यवहावलग्नम् ।लग्नेऽन्यवच्चाभिजनस्तु वंशेकुलध्वजे ख्यातिजनुर्भुवोश्च ॥ ४ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.18 · p. 27
निर्वादे क्ली त्रिषु पुनर्मुहुर्दृष्टेऽपि गर्हिते ।अवलग्नं तनोर्मध्ये न स्त्री सक्ते पुनस्त्रिषु ॥ १८ ॥
अनुष्टुप्

अवलग्न as a meaning in nānārtha verses

  • नानार्थार्णवसंक्षेप मध्यमअवलग्नाह्वये ना तु मध्यदेशेश्वरे नृपे । सप्तानां च स्वराणां स्यात् षड्जादीनां कचित् स्वरे ॥ १३४२ ॥ Nānārthārṇavasaṃkṣepa 4.1342
  • शब्दरत्नावली मध्यमपञ्चमी स्त्री तु पाञ्चाल्यां पञ्चानां पूरणे त्रिषु । मध्यमः स्वरभिन्मध्यदेशयोर्मध्यजेऽन्यवत् ॥ अवलग्नेऽस्त्रियां स्त्री तु नार्यां दृष्टरजस्यपि । ल्यक्षरच्छन्दसि तथा कर्णिकाङ्गुलिभेदयोः ॥ Śabdaratnāvalī 7.25.39