कटि
kaṭiस्त्री · fem.In 19 kośas: 19 synonym verses, 18 as a meaning of another word.
मध्योऽवलग्नं विलग्नं मध्यमोऽथ कटः कटिः ।श्रोणिः कलत्रं कटीरं काञ्चीपदं ककुद्मती ॥ ६०७ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 प (wrong syllable)
genderस्त्रीfem.
कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती ।
अनुष्टुप्
genderस्त्रीfem.
तनुस्तनूश्च देहे स्यात् सान्तया तनुषा सह ।घुटिर्घुटी च घुटिका घुटोऽपि स्यात् कटिः कटी ॥ १७७ ॥
अनुष्टुप्
genderस्त्रीfem.
कलत्रं च कटीरोऽस्त्री फलको ना कटिः स्त्रियाम् ।ककुद्मतो द्वयोः श्रोणिः स्त्रियौ श्रोणिकटी कटः ॥ २०२ ॥
अनुष्टुप्
genderस्त्रीfem.
रताकुके कूपकौ च द्वयोः श्रोणिः कटिः स्त्रियाम् ।ककुद्मती त्रिकस्थानं कलत्रं रसनापदम् ॥ ६५ ॥
अनुष्टुप्
genderस्त्रीfem.
प्राणो नाम वायुः सोऽस्यास्तीति प्राणी तस्याङ्गं प्राण्यङ्ग इकारः अन्ते यस्य तदिदन्तम् । तत्सर्वं स्त्रीलिङ्गं भवति । तद्यथा । इयं कटिः श्रोणिः अङ्गुलिः पङ्क्तिरित्यादि वस्तिकुक्षिपाणीनामपीदन्तत्वाच्च स्त्रीत्वे प्राप्ते बाधः क्रियते । एतान्विमुच्य वर्जयित्वेत्यर्थः । पुंसीत्यधिकारात्तेषां पुंस्त्वमेव भवति । अयं वस्तिः नाभेरधः । अयं कुक्षिरुदरस्थानम् । अयं पाणिर्हस्त इति । जङ्घादयः शब्दाः स्त्रियां भवन्ति । इयं जङ्घा जानुनोरधस्तात् । पादस्योपरिस्था च । इयं शिरा देहधारिणी । इयं स्नुषा पुत्रवधूः ।इयं नासिका गन्धहारिणी । इयं चूडा शिखा । इयं वसा शोणितविकारः स्नेहश्च ।स्रक्स्रुक्स्फिक्त्वग्वाग्योषितो हि विद्यात्स्त्रियां द्युनावौ च ।दीधितिमेकां[का] मुक्त्वा रश्म्यभिधानं तु पुंस्येव ॥ १८ ॥
metre not recognised
genderस्त्रीfem.
एते नपुंसके भवन्ति । इदं मण्डलं सूर्यस्य । केशरं किञ्जल्कः । भाण्डमुपकरणद्रव्यम् । उत्तरीयं प्रावरणम् । सोपानं खण्डखण्डिका । कल्मषं पापं अघं पापं च । प्रशब्दादेरन्तरं शब्दं नपुंसके विद्धि । इदं प्रान्तमत एवानुपसर्गस्तु पुंस्येवान्तशब्दः । कुटुम्बपुलिनशब्दाभ्यां सह नपुंसके । इदं कुटुम्बं गोत्रवर्गः । इदं पुलिनं द्वीपम् ।स्थालीसभाजरानां स्त्रीत्वं स्थल्याश्च वीच्याश्च ।छविकट्योर्मञ्जर्यावल्याश्चैवं विजानीयात् ॥ ७९ ॥
metre not recognised
genderस्त्रीfem.
कटिर्नितम्बं श्रोणी च जघनं जानु जह्नु च ।चलनं चरणं पादं क्रमोऽंह्रिश्च पदं विदुः ॥ १०३ ॥
अनुष्टुप्
genderस्त्रीfem.
कटिः श्रोणिः कलत्रं च कटीरं कट इत्यपि ।काञ्चीपदककुद्मत्यावारोहस्तु नितम्बकः ॥ २६७ ॥
अनुष्टुप्
genderस्त्रीfem.
वृषणोऽण्डोऽण्डकं मुष्को नितम्बः कटिमण्डनम् ।जघनोरू तालवृष्ठं कटिः काञ्चीगुणास्पदम् ॥ ९४ ॥
अनुष्टुप्
genderस्त्रीfem.
कुक्कुभस्तित्तिरो लावो जीवो वाटेयको कटिः ।श्यामा कुमारी दुर्गोमा पोदकी भूमिदारिका ॥ ३७४ ॥
अनुष्टुप्
genderपुंmasc.
मध्योऽवलग्नं विलग्नं मध्यमोऽलङ्क एव च ।काञ्चीपदं कटिः श्रोणिः कटीरं च ककुद्मती ॥ ४० ॥
अनुष्टुप्
genderस्त्रीfem.
कटिः कटः कटीरञ्च कलत्रञ्च ककुद्मती ।श्रोणिः काञ्चीपदं चेति नामानि प्रथितानि वै ॥ ९७९ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्रियां कटिः कटी श्रोणिः श्रोणी चापि कुकुद्मती ।कलत्रं फलकं स्यात्तु कटीरश्च कटीप्रोथः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 प्रो (wrong syllable)
genderस्त्रीfem.
कटीरं च कटि-कटी-कटाः श्रोणी च श्रोणियुक् ।वलित्रयसमाहारे त्रिवलिस्त्रिवली तथा ॥ १८१ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
विवाहो नन्दनो वप्ता पतिः स्त्री संततिः सुतः ।कटीरः कटिरारोहः श्रोणिरासा तु सीवनी ॥ १८२७ ॥
अनुष्टुप्
genderस्त्रीfem.
तुटितृटिकटित्रोटिकुटिकोटिकरोटयः ।गौल्यालिकुहलीपालीमधूलीधूलिकेलयः ॥ २३०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 तृ (wrong syllable)
genderस्त्रीfem.
ट-कारः सोमनाथाख्यः खेचरो दक्षस्फिक् कटिः ।कपाली वामकटिश्च अर्धचन्द्रः पुनर्भवः ॥ ३६ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 क्ष (wrong syllable); pāda 3, syllable 6 क (wrong syllable)
genderस्त्रीfem.
कांचीपदं कलत्रं च कटिः श्रोणिः ककुद्मती ।पुरोभागोऽस्य जघनो नितंबोऽपरभागकः ॥ ६४ ॥
अनुष्टुप्
genderस्त्रीfem.
कटि as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् कटकाकेभगण्डौ करटौ गजगण्डकटी कटौ । Amarakośa 3.3.68
- धरणिकोश प्रोथकोथो नेत्ररुजो भेदे कोथः स्याच्छटितेऽपि च । प्रोथः स्यादश्वघोणायां कटिः प्रोथ उदाहृतः ॥ Dharaṇikośa 16.2.5
- धरणिकोश जघनसवनं त्वध्वरे स्नाने सोमनिर्दलनेऽपि च । जघनश्च स्त्रियाः पूर्वश्रोणीभागे कटौ तथा ॥ Dharaṇikośa 19.2.25
- कोषकल्पतरु प्रोथप्रोथः कटौ पुंसि तुरंगघोणा- न नाङ्गना गर्भगतस्तु न स्त्री । पान्थेऽन्यवत्पुंसि तु भक्तजाते सिक्थो मधूच्छिष्टगतस्तु षण्ढे ॥ ९४ ॥ Koṣakalpataru 6.18.94
- कोषकल्पतरु जघननितम्बिनीनां कटितः पुरस्ता- द्भागे च कट्यां जघनं प्रदिष्टम् । हासे स्मिते स्याद्धसनं स्त्रियां स्या- दङ्गारधान्यां श्वसनस्तु वायौ ॥ १२ ॥ Koṣakalpataru 6.21.12
- कोषकल्पतरु कटंभराकट्यां च कीनाशगतौ तु देह- यात्रा भवेद्भोजनवाचिका च । स्यात्तुङ्गभद्रा च सरिद्विशेषे मदोत्कटे वाच्यसमः प्रदिष्टः ॥ ३६ ॥ Koṣakalpataru 6.27.36
- नानार्थार्णवसंक्षेप श्रोणिश्रोणिः कट्यामुपस्थेऽथ संस्था स्यादाकृतौ मृतौ । व्यवस्थायां समाप्तौ च प्रणिधावपि केचन ॥ ११० ॥ Nānārthārṇavasaṃkṣepa 2.1.110
- नानार्थार्णवसंक्षेप जघनकटिमात्रे परे पश्चाद्भागे कस्यापि वस्तुनः । जयनं तु रथादीनां सन्नाहे विजयेऽपि च ॥ ३४ ॥ Nānārthārṇavasaṃkṣepa 3.3.34
- शब्दरत्नावली कटइष्टिर्यज्ञेऽभिलाषे च संग्रहश्लोकयोः स्त्रियाम् । कटः कट्यां द्वयोर्ना तु सूक्ष्मकाष्ठे तृणे शवे ॥ Śabdaratnāvalī 7.11.3
- शब्दरत्नावली जघनजननी स्त्री दयामात्रोर्जननं जन्मवंशयोः । जगन्नुस्तु पुमान् जन्तौ वीतिहोत्रे च कीर्त्त्यते ॥ जयनं स्याद्घोटकादिसन्नाहे च जयेऽपि च । जघनं योषितां श्रोणिपुरोभागे कटावपि ॥ ज्ञानी स्याद्गणके पुंसि ज्ञानयुक्तेऽभिधेयवत् । जीवनं वर्त्तने प्राणधारणे सलिलेऽपि च ॥ जीवनी स्यात्तु जीवन्त्यां जीवनापि च मोदके । तपनो भास्करेऽपि स्यान्नरकेऽरुस्करेऽपि च ॥ तलुनो मारुते यूनि युवत्यां तलुनी स्त्रियाम् । तलिनं तरलस्तोकस्वच्छेषु वाच्यलिङ्गकः ॥ तमोघ्नो विष्णुसूर्येन्दुबुद्धमहेशवह्निषु । त्यागी दातरि शूरे च विवेकिनि भवुत्पुमान् ॥ तेवनं केलिविपिने क्रीडायाञ्च नपुंसकम् । तेमनं व्यञ्जने क्लीबं तथार्द्रीकरणेऽपि च ॥ तेजनी तृणपूले स्यात्तेजनो वंशमात्रके ॥ Śabdaratnāvalī 7.20.56
- शब्दरत्नावली आरोहआरोहस्तु समुच्छ्रयदीर्घत्वारोहणेषु च । कट्यामप्युत्तमस्त्रीणां तथावरोह इत्यपि । उत्साह उद्यमे सूत्रे कल्याणभावभेदयोः ॥ Śabdaratnāvalī 7.33.17
- शब्दरत्नाकर कटीरबकुलेऽस्त्री तु किञ्जल्के कपिलो मुनिवर्णयोः । कटीरं कन्दरे कट्यां कुशिको मुनिवृक्षयोः ॥ २०८० ॥ Śabdaratnākara 4.1.2080
- तन्त्राभिधान टदक्षाङ्गकार्द्धचन्द्रौ च जरा भूतिः पुनर्भवः । बृहस्पतिर्धनुश्चित्रा प्रमदा विमला कटिः ॥ ९० ॥ Tantrābhidhāna 2.28.90
- त्रिकाण्डशेष प्रोथधनं च ग्रन्थना चाऽपि तीर्थं तूपाययोगयोः । कट्यंशवणयोः प्रोथो वीथिः पङ्क्तौ गृहांशके ॥ १९७ ॥ Trikāṇḍaśeṣa 3.3.197
- वैजयन्ती पार्ष्णिपुमांस्तु पृतनाकट्यां पापं म्यात् क्रूरपाप्मनोः । पुण्यं धर्मे जले हेम्नि पुष्पे क्ली सुंदरेऽर्थवत् ॥ ५० ॥ Vaijayantī 6.5.50
- वैजयन्ती नितंबनितंबः पश्चिमश्रोणिभागेऽद्रिकटके कटौ । निष्क्रमो बुद्धिसामर्थ्ये निर्गतौ चाथ भूपतौ ॥ ३६ ॥ Vaijayantī 7.1.36
- वैजयन्ती कटीरकटीरं कन्दरे कट्यां कलत्रं श्रोणिभार्ययोः । क्रन्दनं रुदिते ध्वाने कार्मुकं शस्त्रचापयोः ॥ ६ ॥ Vaijayantī 7.3.6
- वैजयन्ती जघनगह्वरं कन्दरे दंभे चलनं पादयन्त्रयोः । जघनं स्यात् कटौ पूर्वश्रोणिभागापरांगयोः ॥ १५ ॥ Vaijayantī 7.3.15