कनिष्ठा
kaniṣṭhāस्त्री · fem.In 12 kośas: 11 synonym verses, 3 as a nānārtha head word, 1 as a meaning of another word.
कनीनिका तु कनिष्ठावहस्तो हस्तपृष्ठतः ॥ ५९३ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठः प्रदेशिनी ।मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात् ॥ ८२ ॥
अनुष्टुप्
genderस्त्रीfem.
अम्बाऽम्बिका च माता स्यादत्तिका भगिनी स्वसा ।बालाबुसा कनिष्ठा स्यादावुत्तो भगिनीपतिः ॥ १५३ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रदेशिनी तर्जनी स्यान्मध्या ज्येष्ठा च मध्यमा ।आनामिका स्यात्सावित्री कनिष्ठा तु कनीनिका ॥ १७४ ॥
अनुष्टुप्
genderस्त्रीfem.
ज्येष्ठा तु ज्यायसी नारी कनिष्ठा तु यवीयसी ।प्रवत्स्यत्पतिका सा स्यात्प्रवत्स्यति यदीश्वरः ॥ २३ ॥
अनुष्टुप्
genderस्त्रीfem.
करशाखाथाङ्गुलिभ्यो निर्गते स्यान्निरङ्गुलम् ।प्रमाणे द्ब्यङ्गुलादि स्यात्त्रिरङ्गुलमथास्त्रिषु ॥अस्त्री स्यादङ्गुलोऽङ्गुष्ठस्तर्जनी तु प्रदेशिनी ।प्रदेशनी मध्यमा तु ज्येष्ठा मध्या च सा भवेत् ॥अनामिका तु सावित्री कनिष्ठा स्यात्कनीनिका ॥ ८४ ॥
अनुष्टुप्
genderस्त्रीfem.
अनामिका तु सवित्री कनिष्ठा तु कनीनिका ।पुनर्भवो महाराजो भुजाकण्टनखावपि ॥ २५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
genderस्त्रीfem.
अनामाऽनामिका मध्या मध्यमा दीर्घपर्विका ।कनिष्ठिका कनिष्ठान्त्या करजो नखरो नखः ॥ ९२ ॥
अनुष्टुप्
genderस्त्रीfem.
कनीनिका कनिष्ठा च व्यवहारे प्रयुज्यते ।अवहस्तः प्रसिद्धोऽपि कथ्यते हस्तपृष्ठतः ॥ ९५५ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रदेशिनी प्रदेशिका, ज्येष्ठाङ्गुल्यां तु मध्यमा ।मध्या ज्येष्ठा-कनिष्ठे द्वे टवर्गद्वितीयान्विते ॥ १७१ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 शि (wrong syllable); pāda 4, syllable 5 ती (wrong syllable)
genderस्त्रीfem.
अनामिका तु सावित्री कनिष्ठा तु कनीनिका ।ज्येष्ठा तु मध्यमांगुष्ठस्त्वंगुलोऽथांगुलिः स्त्रियाम् ॥ ७४ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रकोष्ठः कूर्पराधः स्यात्प्रकोष्ठं च गृहान्तरम् ।कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा काचिदङ्गुली ॥
अनुष्टुप्
meaningsअङ्गुली
वरे वरीयस्यपि तित्तिरौ चक्लीबे तु ताम्रे मरिचे तथैव ।साधिष्ठ आर्येऽतिदृढे कनिष्ठ-स्त्वल्पेऽनुजे यूनि तथाङ्गुलौ स्त्री ॥ ६१ ॥
उपजातिः
meaningsअङ्गुलि
पाषाणभेदे स्त्री त्रिस्तु कनिष्ठोऽल्पतमेऽनुजे ।तथा युवतमे स्त्री तु कनिष्ठाल्पतमाङ्गुलौ ॥ ३९४ ॥
अनुष्टुप्
meaningsअल्पतमाङ्गुलि
कनिष्ठा as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप हालीस्त्री तु हाली कनिष्ठायां पत्न्यां स्वसरि सा पुनः । हाला सुरायामथ नप् चन्दने तुहिने हिमम् ॥ १५९२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1592