कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कनीनिका

kanīnikāस्त्री · fem.

In 12 kośas: 18 synonym verses, 3 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.575 · p. 25
चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम् ।लोचनं दर्शनं दृक्च तत्तारा तु कनीनिका ॥ ५७५ ॥
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.593 · p. 26
कनीनिका तु कनिष्ठावहस्तो हस्तपृष्ठतः ॥ ५९३ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.92
कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका ॥ ९२ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.520 · p. 59
नयनोपान्तमपाङ्गः कनीनिका नयनमध्यतारा च ।कूर्पं भ्रुवोश्च मध्यं सृक्व स्यादोष्ठपर्यन्तः ॥ ५२० ॥
आर्या
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.147 · p. 36
दृशी दृक् स्याद्दृशिरपि स्त्रियां क्लीबे च दर्शनम् ।तारकास्त्र्यस्त्रियां तारा बिम्बिन्यक्ष्णः कनीनिका ॥ १४७ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.174 · p. 39
प्रदेशिनी तर्जनी स्यान्मध्या ज्येष्ठा च मध्यमा ।आनामिका स्यात्सावित्री कनिष्ठा तु कनीनिका ॥ १७४ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.12 · p. 462
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.84 · p. 127
करशाखाथाङ्गुलिभ्यो निर्गते स्यान्निरङ्गुलम् ।प्रमाणे द्ब्यङ्गुलादि स्यात्त्रिरङ्गुलमथास्त्रिषु ॥अस्त्री स्यादङ्गुलोऽङ्गुष्ठस्तर्जनी तु प्रदेशिनी ।प्रदेशनी मध्यमा तु ज्येष्ठा मध्या च सा भवेत् ॥अनामिका तु सावित्री कनिष्ठा स्यात्कनीनिका ॥ ८४ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.8 · p. 220
ईक्षणं लोचनं देहदीपोऽम्बक-विलोचने ।दर्शनं तारकं * * [तार] - तारके च कनीनिका ॥ ८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.39 · p. 99
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.240 · p. 130
नयनं लोचनं नेत्रमम्बकं दृष्टिचक्षुषी ।अक्षीक्षणे तथा दृक्च तारायां स्यात्कनीनिका ॥ २४० ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.256 · p. 132
अनामिका तु सवित्री कनिष्ठा तु कनीनिका ।पुनर्भवो महाराजो भुजाकण्टनखावपि ॥ २५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.30 · p. 22
नयनं लोचनं नेत्रमीक्षणं चक्षुरम्बकम् ।अक्षि दृग्दृष्टिरस्यान्तस्तारका च कनीनिका ॥ ३० ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.923 · p. 141
रूपग्रहोऽम्वकं चैव दृक् चेति कथ्यते बुधैः ।तारा कनीनिका भूयस्तारका रूपग्राहिणी ॥ ९२३ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ति (wrong syllable); pāda 4, syllable 5 प (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.955 · p. 146
कनीनिका कनिष्ठा च व्यवहारे प्रयुज्यते ।अवहस्तः प्रसिद्धोऽपि कथ्यते हस्तपृष्ठतः ॥ ९५५ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1085 · p. 134
मलं तु दूषिका दृष्ट्योस्तारकास्तु कनीनिका ।अपाङ्गश्चक्षुषोरन्ते कटाक्षोऽपाङ्गदर्शने ॥ १०८५ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.74 · p. 179
अनामिका तु सावित्री कनिष्ठा तु कनीनिका ।ज्येष्ठा तु मध्यमांगुष्ठस्त्वंगुलोऽथांगुलिः स्त्रियाम् ॥ ७४ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.94 · p. 180
ईक्षणं नयनं चक्षुरक्षि लोचनमंबकम् ।दृष्टिर्दृक् चाथ न पुमांस्तारकाक्ष्णः कनीनिका ॥ ९४ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास कार्धश्लोकः Dharaṇikośa 1.2.62 · p. 14
संतानिका क्षीरशरे तथा मर्कटवासके ।कनीनिकाङ्गुलिः क्षुद्रा तारकाक्ष्णः कनीनिका ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.59 · p. 158
पाञ्चालिका रीतिविशेषकेऽपिस्याद्याज्ञसेन्यां च कनीनिका तु ।कनिष्ठिकालोचनतारयोः स्या-ल्लूतादिजाले त्वपि दुग्धसारे ॥ ५९ ॥
उपजातिः
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.162 · p. 186
कलिङ्गे ग्रामचटके कलविङ्को भवेत् पुमान् ।स्यात् कनिष्ठाङ्गुलिनेत्रतारकयोः कनीनिका ॥
अनुष्टुप्metre not read in every line

कनीनिका as a meaning in nānārtha verses

  • कल्पद्रुकोशः तारभकनीनिकयोस्तारो वराटो रज्जुशस्त्रयोः । भेऽश्लेषहस्तश्रवणाः मेरुजम्ब्वां सुदर्शनः ॥ ११२ ॥ Kalpadrukośa 3.5.112
  • कोषकल्पतरु तारकसर्वलिङ्गि भकनीनिकयोः स्या- द्वारकस्तु तुरगेऽश्वगतौ च । स्यान्निषेद्धरि विशेष्यसलिङ्ग सायकस्तु विशिखेऽपि कृपाणे ॥ ४४ ॥ Koṣakalpataru 6.1.44
  • कोषकल्पतरु तारना कुब्जवृक्षे गिरिशेऽथ षण्ढे मद्यस्य पात्रे परिकीर्तितश्च । मुक्तादिशुद्धौ तरणे च तारः सन्मौक्तिके भे तु कनीनिकायाम् ॥ १० ॥ Koṣakalpataru 6.27.10
  • शब्दरत्नावली तारकतक्षकः स्यान्नागराजे विश्वकर्मणि बर्धकौ । तारकः स्यात् कर्णधारे देत्ये ना न द्वयोर्हसि(?) । कणीनिकायां नक्षत्रे न पुमान् त्रातरि त्रिषु ॥ Śabdaratnāvalī 7.1.83