कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

बाला

bālāस्त्री · fem.

In 14 kośas: 14 synonym verses, 4 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.264 · p. 17
बाला वासूर्मार्ष आर्यो देवो भट्टारको नृपः ।
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर सप्तमोपदेशः Bālaprabodhikā 7.153 · p. 80
अम्बाऽम्बिका च माता स्यादत्तिका भगिनी स्वसा ।बालाबुसा कनिष्ठा स्यादावुत्तो भगिनीपतिः ॥ १५३ ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.251 · p. 88
तोषिणी वर्जिनी बाला विकटान्ता तरङ्गिणी ।दार्व्यां दारुहरिद्रा स्यात् वेणौ यवफलः स्मृतः ॥ २५१ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.280 · p. 280
नीलाम्लानश्छादकः स्याद्बाला चार्त्तगला च सा ।भिण्टी कण्टकुरण्टः स्यात्पीता सैंहचरी च सा ॥ २८० ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.11 · p. 418
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.18 · p. 199
पृथुको रुदथः पोतो गर्भो मुष्टिंधयश्च सः ।स्तनंधयी शिशुर्बाला पाका मुष्टिंधयी स्त्रियाम् ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 31 · p. 15
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.16 · p. 3
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.76 · p. 11
तद्ध्वजे वैजयन्तः स्याज्जर्झरः परभेदकः ।तद्धाट्यां लङ्घिनी बाला पूरणा परमावती ॥ ७६ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.38 · p. 3
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.3 · p. 20
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.489 · p. 61
बाला वासूः कुमारी स्याद् मार्ष आर्यश्च मारिषः ।देवो भट्टारको भूपः श्यालो नृपस्य राष्ट्रियः ॥ ४८९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नृ (wrong syllable)
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.185 · p. 60
आस्फोता चैकपटलमाल्यां बालाथ रक्तकः ।बन्धूको बन्धुजीवश्च सप्तलायां विभावनी ॥ १८५ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.212 · p. 62
तोषण वर्णिनी बाला विटकान्ता तरंगिणी ।दार्व्यां दारुहरिद्रा स्यात् पीतदारुश्च पर्जनी ॥ २१२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ण (wrong syllable)
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ लान्ताः Koṣakalpataru 6.28.64 · p. 340
मूर्खे पुमान्वारणवाजिपुच्छेकरेऽप्युदीच्ये गदितः स्त्रियां न ।वाली तु मेधावपि कर्णभूषा-न्तरेऽथ बाला त्रिपुटास्त्रियोः स्यात् ॥ ६४ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.851 · p. 115
त्रिर्ना तु नालिकेरेऽथ पञ्चवर्षगजे द्वयोः ।बाला तु मल्लिकाभेदे हरिद्रायां च सा स्त्रियाम् ॥ ८५१ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र लद्विः Śivakoṣa 23.1.446 · p. 40
बालोऽस्त्रियामाचमने यूथीबालैलयोः स्त्रियाम् ।भल्ली भल्लातके भल्लोऽरलौ शालोक्षिपीलुके ॥ ४४६ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.28 · p. 278
बालः केशे शिशौ मूर्खे वालधौ वालमौषधौ ।बालाऽलङ्कारभेदे स्याद्योषिति स्त्रीत्रुटावपि ॥
अनुष्टुप्

बाला as a meaning in nānārtha verses