कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

ठान्ताः · ठार्धश्लोकः

॥ ठार्धश्लोकः ॥

निष्ठा निष्पत्तिनाशान्तयाच्ञानिर्वहणेषु च ।काष्ठा दिक्कालमर्यादाकर्षेषु काष्ठमिन्धनम् ॥
11.2.1 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 षु (wrong syllable)
कोष्ठं कुक्षौ कुशूले च कोष्ठमभ्यन्तरेऽपि च ।पृष्ठश्चरममात्रे स्याच्छरीरावयवान्तरे ॥
11.2.2 · p. 41
अनुष्टुप्
ज्येष्ठो वृद्धेऽग्रजे श्रेष्ठे ज्येष्ठा च गृहयोधयोः ।कण्ठो गले गलध्वाने कण्ठः फेणसमीपयोः ॥
11.2.3 · p. 41
अनुष्टुप्
वण्ठः कुन्तायुधे खर्वे अकृतोद्वाह एव च ।पाठस्तु पठने प्रोक्तः पाठा स्याद्विद्धकर्णिका ॥
11.2.4 · p. 41
अनुष्टुप्
हठः प्रसभ आख्यातो वारिपर्णी हठी मता ।कठो मुनौ ऋचाभेदे तदध्येता च वेदिता ॥
11.2.5 · p. 41
अनुष्टुप्
कमठः कच्छपे प्रोक्तः शल्लकीभाण्डभेदयोः ।जरठः कठिने ख्यातो जरठी पाण्डुका च गौः ॥
11.2.6 · p. 41
अनुष्टुप्
प्रकोष्ठः कूर्पराधः स्यात्प्रकोष्ठं च गृहान्तरम् ।कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा काचिदङ्गुली ॥
11.2.7 · p. 42
अनुष्टुप्
प्रतिष्ठा याजनिष्पत्तावादरे स्थानमात्रके ।वैकुण्ठः केशवे प्रोक्त इन्द्रो वैकुण्ठ इष्यते ॥
11.2.8 · p. 42
अनुष्टुप्
श्रीकण्ठः स्यान्महादेवे श्रीकण्ठः कुरुजाङ्गले ।नीलकण्ठः शिवो बर्ही चाटकैरश्च खञ्जनः ॥
11.2.9 · p. 42
अनुष्टुप्
कलकण्ठस्तु दात्यूहो बलाकापिकसुस्वराः ।दन्तशठस्तु जम्बीरः कपित्थश्चाम्ललोलिका ॥
11.2.10 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 श (wrong syllable)
कालपृष्ठं कर्णधनुः कङ्का[24]ख्यं च खगं विदुः ।पूतिकाष्ठं देवदारु विदुः सरलपादपम् ।हारिकण्ठः परभृतः कण्ठो हारान्वितोऽपि यः ॥
11.2.11 · p. 42
अनुष्टुप्metre not read in every line