मध्यमा
madhyamāस्त्री · fem.In 11 kośas: 18 synonym verses, 5 as a nānārtha head word.
मध्यमा तु दृष्टरजास्तरुणी युवतिश्चरी ।तलुनी दिक्करी वर्या पतिंवरा स्वयंवरा ॥ ५११ ॥
metre not recognised
genderस्त्रीfem.
ज्येष्ठा तु मध्यमा मध्या सावित्री स्यादनामिका ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
genderस्त्रीfem.
स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे ॥ ८ ॥
अनुष्टुप्
genderस्त्रीfem.
अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठः प्रदेशिनी ।मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात् ॥ ८२ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रदेशिनी तर्जनी स्यान्मध्या ज्येष्ठा च मध्यमा ।आनामिका स्यात्सावित्री कनिष्ठा तु कनीनिका ॥ १७४ ॥
अनुष्टुप्
genderस्त्रीfem.
मध्यमा नाभिकण्ठे च मूर्द्धस्थाने स्थिताः क्रमात् ।गुप्तस्थानस्थितास्तिस्रश्चतुर्थी किल वैखरी ॥ ३० ॥
अनुष्टुप्
genderस्त्रीfem.
तस्य भार्यापि कौमारी नग्निकानागतार्तवा ।गौरी स्यादष्टवर्षाथ मध्यमा प्रकटार्तवा ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.
करशाखाथाङ्गुलिभ्यो निर्गते स्यान्निरङ्गुलम् ।प्रमाणे द्ब्यङ्गुलादि स्यात्त्रिरङ्गुलमथास्त्रिषु ॥अस्त्री स्यादङ्गुलोऽङ्गुष्ठस्तर्जनी तु प्रदेशिनी ।प्रदेशनी मध्यमा तु ज्येष्ठा मध्या च सा भवेत् ॥अनामिका तु सावित्री कनिष्ठा स्यात्कनीनिका ॥ ८४ ॥
अनुष्टुप्
genderस्त्रीfem.
कनी कन्या कुमारी च नग्निका अरजाः स्मृता ।दृष्टेन रजसा कन्या मध्यमा परिकीर्तिता ॥ १७६ ॥
अनुष्टुप्
genderस्त्रीfem.
अङ्गुली करशाखाङ्गुरी चाङ्गुष्ठाङ्गुलौ समौ ।प्रदेशिनी तु तर्जन्यां मध्या ज्येष्ठा तु मध्यमा ॥ २५५ ॥
अनुष्टुप्
genderस्त्रीfem.
अनामाऽनामिका मध्या मध्यमा दीर्घपर्विका ।कनिष्ठिका कनिष्ठान्त्या करजो नखरो नखः ॥ ९२ ॥
अनुष्टुप्
genderस्त्रीfem.
तरुणी तलुनी स्याद्वै युवतिः युवती चरी ।मध्यमा दिक्करी चैव दृष्टरजाः पुनः किल ॥ ८०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
genderस्त्रीfem.
अङ्गुष्ठोऽङ्गगुल इत्यस्ति तर्जनी च प्रदेशिनी ।मध्या च मध्यमा ज्येष्ठा सावित्री स्यादनामिका ॥ ९५४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
मध्यमा स्याद्दृष्टरजास्तथा मध्यमिकेत्यपि ।युवतिर्युवती यूनी तरुणी तलुनीति च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्दृ (wrong syllable)
genderस्त्रीfem.
प्रदेशिनी तर्जनी स्यात् प्रदेशन्यपि देशिनी ।अथ मध्या मध्यमा स्यादनामा स्यादनामिका ॥
अनुष्टुप्
genderस्त्रीfem.
प्रदेशिनी प्रदेशिका, ज्येष्ठाङ्गुल्यां तु मध्यमा ।मध्या ज्येष्ठा-कनिष्ठे द्वे टवर्गद्वितीयान्विते ॥ १७१ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 शि (wrong syllable); pāda 4, syllable 5 ती (wrong syllable)
genderस्त्रीfem.
कुक्षिको मलुकस्तुन्दं जठरं चोदरं न ना ।अवलग्नवलग्नौ तु मध्यमो मध्यमस्त्रियाम् ॥ ६७ ॥
अनुष्टुप्
genderस्त्रीfem.
अनामिका तु सावित्री कनिष्ठा तु कनीनिका ।ज्येष्ठा तु मध्यमांगुष्ठस्त्वंगुलोऽथांगुलिः स्त्रियाम् ॥ ७४ ॥
अनुष्टुप्
genderस्त्रीfem.
उत्कृष्ट उक्ता स्वविशेष्यलिङ्गास्यान्मध्यमोऽपि स्वरमध्यवा[33a]ची ।ना देहमध्ये त्रिषु मध्यजे स्यात्स्त्रियां तु दृष्टार्तवयोषिदर्थः ॥ ७९ ॥
उपजातिःmetre not read in every line
meaningsदृष्टार्तवयोषित्
छन्दोविशेषेऽपि च कर्णिकायांमध्याङ्गुलावप्यधमस्तु निन्द्ये ।न्यूने त्रयेथावसरे क्रमे चा-रम्भे तथा प्रक्रम ईरितोऽत्र ॥ ८० ॥
इन्द्रवज्रा
doubtful
त्रि तु मध्यभवे स्त्री तु मध्यमा मध्यमाङ्गुलौ ।स्त्रियां च दृष्टरजसि रभसस्त्वाह शब्दवित् ॥ १३४३ ॥
अनुष्टुप्
कर्णिकायां च तस्याश्च बह्वर्थत्वं निरुप्यताम् ।मर्कटस्तु कपौ द्वे स्याल्लूतायां च स नपस्त्रियोः ॥ १३४४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
meaningsकर्णिका
doubtful
पञ्चमी स्त्री तु पाञ्चाल्यां पञ्चानां पूरणे त्रिषु ।मध्यमः स्वरभिन्मध्यदेशयोर्मध्यजेऽन्यवत् ॥अवलग्नेऽस्त्रियां स्त्री तु नार्यां दृष्टरजस्यपि ।ल्यक्षरच्छन्दसि तथा कर्णिकाङ्गुलिभेदयोः ॥
अनुष्टुप्