अङ्गुलि
aṅguliस्त्री · fem.In 16 kośas: 17 synonym verses, 1 as a nānārtha head word, 20 as a meaning of another word.
अङ्गुलिः कर्णिका दन्तौ विषाणौ स्कन्ध आसनम् ॥ १२२४ ॥
अनुष्टुप्
genderस्त्रीfem.
अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठः प्रदेशिनी ।मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात् ॥ ८२ ॥
अनुष्टुप्
genderस्त्रीfem.
कराग्रं पुष्करं प्रोक्तमङ्गुलिः कर्णिका मता ।पेचकः पुच्छमूलं तु पद्मं स्याद्विन्दुजालकम् ॥ २१९ ॥
अनुष्टुप्
genderस्त्रीfem.
अङ्गुल्यः करशाखाः कर्णः श्रोत्रं श्रुतिः श्रवः श्रवणम् ।ग्रीवा धमनिर्मन्या शिरोधरा कन्धरा गलः कण्ठः ॥ ५१६ ॥
गीतिः
genderस्त्रीfem.
अङ्गुलीमङ्गुलिं चाहुरङ्गुरीमङ्गुरिं तथा ।प्रदेशिनी(?)प्रदेशिन्यौ प्रसृतिः प्रसृतः समौ ॥ १८१ ॥
अनुष्टुप्
genderस्त्रीfem.
करशाखा श्रीभर्तुर्विंशोपकाः सकलजननखा-ऽङ्गुल्यः ।दशकन्धरनेत्र-भुजास्तु संख्यया विंशतिर्वाच्या ॥ २७ ॥
आर्याmetre not read in every line
genderस्त्रीfem.
अङ्गुलिः करशाखा स्यादङ्गुलीयाङ्गुलीत्यपि ।अङ्गुरिः करवीरो नाप्यङ्गुष्ठोऽङ्गुल इत्यपि ॥ १७३ ॥
अनुष्टुप्
genderस्त्रीfem.
मणिबन्धादाकनिष्ठं करस्य करभो बहिः ।हस्तपुच्छं कुल्युषं च शक्वर्यङ्गुलिरङ्गुरिः ॥ ८१ ॥
अनुष्टुप्
genderस्त्रीfem.
प्राणो नाम वायुः सोऽस्यास्तीति प्राणी तस्याङ्गं प्राण्यङ्ग इकारः अन्ते यस्य तदिदन्तम् । तत्सर्वं स्त्रीलिङ्गं भवति । तद्यथा । इयं कटिः श्रोणिः अङ्गुलिः पङ्क्तिरित्यादि वस्तिकुक्षिपाणीनामपीदन्तत्वाच्च स्त्रीत्वे प्राप्ते बाधः क्रियते । एतान्विमुच्य वर्जयित्वेत्यर्थः । पुंसीत्यधिकारात्तेषां पुंस्त्वमेव भवति । अयं वस्तिः नाभेरधः । अयं कुक्षिरुदरस्थानम् । अयं पाणिर्हस्त इति । जङ्घादयः शब्दाः स्त्रियां भवन्ति । इयं जङ्घा जानुनोरधस्तात् । पादस्योपरिस्था च । इयं शिरा देहधारिणी । इयं स्नुषा पुत्रवधूः ।इयं नासिका गन्धहारिणी । इयं चूडा शिखा । इयं वसा शोणितविकारः स्नेहश्च ।स्रक्स्रुक्स्फिक्त्वग्वाग्योषितो हि विद्यात्स्त्रियां द्युनावौ च ।दीधितिमेकां[का] मुक्त्वा रश्म्यभिधानं तु पुंस्येव ॥ १८ ॥
metre not recognised
genderस्त्रीfem.
पुष्पवासो रागनालिर्भद्राक्षाभफलोऽङ्गुलिः ।दशपत्रं पीतरसं शतत्वक् पीतकेसरम् ॥ २१४ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 पी (wrong syllable)
genderस्त्रीfem.
हस्तः करः शयः पाणिः पञ्चशाखश्च स स्मृतः ।अङ्गुल्यः करशाखाः स्युस्तथाङ्गुष्ठाङ्गुलौ समौ ॥ ३५ ॥
अनुष्टुप्
genderस्त्रीfem.
अङ्गुली स्यादङ्गुलिश्च करशाखाऽपि कथ्यते ।अङगुरिरङ्गुरी शास्त्रे ह्रस्वान्तोऽपि निगद्यते ॥ ९५३ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 गुरि (syllable split)
genderस्त्रीfem.
कणिष्ठिका कणिष्ठा च कणीयसी कणीनिका ।करशाखाङ्गुरिश्चाङ्गुर्यङ्गुलीऽङ्गुलिरङ्गुली ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
genderस्त्रीfem.
मणिः स्यात्करशाखायामङ्गुरी चाङ्गुरिस्तथा ।अङ्गुलोऽङ्गुलिरङ्गुल्यां तर्जन्यां तु प्रदेशिनी ॥ १७० ॥
अनुष्टुप्
genderस्त्रीfem.
अङ्गुल्यः करशाखाः स्युस्तर्जनी तु प्रदेशिनी ।अङ्गुष्ठस्तर्जनी मध्यानामिका च कनिष्ठिका ॥ १०७३ ॥
अनुष्टुप्
genderस्त्रीfem.
शिवमल्ली झिल्लिचुल्ली वल्ली मल्ली मतल्ल्यपि ।दर्विर्वेदिः खनिः श्रोणिरश्रिरङ्गुलिरोषधिः ॥ २३०९ ॥
अनुष्टुप्
genderस्त्रीfem.
अनामिका तु सावित्री कनिष्ठा तु कनीनिका ।ज्येष्ठा तु मध्यमांगुष्ठस्त्वंगुलोऽथांगुलिः स्त्रियाम् ॥ ७४ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
भूमिनद्यगुलीषु स्यादङ्गुलिस्तु गजस्य च ।कराग्रे कर्णिकासंज्ञे शाखास्वप्यङ्घ्रिहस्तयोः ॥ ६ ॥
अनुष्टुप्
अङ्गुलि as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् कर्णिकाकारिका यातनावृत्त्योः कर्णिका कर्णभूषणे ॥ १५ ॥ करिहस्तेऽङ्गुलौ पद्मबीजकोश्यां त्रिषूत्तरे । वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः ॥ १६ ॥ Amarakośa 3.3.16
- कोषकल्पतरु कनिष्ठावरे वरीयस्यपि तित्तिरौ च क्लीबे तु ताम्रे मरिचे तथैव । साधिष्ठ आर्येऽतिदृढे कनिष्ठ- स्त्वल्पेऽनुजे यूनि तथाङ्गुलौ स्त्री ॥ ६१ ॥ Koṣakalpataru 6.11.61
- कोषकल्पतरु अङ्गुलीक्लीबे तु स्याद्देवदालीफलार्था- ऽथाङ्गुल्युक्ता कर्णि[74a]कायां गजस्य । अङ्गुल्यां चाथो हले लाङ्गलं स्या- त्पुष्पे ताले गेहदारुप्रभेदे ॥ ६२ ॥ Koṣakalpataru 6.28.62
- नानार्थार्णवसंक्षेप धुर्धीस्तु कर्मणि बुद्धौ च धूस्तु यानमुखेऽङ्गुलौ । भारे विकृतगीतौ च गायत्त्राह्वयसामनि ॥ ५५ ॥ Nānārthārṇavasaṃkṣepa 1.1.55
- नानार्थार्णवसंक्षेप विश्अङ्गुल्यां स्त्री समाम्नाये समाम्नाताज(ने?ये)न च । द्वयोर्मनुष्ये वैश्ये च स्वं त्वात्मात्मीययोस्त्रिषु ॥ १९ ॥ Nānārthārṇavasaṃkṣepa 1.5.19
- नानार्थार्णवसंक्षेप कक्ष्यापार्श्वाद्यङ्गसमुद्भूतरोगभेदेऽङ्गुलावपि । कथाख्यानाह्वयग्रन्थविशेषे कथनेऽपि च ॥ १९ ॥ Nānārthārṇavasaṃkṣepa 2.1.19
- नानार्थार्णवसंक्षेप धीतिधीता बुद्धौ सुतायां च कन्यायामिति कश्चन । धीतिः स्यादङ्गुलौ पानेऽप्याधारे च व्यवस्थितौ ॥ ५३ ॥ Nānārthārṇavasaṃkṣepa 2.1.53
- नानार्थार्णवसंक्षेप स्वसृस्वसृशब्दः समाम्नातो भगिन्यामङ्गुलावपि । सरिन्नद्यां तथा छन्दोभेदे द्वासप्ततिस्वरे ॥ ११३ ॥ Nānārthārṇavasaṃkṣepa 2.1.113
- नानार्थार्णवसंक्षेप योक्त्रधनप्रतापयोश्चाथ यजुर्यज्ञोत्सवे तथा । मन्त्रजातिविशेषे च योक्त्रं त्वङ्गुलियोक्त्रयोः ॥ ४८ ॥ Nānārthārṇavasaṃkṣepa 2.3.48
- नानार्थार्णवसंक्षेप अण्वीसूक्ष्मेषु त्रिषु तत्रापि स्त्र्यर्थे वाण्वीत्यथाङ्गुलौ । रश्मौ चाण्वी स्त्र्यथानुर्ना प्राणे मर्त्ये तु स द्वयोः ॥ ५६ ॥ Nānārthārṇavasaṃkṣepa 2.5.56
- नानार्थार्णवसंक्षेप जामितृणेऽङ्गुलौ च स्वसरि नीवृद्भेदे च कुत्रचित् । जामि तु क्ली जलेऽभ्यासात् समानगुणवस्तुनः ॥ ४७६ ॥ Nānārthārṇavasaṃkṣepa 2.5.476
- नानार्थार्णवसंक्षेप देशिनीदेशी तु ना गुरौ त्रिस्तु केचिन्मार्गोपदेशके । स्त्री तु प्रदेशिनीनाम्न्यामङ्गुल्यां देशिनी भवेत् ॥ ६१९ ॥ Nānārthārṇavasaṃkṣepa 2.5.619
- नानार्थार्णवसंक्षेप रोहित्अग्नेरश्वे तथा वर्णभेदे त्रिषु तु तद्वति । स्त्रियां त्वृश्यस्य भार्यायां नद्यङ्गुलिलतासु च ॥ ११२३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1123
- नानार्थार्णवसंक्षेप शाखाआशुगत्यां द्वयोस्तु स्याच्छुनि शाखा पुनः स्त्रियाम् । तरोर्लतायां देहस्य पादे बाहौ तथाङ्गुलौ ॥ १३४९ ॥ Nānārthārṇavasaṃkṣepa 2.5.1349
- नानार्थार्णवसंक्षेप हरित्तद्वति स्त्री तु दिङ्नद्योरङ्गुलौ चाथ तत् तृणे । शण्डमेके नरे त्वन्ये हस्ती द्वे च मतङ्गजे ॥ १५८६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1586
- नानार्थार्णवसंक्षेप दीधितिदीधितिस्त्वङ्गुलौ रश्माविभीधेन्वोस्तु धेनुका । नालिका तु चतुर्हस्तप्रमाणे युगसंज्ञके ॥ ३७ ॥ Nānārthārṇavasaṃkṣepa 3.1.37
- नानार्थार्णवसंक्षेप रशनाखड्गत्सरु निबध्नन्ति येन द्रव्येण तत्र च । पर्वतस्य नितम्बेऽपि रशना त्वङ्गुलावपि ॥ ७२ ॥ Nānārthārṇavasaṃkṣepa 3.1.72
- नानार्थार्णवसंक्षेप अङ्गुलपक्षिलखामिसंज्ञर्षावङ्गुष्ठेऽश्वत्थपादपे । हर्षनन्दी तु पर्यायमङ्गुलेरिममामनत् ॥ ८२ ॥ Nānārthārṇavasaṃkṣepa 4.82
- नानार्थार्णवसंक्षेप अभीशुअभीशुः प्रग्रहेऽश्वस्य बाहौ चाथाङ्गुलौ स्त्रियाम् । अविष्ठस्तु द्वयोरश्वे पुंल्लिङ्गस्त्वपहोतरि ॥ १५५ ॥ Nānārthārṇavasaṃkṣepa 4.155
- नानार्थार्णवसंक्षेप सनाभिसनाभिर्हि सपिण्डेऽन्ये सोदर्येऽथाङ्गुलौ स्त्रियाम् । त्रिर्नाभिसहिते ना तु सरण्युर्वायुमेघयोः ॥ १९३१ ॥ Nānārthārṇavasaṃkṣepa 4.1931