कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मृगनाभि

mṛganābhiपुं · masc.

In 12 kośas: 12 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.391 · p. 27
जातिकोशं जातिफलं कर्पूरो हिमवालुका ।घनसारः सिताभ्रश्च चन्द्रोऽथ मृगनाभिजा ॥ ६४३ ॥मृगनाभिर्मृगमदः कस्तूरी गन्धधूल्यपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जा (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.130
मृगनाभिर्मृगमदः कस्तूरी चाथ कोलकम् ॥ १२९ ॥कक्कोलकं कोशफलमथ कर्पूरमस्त्रियाम् ।घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका ॥ १३० ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.544 · p. 62
चन्दनं स्यान्मलयजं श्रीखण्डं रोहणद्रुमः ।मृगनाभिर्मृगमदः प्रोक्ता कस्तूरिका बुधैः ॥ ५४४ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.382 · p. 62
कस्तूरी मृगनाभिः स्यान्मदनी गन्धवेलिका ।मार्जारी सुभगा वेधमुख्या स्याद्बहुगन्धदा ॥ ३८२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.14 · p. 229
संकोचं पिशुनं धीरं दीपनं रक्तचन्दनम् ।कस्तूरिका गन्धधूलिर्मृगनाभिर्लताण्डजा ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.296 · p. 138
चन्द्रः सिताभ्र आख्यातो घनसारसमाख्यकः ।कस्तूरी मृगनाभिः स्याद्गन्धधूली मृगान्मदः ॥ २९६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.64 · p. 25
कर्पूरो घनसारश्च चन्द्राख्यो हिमवालुका ।कस्तूरिका मृगमदो मृगनाभिर्मृगाण्डकः ॥ ६४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1041 · p. 160
कस्तूरी गन्धधूली च कथ्यते मृगनाभिजा ।मृगनाभिर्पुनश्चैव मृगमदोऽपि मन्यते ॥ १०४१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.393 · p. 108
कस्तुरिका च कस्तूरीमृगः कस्तूरिकामदः ।नाभीलता मृगमदो मृगनाभिर्मदाह्वयः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रि (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.203 · p. 205
सिताभश्चापि, कस्तूर्यां नाभिवन्मृगनाभिजा ।मृगनाभिर्मृगमदो मृगः स्यान्मद इत्यपि ॥ २०३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.694 · p. 89
समानौ बभ्रुनकुलावच्छकर्णशशौ समौ ।मृगनाभिस्तु कस्तूरीमृगो गन्धमृगोऽपि सः ॥ ६९४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.104 · p. 131
त्वक्पत्रं तु त्वचं चोचं वरांगं भृंगमुत्कटम् ।मृगनाभिर्मृगमदो नगः कस्तूरिकापि च ॥ १०४ ॥
अनुष्टुप्
genderपुंmasc.