कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

धीर

dhīraपुं · masc.

In 21 kośas: 32 synonym verses, 8 as a nānārtha head word, 21 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.6 · p. 18
विद्वान्सुधीः कविविचक्षणलब्धवर्णा ज्ञः प्राप्तरूपकृतिकृष्ट्यभिरूपधीराः ।मेधाविकोविदविशारदसूरिदोषज्ञाः प्राज्ञपण्डितमनीषिबुधप्रबुद्धाः ॥ ३४१ ॥व्यक्तो विपश्चित्संख्यावान्सन्प्रवीणे तु शिक्षितः ।निष्णातो निपुणो दक्षः कर्महस्तमुखाः कृतात् ॥ ३४२ ॥कुशलश्चतुरोऽभिज्ञविज्ञवैज्ञानिकाः पटुः ।
वसन्ततिलका
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.645 · p. 27
कश्मीरजन्म घुसृणं वर्णं लोहितचन्दनम् ॥ ६४४ ॥वाह्लीकं कुङ्कुमं वह्निशिखं कालेयजागुडे ।संकोचपिशुनं रक्तं धीरं पीतनदीपने ॥ ६४५ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.124
द्वितीयं च तुरीयं च न स्त्रियामथ कुङ्कुमम् ॥ १२३ ॥काश्मीरजन्माग्निशिखं वरं वाह्लीकपीतने ।रक्तसंकोचपिशुनं धीरं लोहितचन्दनम् ॥ १२४ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.5
विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः ।धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.332 · p. 39
धीरो धीमान् लब्धवर्णो विपश्चिद्,वृद्धो विद्वान् प्राप्तरूपोऽभिरूपः ।सूरिः प्राज्ञः पण्डितः सन्मनीषी,ज्ञो दोषज्ञः कोविदः स्यात्प्रबुद्धः ॥ ३३२ ॥
शालिनी
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.90 · p. 16
तडित्पतिर्महानादधीरः पर्जन्य इत्यपि ।आकालिका शतावर्ता चञ्चला चपला अपि ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम सिंहाधिकारश्चतुर्थस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 4.8 · p. 26
रजको वक्रनासश्च धीमान् धीर इतीर्यते ।ताम्राक्षः स्यादन्यभृतो वसन्तागमवाक्कविः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.380 · p. 62
असृक्पर्यायि काश्मीरं सूर्यपर्यायि दीपनम् ।संकोचं सौरमं धीरं वर्णं स्यात्पीतचन्दनम् ॥ ३८० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.48 · p. 74
धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः ।धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.536 · p. 309
ह्रस्वाङ्गो जीवदो वृद्धिप्रदो धीरस्तु दुर्द्धरः ।गोपर्यायपतिः कामी गोरक्षो गोपतिश्च सः ॥ ५३६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.67 · p. 15
हिण्डीश-खट्वाङ्गधरोर्ध्वलिङ्गाःपिङ्गाक्ष-पूषारि-विषान्तकाः स्युः ।विरूपदृग्धीरहिरण्यरेतः-कृशानुरेतः-प्रियताण्डवाश्च ॥ ६७ ॥
उपजातिः
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.11 · p. 54
शुश्रूषा स्त्री श्रवणं क्लीबे ग्रहणं धारणमूहोऽपोहः ।अर्थज्ञानं सत्त्वज्ञानं बुद्धेरन्ते गदिता हि गुणाः ।धीमा[35a]न्धीरो मनीषी बुध-विबुध-सुधी-सद्-विदद्-वादि-वेदि-प्रज्ञ-प्राज्ञ-प्रबुद्धाः कवितृ-कवयितृ-प्राप्तरूपाभिरूपाः ।ज्ञो मेधावी सुमेधाः कवि-कृतिविदथ व्यक्त-दोषज्ञ-विद्वत्-संख्यावल्लब्धवर्णाः सुधिषण-मतिमत्-सूरिणः कृष्टि-सूरी ॥ ११ ॥
स्रग्धराmetre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.14 · p. 169
ब्रह्मतीर्थं पद्मवर्णं धीरं स्यात्पुण्यसागरम् ।सुगन्धि स्याद्वृक्षरुहमथ हट्टविलासिनी ॥ १४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.14 · p. 229
संकोचं पिशुनं धीरं दीपनं रक्तचन्दनम् ।कस्तूरिका गन्धधूलिर्मृगनाभिर्लताण्डजा ॥ १४ ॥
अनुष्टुप्
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.234 · p. 129
कुङ्कुमे रक्तपर्यायं सङ्कोचपिशुनं वरम् ।धीरं कुसुम्भं घुसृणं पीतं वाल्हीकपीतने ॥ २३४ ॥
अनुष्टुप्
genderक्लीneut.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.5 · p. 8
धीरश्च मुक्ताजनको लोलकल्लोलमालिकः ।द्वितीयाम्बुनिधाविक्षुरसपूर्णो रसालयः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.193 · p. 32
धीरो मन्दगतिः कुट्टी स्यादुरस्वानुरस्तिकः ।त्वक्त्रं तु दंसनं वर्म तनुत्रं कवचोऽस्त्रियाम् ॥ १९३ ॥
अनुष्टुप्
genderविadj.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 192 · p. 90
भवो भावश्च संसारः संसरणं च संसृतिः ।तत्वज्ञश्चतुरो धीरस्त्यजेज्जन्माजवं जवम् ॥ १९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.7 · p. 102
विचक्षणः सुधीर्धीरो विपश्चिच्चतुरोऽपि च ।दक्षोऽभिज्ञो बुधो लब्धवर्णो वैज्ञानिकस्तथा ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.179 · p. 48
पत्राङ्गुलिरथ प्रोक्तं कुङ्कुमे पीतनं तथा ।रक्तं संकोचकाश्मीरजन्मनी धीरमित्यपि ॥ १७९ ॥
अनुष्टुप्
genderक्लीneut.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण स्वर्गादिलोकपालाधिकारः प्रथमस्सर्गः Śabdacandrikā 1.26 · p. 36
भारती वाचका वाणी गीर्देवी परमेश्वरी ।आजिर्मनोजवो धीरो नारदः कलहाशनः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.277 · p. 37
तार्क्ष्यध्वजः शतावर्तो जलशयो जलेशयः ।धीरोऽब्धिशयनो धन्वी सुधन्वा विष्टरश्रवाः ॥ २७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.503 · p. 64
लब्धवर्णोऽभिरूपश्च धीमान् धीरः सुधीर्बुधः ।ज्ञः प्राज्ञश्च प्रबुद्धश्च व्यक्तो विचक्षणस्तथा ॥ ५०३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1045 · p. 161
घोरं च धुसृणं धीरं पुष्परजश्च गौरवम् ।असृक्संज्ञपकर्याये वह्निशिखं च कथ्यते ॥ १०४५ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 4, syllable 3 शि (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.383 · p. 107
पिशुनं शिखरं धीरं वरं लोहितचन्दनम् ।काश्मीरजन्म काश्मीरं खलमग्निशिखं रजम् ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.10 · p. 111
धीरो विपश्चित् संख्यावान् सूरिः सूरी विचक्षणः ।दूरदर्शी लब्धवर्णो दीर्घदर्शी कविः कृती ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.161 · p. 122
बलिर्वैरोचनो धीरो विरोचनसुतोऽपि च ।वाणः स्यात् कोट्टवीपुत्रो वैरीचिर्वलिनन्दनः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.267 · p. 36
विद्वान्सूरिर्लब्धवर्णो विपश्चित्प्राज्ञो धीरः पण्डितः प्राप्तरूपः ।धीमान्कृष्टिर्दीर्घदर्शी कविर्ज्ञो दोषज्ञः सन् दूरदर्शी मनीषी ॥ २६७ ॥
शालिनी
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1146 · p. 141
कुङ्कुमं घुसृणं रक्तं बाह्लीकं पीतनं वरम् ।वासनीयककाश्मीरधीरलोहितचन्दनम् ॥ ११४६ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.150 · p. 116
कामंगाम्यनुकामीनो जवी तु जवनो जवः ।जंघालोऽतिजवे धीरमन्थरौ मन्दगामिनि ॥ १५० ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.20 · p. 202
अग्राम्ये सरलोदारविदग्धच्छेकदक्षिणाः ।गर्विते स्तब्ध उद्ग्रीवो बाहो धीरस्स इत्यापि ॥ २० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 त्या (wrong syllable)
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.52 · p. 205
अद्रुते धीरविस्रब्धावुत्तालः कर्मणि द्रुतः ।कुडुंबव्यापृते तु द्वावभ्यागारिक उत्थितः ॥ ५२ ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास रश्लोकः Dharaṇikośa 26.3.23 · p. 182
धीरो धैर्यवति ख्यातो धीरौ मन्थरपर्वतौ ।धीरं कुङ्कुममाख्यातं धीरो दक्ष उदाहृतः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.81 · p. 314
यात्रा गतौ यापनदेवपूजो-त्सवेऽथ हिंस्रस्त्रिषु घातुके स्यात् ।काकादनीमांसिकयोः स्त्रियां स्यात्धीरोऽसुरे ना त्रिषु धैर्यभाजि ॥ ८१ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.647 · p. 98
आसनेऽथ स्त्रियां धिष्ण्या स्यादुल्कायामथो पुमान् ।धीरोऽब्धौ मन्थरे तु त्रिर्धृतिमद्विदुषोरपि ॥ ६४७ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र रद्विः Śivakoṣa 22.2.381 · p. 35
सूक्ष्मैलायां हरिद्रायां गन्धकुट्यां च योषिति ।धीरा वीराकुब्जाभिदोर्धीरं पौष्कररक्तयोः ॥ ३८१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ब्जा (wrong syllable)
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.19 · p. 266
धीरः स्वैरे वलयुते बुधे क्लीबन्तु कुङ्कुमे ।नरं स्याद्रामकर्पूरे नार्जुने मनुजे विधौ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.358 · p. 217
धारा हरिद्राश्वगतिनिशाम्बुस्रुतिराजिषु ।धाराधरो खड्गमेघौ धीरः पण्डितमन्दयोः ॥ ३५८ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.359 · p. 217
धीरञ्च कुङ्कुममथो धरा पृथ्वी धरो गिरिः ।नेत्रो नेतरि नेत्रञ्च गुणे मूले विलोचने ॥ ३५९ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.44 · p. 233
ध्रुवो धात्रीशकीलर्क्षनित्येषु स्त्री तु भूस्त्रुचोः ।क्ली तर्के निश्चिते व्योम्नि धीरोऽब्धौ मंथरे बुधे ॥ ४४ ॥
अनुष्टुप्

धीर as a meaning in nānārtha verses

  • धरणिकोश भरद्वाजशरीरजो गदोऽनङ्गः पुत्रश्चापि शरीरजः । भरद्वाजः स्मृतो धीरो मुनिपक्षिविशेष[20]योः ॥ Dharaṇikośa 7.2.10
  • धरणिकोश बुद्धअर्धः खण्डे समांशेऽर्धमिद्धमातप्तदीप्तयोः । बुद्धा धीरजिनज्ञाता लुब्धौ मृगयुकाङ्क्षिणौ ॥ Dharaṇikośa 18.1.4
  • धरणिकोश सुरभिसुरभिरयमुदीर्णश्चैत्रमासे वसन्ते सति च सुरभिरुक्तो धीरविख्यातयोश्च । सुरभि गदितमेतत्सुन्दरे साधुगन्धे सुरभिरियमुदीर्णा गौः सुरा शल्लकी च ॥ Dharaṇikośa 23.3.2
  • धरणिकोश विद्वस्विद्वान् ज्ञानिनि धीरे च विद्वानध्यात्मवेदकः । भूयान्बहुतरार्थः स्यात्पुनरर्थे तदव्ययम् ॥ Dharaṇikośa 31.2.10
  • कोषकल्पतरु बुद्धधीरे च सौम्ये बुधिते पराभो- ऽथार्धं समेंऽशे शकले तु पुंसि । अन्धं तमस्यप्सु विदृक्षु भेद्ये बन्धस्तु चेतोरुजि बन्धने च ॥ ५६ ॥ Koṣakalpataru 6.20.56
  • कोषकल्पतरु विदुरस्याद्दन्तुरो वाच्यगतोऽसमोच्च- दतोरथ स्याद्विदुरोऽपि पाण्डोः । शूद्रासुते नागरधीरयोश्च निशाचरे स्याद्विथुरश्च चौरे ॥ १४ ॥ Koṣakalpataru 6.27.14
  • परमानन्दीयनाममाला धधः पुनर्धनदे धीरेऽश्ववारकसुचित्रयोः । धं पृक्ते धीस्तु बुद्धौ स्यान्निषङ्गे धा तु धातरि ॥ २६ ॥ Paramānandīyanāmamālā 1.26
  • शिवकोष काश्मीरजकाश्मीरजा विषायां क्लीबं कुष्टे च पुष्करे धीरे । तृणराजो गुडवृक्षे मोचायां कत्तृणे ताले ॥ ११४ ॥ Śivakoṣa 7.3.114
  • शिवकोष रक्तप्राचीनामलके धीरे वसन्तोत्सवमण्डने । रक्ताङ्ग्यां तु स्त्रियां रीतिर्लोहकिट्टारकूटयोः ॥ १८३ ॥ Śivakoṣa 12.1.183
  • शिवकोष पिशुनप्राचीना घनकट्व्योर्वसन्तदूत्यां च पाठिनः । चित्रे पुरे च पिशुनं धीरे पिशुना तु पृक्कायाम् ॥ २५७ ॥ Śivakoṣa 16.1.257
  • शिवकोष बिम्बबिम्बं फले बिम्बिकायां बिम्ब एरण्डधीरयोः । Śivakoṣa 18.1.2
  • शिवकोष मङ्गल्यामङ्गल्यो ग्रन्थिलाश्वत्थमसूरारिष्टवार्षिके । स्त्रियां तु शम्यधःपुष्पीमिसिधीरप्रियङ्गुषु ॥ ३५७ ॥ Śivakoṣa 21.2.357
  • शिवकोष वरवर्यभीरौ वरं धीरकुम्भसिन्धुगुडत्वचि । वरा वन्ध्याचन्द्रहासापौत्रीपाठाफलत्रिके ॥ ३८३ ॥ Śivakoṣa 22.2.383
  • शिवकोष बल्लाफलः कृष्णे बलं गन्धरसे वाट्यालके बला । बल्लस्तु शिम्बिधान्यस्य भेदे स्त्री दीप्यधीरयोः ॥ ४४५ ॥ Śivakoṣa 23.1.445
  • शब्दरत्नावली वह्लीकवञ्चको जम्बुके धूर्ते गृहवभ्रौ खलेऽपि च । व्यलीकमप्रियाकार्यवैलक्ष्यपीडनेष्वपि ॥ व्यलीकानागरे पुंसि वह्लीकं वाह्लिकं तथा । धीरे हिङ्गुनि देशाश्वभेदयोः पुंसि च द्वयम् ॥ Śabdaratnāvalī 7.1.138
  • शब्दरत्नावली सत्सत्प्रशस्ते विद्यमानेऽत्यादृते साधुसत्ययोः । धीरेऽपि च वाच्यलिङ्गं स्यात्सतीसाध्वीमयो(?) स्त्रियाम् ॥ Śabdaratnāvalī 7.16.63
  • शब्दरत्नावली विदुरविदुरो नागरे धीरे तथा पाण्डवमन्त्रिणि । विधुरा तु रसालायां विश्लेषे विकले त्रिषु ॥ Śabdaratnāvalī 7.27.100
  • शब्दरत्नावली सुमनस्सुमनः पुष्पमालत्योः स्त्रियां ना धीरदेवयोः । सुमेधास्त्रिषु सद्बुद्धौ ज्योतिष्मत्यामपि स्त्रियाम् ॥ Śabdaratnāvalī 7.32.56
  • तन्त्राभिधान ङकान्तिः श्वेताह्वयो धीरो द्विजात्मा ज्वालिनी वियत् । मन्त्रशक्तिश्च मदनो विघ्नेशी चात्मनायकः ॥ ७० ॥ Tantrābhidhāna 2.22.70
  • त्रिकाण्डशेष वाह्लीकवाह्लीकं बाह्लिके धीरहिङ्गुनोर्नाऽश्वदेशयोः । विपाकः परिणामेऽपि तिलकेऽपि विशेषकः ॥ ४३ ॥ Trikāṇḍaśeṣa 3.3.43
  • त्रिकाण्डशेष सुमनस्अग्रे प्रधाने च शिरः श्रीवासो विष्णुधूपयोः । सुमनाः पुष्पमालत्योः स्त्रियां ना देवधीरयोः ॥ ४५३ ॥ Trikāṇḍaśeṣa 3.3.453